संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका| अथ चतुःसमयमंत्राः ललितार्चन चंद्रिका प्रारंभ रश्मिमालामन्त्राः मूलाधारे ॥ अथ प्रातः स्मरणम् । तत: प्रार्थना अथ मंत्रस्नानविधिः तान्त्रिकी सन्ध्या अथ जपप्रकरणम् ततो विघ्नहरमन्त्रान् जपेत् विघ्नहरमन्त्राः । षोडशाक्षरीमन्त्रजपः भूतशुद्धिः प्रत्यूहोत्सारणम् मातृकान्यासः । मूलविद्यावर्णन्यास सामान्यर्ध्यविधीः अथ विशेषार्ध्यविधिः अन्तर्यागः अथ नैवेद्यम् षडङ्गार्चनम् नित्यादेवीयजनम् गुरुमण्डलार्चनम् प्रथमावरणम् द्वितीयावरणम् तृतीयावरणम् चतुर्थावरणम् पञ्चमावरणम् षष्ठावरणम् सप्तमावरणम् अष्टमावरणम् नवमावरणम् अथ पञ्चकोशाः अथ पञ्चकामदुघा : अथ चतुःसमयमंत्राः मन्त्रपुष्पम् प्रदक्षिणाः अथ मूलदेवता स्तुतिः तत्त्वशोधनम् देवतोद्वासनम् शान्तिस्तवः विशेषार्ध्यविसर्जनम् अथ लधुपुजा न्यासः सामान्यार्ध्यविधिः पञ्चमुद्राप्रदर्शनम् : गुरुपङ्क्तिपूजा प्राणादिपञ्चमुद्राः ॥ ललिता सहस्र नामावलि ॥ ललितार्चन चंद्रिका - अथ चतुःसमयमंत्राः 'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत. Tags : lalitacharan chandrikashastratantraतंत्रललितार्चन चंद्रिकाशास्त्र अथ चतुःसमयमंत्राः Translation - भाषांतर ४ ऐं क्लीं सौः ओं नमः कामेश्वरि इच्छाकामफलप्रदे सर्वसत्त्ववशंकरि सर्वजगत्क्षोभणकरि हुं हुं हुं द्रां द्रीं क्लीं ब्लूं सः सौः क्लीं ऐं । कामेश्वरीसमयदेवताश्रीपादुकां पूजयामि ॥ ४ ऐं ह्रीं सर्वकार्यार्थसाधिनि वज्रेश्वरि वज्रपदे वज्रपंजरमघ्यगे ह्रीं क्लिन्ने ऐं क्रों नित्यमदद्रवे हूं फ्रें ह्रीं ज्रानित्यायै नमः । वज्रेश्वरीसमयदेवताश्रीपादुकां पूजयामि ॥ ४ आं ऐं भगभुगे भगिनि भगोदरि भगमाले भगावहे भगगुह्ये भगयोनि भगनिपातिनि सर्व भगवशंकरि भगरूपे नित्यक्लिन्ने भगस्वरूपे सर्वाणि भगानि मेह्यानय वरदे रेते सुरेते भगाक्लिन्ने क्लिन्नद्रवे क्लेद्रय द्रावय अमोघे भगविच्चे क्षुभ क्षोभय सर्वसत्त्वान् भगेश्वरी ऐं ब्लूं जें ब्लू भें ब्लूं मों ब्लूं हें क्लिन्ने सर्वाणि भगानि मे वशमानय स्त्रीं हर ब्लें हों आं भगमालिनीसमयदेवताश्रीपादुकां पूजयामि ॥ ४ क्लीं भगवति ब्लूं कामेश्वरि ह्रीं सर्वसत्त्ववशंकरि सः त्रिपुरभैरवी ऐं विच्चे क्लीं महात्रिपुरसुंदर्यै नमः । महात्रिपुरसुंदरीसमय देवताश्रीपादुकां पूजयामि ॥इति कल्पसूत्रानुयायिनां विस्तरपूजेप्सूनां नित्योत्सवे सूचितो विधिः ॥ इतोsपि विस्तरशः आम्नायादिपूजाप्रपञ्चः सौभाग्यरत्नाकरविद्यार्णव निबंधललितार्चनाचंद्रिकादिषु ग्रन्थेषु दृष्टः ॥अथ पुनरपि श्रीदेव्यै धूपदीपौ कल्पयित्वा संक्षोभिण्यादि मुद्राः सबीजाः प्रदर्श्य मूलेन त्रिवारं सन्तर्प्य महानैवेद्यं समर्पयेत् । यथा श्रीदेव्यग्रे चतुरक्षमण्डलं सामान्योदकेन विधाय तत्राधारोपरिस्थापित सौवर्ण रौप्यकांस्यादिस्थालीचषकभरितं भक्ष्यभोज्यचोष्यलेह्यपेयात्मकं सद्रव्यशुद्धयादिरसवद्वयञ्जनमञ्जुलं प्राज्यकपिलाज्यं दधिदुग्धदुग्धं यथासंभवं वा नैवेद्यं विधाय४ मूलेन त्रि. प्रोक्ष्य व इति धेनुमुद्रया अमृतीकृत्य सप्तवार मूलेन अभिमन्त्र्य, आपोशनं कलपयित्वा “ हेमपात्रगतं देवि परमान्न सुसंस्कृतम् । पञ्चधा षङ्रसोपेतं गृहाण परमेश्वरि ” ॥ इति प्रार्थ्य; पूर्वोक्तिनैवेद्योपचारमन्त्रेण निवेद्य, तत्तन्मुद्राविधानपूर्वक पञ्चप्राणाहुतीः कल्पयेत् - यथा -४ ऐं प्राणाय स्वाहा ४ क्लीं अपानाय स्वाहा४ सौः व्यानाय स्वाहा४ सौः उदानाय स्वाहा४ ऐं क्लीं सौः समानाय स्वाहा ततः४ क ए ई ल ह्रीं नमः आत्मतत्त्वव्यापिनी श्रीलळिता तृप्यतु४ ह स कहलह्रीं नमः विद्यातत्त्वव्यापिनी श्रीलळिता तृप्यतु ४ सकलह्रीं नमः शिवतत्त्वव्यापिनी श्रीलळिता तृप्यतु४ मूलं नमः सर्वतत्त्वव्यापिनी श्री लळिता तृप्यतुपुनः निमीलितनयनः क्षणमवस्थाय श्रीदेवी भुंक्तवतीं विभाव्य पूर्ववत् उपचारमन्त्रैः पानीयोत्तरापोशनकरप्रक्षालन - गण्डूषाद्यादि कलपयित्वा भोजनपात्रं नैऋत्यां निरस्य अस्त्रेण स्थलं संशोध्यं, ततः पुनः अचमनीयकर्पूरविटिकादक्षिण कर्पूरनीरांजनानि दत्वा सुवर्णादिभाजनलिखितं कुड्कुमपङ्करेखात्मकम् अष्टदलकमलकर्णिकास्थापितं मणिमयं चषकपूरितं प्रथमं प्रज्वाल्य पुष्पाक्षतैरभ्यर्च्य उपचारमन्त्रपूर्वकंअन्तस्तेजो बहिस्तेजः एकीकृत्यामितप्रभम् ।त्रिधा दीपं परिभ्राम्य कुलदीपं निवेदये ॥इति चतुर्दशधा नवधा त्रिधा वा परिभ्राम्य दक्षभागे स्थापयेत् ।अथाञ्जलौ पुष्पाण्यादाय मन्त्रपुष्पं यथा N/A References : N/A Last Updated : January 11, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP