संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
प्रारंभ

ललितार्चन चंद्रिका - प्रारंभ

'ललितार्चन चंद्रिका' अर्थात्‍ 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


श्रीः

प्रातःकृत्यादिसन्ध्यान्तभूशुद्ध्यादिक्रमेण च ।
कुर्याज्जपेन्मुख्यमन्त्रानन्यमन्त्रान् सकृज्जपेत् ॥
पूजयेत्तु कथश्चिद्वा शक्तिप्रज्ञानुसारतः ।
स्तोत्रञ्च कवचं नाम्नामावलिञ्चापि नित्यशः ॥
एवं नैत्यकधर्मस्तु साधकानॉं सुसम्मतः ।
अथ सुप्तोत्थितः शयनोपरि स्थित्वा अकुलाख्यछत्राकाराधोमुखसहस्त्रदलकमलान्तर्गतौर्ध्वास्यश्वेताष्टदलकमले द्वादशान्ताख्ये श्रीगुरुं ध्यायेत् ।
यथा शिरसि संघट्टमुद्रां बध्वा
श्वेतं श्वेतविलेपमाल्यवसनं वामेन रक्तोत्पलं ।
बिभ्रत्या प्रिययेतरेण तरसाश्लिश्टं प्रसन्नाननम् ॥
हस्ताभ्यामभय वरञ्च दधतं शम्भुस्वरूपं परं ।
हालालोहितलोचनोत्पलयुगं ध्यायेत् शिरस्थं गुरुम् ॥
हृदम्बुजे कर्णिकमध्यसंस्थं
सिंहासने संस्थितदिव्यमूर्तिम् ।
ध्यायेद्गुरुं चन्द्रशिलाप्रकाशं
चित्पुस्तकाभोतिवरं दधानम् ।
श्वेताम्बरं श्वेतविलेपपुष्पं मुक्ताविभूषं मुदितं द्विनेत्रम् ।
वामाङ्कपीठस्थितदिव्यशक्तिं मन्दस्मितं पूर्णकृपानिधानम् ।
आनन्दमानन्दकरं प्रसन्नं ज्ञानस्वरूप निजबोधरूपम् ।
योगीन्द्रमीड्यं भवरोगवैद्यं श्रीमद्गुरुं नित्यमहं नमामि ॥
सर्वविद्यामयीं सर्वपीठशक्तिस्वरूपिणीम् ।
करन्ध्रे हृदये मूले देशिकाङ्घ्रियुगत्रयम् ।
दधतीं दीप्तभूषढ्यां श्रीमहापादुकां नमः ।
इत्यशेषदेवतासमष्टिरूपं त्रैपुरमहोमयं धृतरक्तश्वेतवर्णमाल्याम्बरालेपाभरणं कमलाश्लेषमुद्रावराभयद्विद्विकरं प्रसन्नवदनेक्षणं ज्ञानानन्दमुदितमानसं श्रीशाम्भवीशम्भुगुरुमृर्त्याकृतिरक्तशुक्लचरणं शाम्भवाख्यंमिथुनं भावयित्वा तच्चरणयुगलविगळदमृतरसविसरपरिप्लुतपुषं स्वात्मानं ध्यायन्नेव तच्चरणनिर्णेजनामृतास्रवेण स्वात्मानं क्षालितशाम्भवीदीक्षात्मकशक्तिपातफलावरोधकादिसर्वमलं मत्वा परमशिवरूपं गुरुमभिमृश्य पादुकां जपेत् त्रिवारं वा पञ्चवारं वा ।
पादुका । ओं ऐं ह्रीं श्री ह्स्ख्फ्रें
हसक्षमलवरयूं सहक्षमलवरयीं ह् सौं स्हौंः
श्रीअमुकानंदनाथश्रीगुरुश्रीपादुकां पूजयामि ।
ततः तं मानसैरुपचारैरुपचर्य सुमुखसुवृत्तचतुरस्रमुद्गरयोन्यारव्याभिः पञ्चभिः मुद्राभि नत्वा स्तुवीत । यथा
नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे
विद्यावतारसंसिध्यै स्वीकृतानेकविग्रहः ॥
नवाय नवरूपाय परमार्थस्वरूपिणे
सर्वाज्ञानतमोभेदभानवे चिद्धनाय ते ॥
स्वतन्त्राय दयाक्लृप्तविग्रहाय शिवात्मने ।
परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे ॥
विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ।
प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ॥
पुरस्तात् पार्श्वयोः पृष्ठे नमस्कुर्याम्युपर्यधः ।
सदा मच्चित्तरूपेण विधेहि भवदासनम् ॥
इत्येवं पञ्चभिः श्लोकैः स्तुवीत यतमानसः
प्रातः प्रबोधसमये जपात् सुदिवसं भवेत् ।
ततः मूर्ध्नि अञ्जलिं बध्वा
ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं ग्लौं  ह्स्ख्फ्रें
हसक्षमलवरयूं सहक्शमलवरयीं ह्सौं स्हौंः आदिशक्त्यंबासहित आदिनाथनन्दनाथ परमशिवादिस्वगुरुपर्यन्त श्रीपादुकां पूजयामि इति परमशिवाद्यशेष गुरुपारंपर्यक्रमेण स्वगुरुपादाम्बुजं यावत् तावत् प्रणम्य मूलेन त्रिः प्राणायामं कुर्यात् ।
अथ स्वस्यासूलमाब्रह्मविलं प्रकाशलहरीं शक्तिबुद्धया मनोद्दग्विषयोकृत्य पुनस्तां मूलाधारदिकबिलपर्यन्तमुद्गतां तटित्कोटिकडारां तरुणदिवाकरपिञ्जरां ज्वलन्तीं मूलसंविदं शक्तिं पापपाशेन्धनदहनकर्मण्येव ज्वलदनलनिभां विज्ञाय ध्यात्वा मूलसंविच्छक्तेः निसर्गकारुण्य विमर्शवासनारश्मिभिः स्वात्मानं दग्धशक्ति दीक्षात्मकशक्तिपातफलप्रतिबन्धकादि पापपाशकश्मलजालं विचिन्त्यैवं तद्रश्मिनिहतपापपाशकश्मलजालः मूलविद्यां मनसा दशवारमावृत्य रश्मिमालां जपेत् ।

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP