संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
प्रत्यूहोत्सारणम्

ललितार्चन चंद्रिका - प्रत्यूहोत्सारणम्

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


ततः प्राग्वत् विंशतिधा षोडशधा दशधा सप्तधा त्रिधा वा प्राणानायम्य
४ अपसर्पन्तु ते भूता.
ये भूता भुवि संस्थिताः ।
ये भूता विघ्नकर्तारः
ते नश्यन्तु शिवाज्ञया ॥
इति मन्त्रं सकृदुच्चार्य युगपद्वामपार्ष्णिभूतलाघातत्रय करतलास्फोटत्रयक्रूरदृष्ट्यवलोकनपूर्वं ताळत्रयेण भौमान्तरिक्षदिव्यान् भेदावभासकान् विघ्नानुत्सारयेत् ।
ताळत्रयं नाम दक्षिणतर्जनीमध्यमाभ्यामधोमुखाभ्यां वारकरतले सशब्दमुपर्युपरि त्रिरभिघातः ।
अथ नमः इत्यङ्गुष्ठमन्त्रमुच्चारयन् अङ्कुशेन शिखां बध्वा श्रीदेवीरूपं भावयन् आत्मानं स्वदेहे न्यासजालात्मकं वज्रकवचं विदधीत ।

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP