संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका| अथ मूलदेवता स्तुतिः ललितार्चन चंद्रिका प्रारंभ रश्मिमालामन्त्राः मूलाधारे ॥ अथ प्रातः स्मरणम् । तत: प्रार्थना अथ मंत्रस्नानविधिः तान्त्रिकी सन्ध्या अथ जपप्रकरणम् ततो विघ्नहरमन्त्रान् जपेत् विघ्नहरमन्त्राः । षोडशाक्षरीमन्त्रजपः भूतशुद्धिः प्रत्यूहोत्सारणम् मातृकान्यासः । मूलविद्यावर्णन्यास सामान्यर्ध्यविधीः अथ विशेषार्ध्यविधिः अन्तर्यागः अथ नैवेद्यम् षडङ्गार्चनम् नित्यादेवीयजनम् गुरुमण्डलार्चनम् प्रथमावरणम् द्वितीयावरणम् तृतीयावरणम् चतुर्थावरणम् पञ्चमावरणम् षष्ठावरणम् सप्तमावरणम् अष्टमावरणम् नवमावरणम् अथ पञ्चकोशाः अथ पञ्चकामदुघा : अथ चतुःसमयमंत्राः मन्त्रपुष्पम् प्रदक्षिणाः अथ मूलदेवता स्तुतिः तत्त्वशोधनम् देवतोद्वासनम् शान्तिस्तवः विशेषार्ध्यविसर्जनम् अथ लधुपुजा न्यासः सामान्यार्ध्यविधिः पञ्चमुद्राप्रदर्शनम् : गुरुपङ्क्तिपूजा प्राणादिपञ्चमुद्राः ॥ ललिता सहस्र नामावलि ॥ ललितार्चन चंद्रिका - अथ मूलदेवता स्तुतिः 'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत. Tags : lalitacharan chandrikashastratantraतंत्रललितार्चन चंद्रिकाशास्त्र अथ मूलदेवता स्तुतिः Translation - भाषांतर कल्याणवृष्तिभिरिवामृतपूरिताभि -र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः ।सेवाभिरम्ब तव पादसरोजमूलेनाकारि किं मनसि भक्तिमतां जनानाम् ॥१॥एतावदेव जननि स्पृहणीयमास्तेत्वद्वन्दनेषु सलिलस्थगिते च नेत्रे सांनिध्यमुद्यदरुणायतसोदरस्यत्वद्विग्रहस्य सुधया परयाssप्लुतस्य ॥२॥ईशित्वभावकलुषाः कतिनाम सन्तिब्रह्मादयः प्रतियुगं प्रलयाभिभूताः ।एकः स एव जननि स्थिसिद्धिरास्तेयः पादयोस्तव सकृत् प्रणतिं करोति ॥३॥लब्ध्वा सकृत् त्रिपुरसुन्दरी तावकीनंकारुण्यकन्दलितकान्तिभरं कटाक्षम् ।कन्दर्पभावसुभगास्त्वयि भक्तिभाजःसंमोहयन्ति तरुणीर्भुबनत्रयेषु ॥४॥ह्रींकारमेव तव नाम गृणान्ति वेदाःमातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे ।यत्संस्मृतौ थमभटादिभयं विहायदीव्यन्ति नन्दनवने सह लोकपालैः ॥५॥हन्तु पुरामधिगलं परिपूर्यमाणःक्रूरः कथं नु भविता गरलस्य वेगः ।आश्वासनाय किल मातरिदं तबार्धं ।देहस्य शश्वदमृताप्लुतशीतलस्य ॥६॥सर्वज्ञतां सदसि वाक्पटुतां प्रसूतेदेवि त्वदङ्घ्रि सरसीरुहयौः प्रणामः ।किञ्च स्फुरन्मुकुटमुज्जवलमातपत्रं द्वे चामरे च वसुधां महतीं दवाति ॥७॥कल्पदुमैरभिमतप्रतिपादनेषु कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः ।आलोकय त्रिपुरसुन्दरि मामनाथंत्वय्येव भक्तिभरितं त्वयि दत्तदृष्टिम् ॥८॥हन्तेतरेष्वपि मनांसि निधाय चान्येभक्ति वहन्ति किल पामरदैवतेषु ।त्वामेव देवि मनस वचसा स्मरामित्वामेव नौमि शरणं जगति त्वमेव ॥९॥लक्ष्येषु सत्स्वपि त्तथाक्षिविलोकनाना -मालोकय त्रिषुरसुन्दरि मां कथञ्चित् ।नूनं मयापि सदृशं करुणैकपात्रंजातो जतिष्यति जनो न च जायते च ॥१०॥ह्रीं ह्रींमिति प्रतिदिनं जपतां जनानांकि नाम दुर्लभमिह त्रिपुराधिवासे ।मालाकिरीटमदवारणमाननीयां -स्तान् सवेते महुमती स्वयमेव लक्ष्मीः ॥११॥सम्मत्कराणि सकलेन्द्रियनन्द्रनानिसाम्राज्यदानकुशलानि सरोरुहाक्षि ।त्वद्वन्दनानि दुरितौघहरोद्यतानिमामेव मातरनिशं कलयत्तु नान्यम् ॥१२॥कल्पोपसंहरणकल्पितताण्डवस्यदेवस्य खण्डपरशोः परमेश्वरस्य ।पाशाङ्कुशैक्षवशरासनपुष्पबाणासा साक्षिणी विजयते तव मूर्तिरेका ॥१३॥लग्नं सदा भक्तु मातरिदं तवार्धंतेजाः परं बहुलकुंकुमपङ्कशोणम् ।भास्वत्किरीटममृतांशुकलावतंसमध्ये त्रिकोणमुदितं परमामृतार्दम् ॥१४॥ह्रींकारमेव तव धाम तदेव रूपंत्वन्नाम सुन्दरि सरोजनिवासमूले ।त्वत्तेजसा परिणतं जगदादि मूलंसङ्गं तनोतु सरसौरुहसङ्गमस्य ॥१५॥होंकारत्रयसम्पुटेन महता मन्त्रेण सन्दीपितंस्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् ।तस्य क्षोणिभुजो भवन्ति वशगाः लक्ष्मीश्चिरस्थायिनी वाणीनिर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयःप्रदक्षिणनमस्कार जपस्तोत्रां ते -बिंदौ - ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः श्रीमहाशक्त्यै नमः गंधाक्षतपुष्पाणि कल्पयामि नमः । ६ श्रीमहाराज्ञयै नमः । धूपं कल्पयामि नमः ॥ ६ श्रीमहाशक्त्यै नमः दीपं कल्पयामि नमः ॥ ६ श्रीमहाशक्त्यै नमः नैवेद्यं कल्पयामि नमः ॥ ६ श्रीमहाशक्त्यै नमः तांबूलं कल्पयामि नमः । इत्युपचर्य । ६ मूलं श्रीमहाशक्तिश्रीपादुकां तर्पयामि इत्यष्टवारं संतर्प्य ॥ N/A References : N/A Last Updated : January 11, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP