संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका| सामान्यर्ध्यविधीः ललितार्चन चंद्रिका प्रारंभ रश्मिमालामन्त्राः मूलाधारे ॥ अथ प्रातः स्मरणम् । तत: प्रार्थना अथ मंत्रस्नानविधिः तान्त्रिकी सन्ध्या अथ जपप्रकरणम् ततो विघ्नहरमन्त्रान् जपेत् विघ्नहरमन्त्राः । षोडशाक्षरीमन्त्रजपः भूतशुद्धिः प्रत्यूहोत्सारणम् मातृकान्यासः । मूलविद्यावर्णन्यास सामान्यर्ध्यविधीः अथ विशेषार्ध्यविधिः अन्तर्यागः अथ नैवेद्यम् षडङ्गार्चनम् नित्यादेवीयजनम् गुरुमण्डलार्चनम् प्रथमावरणम् द्वितीयावरणम् तृतीयावरणम् चतुर्थावरणम् पञ्चमावरणम् षष्ठावरणम् सप्तमावरणम् अष्टमावरणम् नवमावरणम् अथ पञ्चकोशाः अथ पञ्चकामदुघा : अथ चतुःसमयमंत्राः मन्त्रपुष्पम् प्रदक्षिणाः अथ मूलदेवता स्तुतिः तत्त्वशोधनम् देवतोद्वासनम् शान्तिस्तवः विशेषार्ध्यविसर्जनम् अथ लधुपुजा न्यासः सामान्यार्ध्यविधिः पञ्चमुद्राप्रदर्शनम् : गुरुपङ्क्तिपूजा प्राणादिपञ्चमुद्राः ॥ ललिता सहस्र नामावलि ॥ ललितार्चन चंद्रिका - सामान्यर्ध्यविधीः 'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत. Tags : lalitacharan chandrikashastratantraतंत्रललितार्चन चंद्रिकाशास्त्र सामान्यर्ध्यविधीः Translation - भाषांतर एवं न्यासादिकं कृत्वा कलशमादाय प्रक्षाळ्य सुवासितेन जलेन आपूर्य४ कलशाधिष्ठातृदेवताभ्यो नमः इति गन्धपुष्पाक्षतैरभ्यर्च्य४ ‘ वं ’ इति धेनुमुद्रया अमृतीकृत्य मूलेन त्रिवारमभिमन्त्र्य, तज्जलेन स्ववामे बिन्दुत्रिकोणषट्कोणवृत्तचतुरश्रात्मकं मण्डलं परिकल्प्य अग्नीशासुरवायुकोणेषु मध्ये दिक्षु च बालाषडङ्गं पुष्पै विन्यस्य यथा ४ ऐं हृदयाय नमः [ आग्नेये ]४ क्लीं शिरसे स्वाहा [ ईशान्याम् ]४ सौः शिखायै वषट् [ नैऋतौ ]४ ऐं कवचाय हुम् [ वायव्ये ]४ क्लीं नेत्रत्रयाय वौषट् [ मध्ये ]४ सौः अस्त्राय फट् [ प्रागादिचतुर्दिक्षु । ]ततः आधारमादाय४ फट् इति प्रोक्ष्य४ अं अग्नीमण्डलाय दशकलात्मने अर्ध्यपात्राधाराय नमः । इति मण्डलोपरि विन्यस्यशंखमादाय४ फट् इति प्रक्षाल्य४ उं सूर्यमण्डलाय द्वादशकलात्मने अर्ध्यपात्राय नमः इति प्रतिष्ठाप्य ततः ४ मं सोममण्डलाय षोडशकलात्मने अर्ध्यामृताय नमः इति कलशगतं जलं दत्वा, श्रीरविर्न्द्रुं च दत्वा, तस्मिन शङ्खे अग्निशासुरवायुकोणेषु मध्ये विदिक्षु च४ कएईलह्रीं हृदयाय नमः हृदयशक्तिश्रीपादुकां पूजयामि ।४ सकहलह्रीं शिरसे स्वाहा शिरःशक्तिश्रीपादुकां पूजयामि ।४ सकलह्रीं शिखायै वषट् शिखाशक्तिश्रीपादुकां पूजयामि ।४ कएईलहीं कवचाय हुं कवचशक्तिश्रीपादुकां पूजयामि ।४ हसकहलह्रीं नेत्रत्रयाय वौषट् नेत्रशक्तिश्रीपादुका पूजयामि ।४ सकलह्रीं अस्त्राय फट् अस्त्रशक्तिश्रीपादुकां पूजयामि इति षङ्ङ्गै संपूज्य४ अस्त्राय फट् इति संरक्ष्य४ कवचाय हु इत्यवगुण्ठ्य धेनुवंऐंयोनिमुद्रे प्रदर्श्य मूलेन सप्तवारमभिमत्त्र्य तत्सलिलपृषतैः पूजोपकरणानि आत्मानंच प्रोक्ष्य शङ्खजल किञ्चित् वर्धन्यां निक्षिपेत् । N/A References : N/A Last Updated : January 11, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP