संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
अथ नैवेद्यम्

ललितार्चन चंद्रिका - अथ नैवेद्यम्

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


देव्याः षुरतः स्वदक्षिणे चतुरश्रमण्डलं निर्माय तत्र आधारोपरि नैवेद्यं निधाय मूलेन प्रोक्ष्य ‘ वं ’ इति धेनुमुद्रया अमृतीकृत्य मूलेन त्रिवारमभिमन्त्र्य आपोशनं दत्वा
४ नैवेद्यं कल्पयामि नमः इति निवेदयेत् - ततः तत्तनमुद्रा - विधानपूर्वक पञ्जप्राणाहुतीः कल्पयेत् - यथा
४ प्राणाय स्वाहा, ४ अपानाय स्वाहा, सौः ४ व्यानाय स्वाहा, सौः ४ उदानाय स्पाहा, ४ ऐं क्लीं सौः समानाय स्वाहा - ततः
लळिताम्बिकायै पानीयम् उत्तरापोशनं हस्तप्रक्षाळनं गण्डूषं आचमनीयं ताम्बूलं च कल्पयेत् ।
ततः द्रां द्री क्लीं ब्लूं सः क्रों ह्स्ख्फ्रें ह्सौः ऐं इति संर्वसंक्षोभिण्यादिनवमुद्राः प्रदर्शयेत् । षोडश्युपासनायां तु ऐं इति त्रिखण्डामपि प्रदर्शयेत् ।
ततो ४ मूलान्ते लळिताश्रीपादुकां पूजयामि नमः इति तत्त्वमुद्रासन्दष्टद्वितीयशकलगृहीतविशेषार्घ्यविन्दुसहाषिंतैः दक्षकरोपात्तज्ञानमुद्राधृतकुसुमाक्षतैः श्रीदेवीं त्रिः सन्तर्पयेत् । अनेनैव प्रकारेण सर्वासामावरणदेवतानां तर्पणं ज्ञेयम् ।

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP