संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
प्रधानदेवताबलि:

प्रधानदेवताबलि:

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


अथवा प्रधानदेवताबलि:
नवग्रहबलि: सूर्यादिनवग्रहमंडलदेवान्‌ सांगान सपरिवारान सायुधान सशक्तिकान एभि: गंधाद्युपचारै: व: अह्म पूजयामि । सूर्यादिनवग्रहमंडलदेवेभ्य: सांगेभ्य: सपरिवारेभ्य: सायुधेभ्य: सशक्तिकेभ्य: इमं सदीपं आसादित बलिं सम. । भो भो सूर्यादि नवग्रहमंडलदेवा: इमं बलिं गृहणीत मम सकुटुंबस्य सपरिवारस्य अभ्युदयं कुरुत । आयु: कर्तार: क्षेमकर्तार: शांतिकर्तार: पुष्टिकर्तार: तुष्टिकर्तार: निर्विघ्नकर्तार: कल्याणकर्तार: वरदा भवत । अनेन पूजनपूर्वक बलिदानेन सूर्यादि नवग्रहमंडल्देवा: प्रीयत्नाम्‌ ।
क्षेत्रपालमहाबलि :--- मंडपाद बहि: बलिं उदकुंभसहितं संस्थाप्य संकल्प:- कर्मण: सांगतासिध्यर्थ क्षेत्रपालपूजनपूर्वकं बलिदानं करिष्ये । बलिदानपात्रे पूगीफले क्षेत्रपालं आवाहय पूजयेत - ॐ नहिस्पस० ॐ भू० क्षेत्रपालाय नम: आ० स्था० पू० ।
प्रार्थना - ॐ नमामि क्षेत्रपाल त्वां भूतप्रेतगणाधिप । पूजां बलिं गृहाणेमं सौम्यो भवतु सर्वदा ॥ मा विघ्नं मास्तु मे पापं मा सन्तु परिपंथिन: । सौम्या भवन्तु तृप्ताश्च भूतप्रेता: सुखावहा: । यं यं यं यक्षरूपं० ॐ नमो क्षेत्रपाल  चित्रतुरंगवाहन सर्वभूतप्रेतपिशाचशाकिनी डाकिनी कूष्मांडगण वेतालादि परिवृत दध्योदनप्रिय सकलशक्तिसहित इमां पूजां गृहाण । अनया पूजया क्षेत्रपाल: प्रीयताम् । क्षेत्रपालाय सांगाय सपरिवाराय सायुधाय सशक्तिकाय सवाहनाय इमं सदीपमाषभक्तबलिं सम० । भो क्षेत्रपाल सर्वतो दिशं रक्ष बलिं भक्ष मम सकुटुंबस्य अभ्युदयं कुरु । आयु: कर्ता० अनेन पूजनपूर्वक बलिदानेन क्षेत्रपाल: प्रीयताम्‌ । पश्चात अनवेक्षमाणेन शूद्रेण बलिं नीत्वा चतुष्पथे स्थापयेत्‌ । यजमान: तस्य पृष्ठत: द्वारपर्यतं गत्वा जलं क्षिपेत - ॐ हिंकाराय स्वाहा हिंकृताय स्वाहा क्रन्दते स्वाहाऽवक्रन्दाय स्वाहा प्रोथते स्वाहा प्रप्रोथाय स्वाहा गन्धाय स्वाहा  घाताय स्वाहा निविष्टाय स्वाहोपविष्टाय स्वाहा संदिताय स्वाहा वल्गते स्वाहासीनाय स्वाहा शयानाय स्वाहा स्वपते स्वाहा जाग्रते स्वाहा कूजते स्वाहाप्रबुद्धाय स्वाहा विजृम्भमाणाय स्वाहा विचृताय स्वाहा स हानाय स्वाहा पस्थिताय स्वाहाऽयनाय स्वाहा प्रायणाय स्वाहा ॥ पाणिपादं प्रक्षाल्य आचामेत्
पूर्णाहुति:
संकल्प:- देवताप्रतिष्ठाकर्मण: सांगतासिद्धयर्थ वसोर्द्धारासमन्वितं पूर्णाहुतिहोमं करिष्ये ।
पूर्णाहुति के लिए सुशोभित श्रीफल, घृतपूरितपात्र, जलकुंभ. तापसंरक्षक वस्त्र, काष्ठादि रखें । अमंत्रक घीकी आहुति न देते रहें । संमार्जन कुश, स्रुक. स्रुव, कुश, आदि रखें । आज्यं अग्नौ अधिश्रित्य स्रुकस्रुवौ प्रतप्य, संमार्ज्य, अभ्युक्ष्य, पुन: प्रतप्त स्वदक्षिणदेशे निदध्यात । आज्यम उद्वास्य पवित्राभ्यां उत्पूय अवेक्ष्य अपद्रव्यं निरस्य पवित्रे प्रणीतासु निधाय स्रुवेण स्रुचि द्वादशवारं चतुर्वारं वा आज्यं गृहीत्वा नारिकेलं निधाय यजमान: तिष्ठेत - अन्य कुंडाचार्य अथवा यजमान भी खडे रहें । वसोर्धारा मे अग्निसूक्त, विष्णुसूक्त, इन्द्रसूक्त का पाठ हो तदर्थ सूक्तसंग्रह में देखें ।

ॐ समुद्रादूर्मिर्मधु माँ २ उदारदुपा शुना सममृतत्वमान‌ट । घृतस्य नाम गुहयं यदस्ति जिव्हा देवानाममृतस्य नाभि: ॥
वयं नाम प्र ब्रवामा घृतस्यास्मिन यज्ञे धारयामा नमोभि । उप ब्रम्हा शृणवच्छस्यमानं चतु: शृङ्गेऽवमीद्नौर एतत् ॥
चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीतिमहो देवो मत्याँ २ आ विवेश ।
त्रिधा हितं पणिभिर्गुहयमानं गवि देवासो घृतमन्वविन्दन । इन्द्र एक सूर्य एकं जजान वेनादेक स्वधया निष्टतक्ष: ॥
एता अर्षन्ति हृद्यात्समुदाच्छतव्रजा रिपुणा नावचक्षे । घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम्‌ ॥
सम्यक स्रवन्ति सरितो न धेना अन्तहर्रदा मनसा पूयमाना: । ऐते अर्षन्त्युर्मयो घृतस्य मृगा इव क्षिपणोरीषमाणा; ॥
सिन्धौरिव प्राध्वने शूघनासो वातप्रमिय: पतयन्ति यहा: । घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभि; पिन्वमान: ॥
अभि प्रवन्त समनेव योषा कल्याण्य: स्मयमानासो अग्निम । घृतस्य धारा: समिधो नमस्तु ता जुषाणो हर्यति जातवेदा: ॥
कन्या इव वहतुमेतवा उ अञ्ज्यञ्जाना अभि चाकशीमि । यत्र सोम: सूयते यत्र यज्ञो घृतस्यधारा अभि तत्पवन्ते ॥
अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मासु भ्द्रा द्रविणानि धत्त । इमं यज्ञं नयत देवतानो घृतस्य धारा महुमत्पवन्ते ॥
धामं ते विश्वं भुवनमधि श्रितमन्त समुद्रे हृद्यन्तरायुषि । अपामनीके समिथे व आभृतस्तमश्याम मधुमन्तं त ऊर्मिम्‍ ॥
मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम । कवि सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवा: ॥
पुनस्त्वाऽऽदित्या रुद्रा वस्व: समिन्धतां पुनर्ब्रहयाणो वसुनीथ यज्ञै । घृतेन त्वं तन्वं वर्धयस्व सत्या: सन्तु यजमानस्य काम: ॥
पूर्णा दर्वि परा पत सुपूर्णा पुनरा पत । वस्नेव विक्रीणावहा इषमूर्ज: शतक्रतो ॥
अथ प्रातराहुते वाहुते वायतरथा कामयेत सोस्या अनिरसिंतायै कुंभ्यै दर्व्योपहन्ति पूर्णादर्वि. तो स्वाहा ॥
इदमग्नये वैश्वानराय वसुरुद्रादित्येभ्य:शतक्रतवे सप्तवते ऽ ग्नये अदभ्यश्च न मम ॥

वसोर्द्धारा : ॐ सप्त ते अग्ने समिध: सप्त जिव्हा: सप्त ऋषय: सप्त धाम प्रियाणि । सप्त होत्रा: सप्तधा त्वायजन्ति सप्त योनीरा पृणस्व घृतेन स्वाहा ॥ शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्माँश्च । शुक्रश्च ऋतपाश्चात्य हा: ॥ ईद्दङ चान्याद्दङ च सद्दङ च प्रतिसद्दङ च । मितश्च सम्मितश्च सभरा: ॥ ऋतश्च सत्यश्च ध्रुवश्च धरुनश्च । धर्ता च विधर्ता च विधारय: ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्च । अन्तिमित्रश्च दूरे अमित्रश्च गण: ॥ ईद्दक्षास एताद्दक्षास ऊ षु ण: सद्दक्षास: प्रतिसद्दक्षास एतन । मितासश्च सम्मितासो नो अद्य सभरसो मरुतो यज्ञे अस्मिन ॥ स्वतवाँश्च प्रघासी च सान्तपनश्च गृहमेधी च । क्रीडी च शाकी चोज्जेषी ॥ इन्द्रं दैवीर्विशो मुरुतो‍ऽनुवर्त्मानोऽभवन्यथेन्द्रं दैवीर्विशो मरुतोऽनुवर्त्मानो भवन्तु ॥ इम स्तनमूर्जस्वना धयापां प्रपीनमग्ने  सरिरस्य मध्ये । उसं जुषस्व मधुमन्तमर्वन्त्समुद्रिय  सदनमा विशस्व ॥ घृंत मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्बस्य धाम । अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम ॥ वसो: पवित्र०
ॐ उत्कर्मणात्यरीरिचं यद्वा न्यूनमिहाकरम्‌ । अग्निष्टत स्विष्टकृदविद्वान्‌ स्विष्ट सुहुतं करोतु स्वाहा । नात्रसंस्रवप्रक्षेप: ॥
भस्मग्रहणम्‌: ॐ  त्रायुषं, श्रद्धां मेधां यश: प्रज्ञां विद्यां बुद्धिं श्रियं बलम्‌ । आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन ॥ आगारादिपूर्णाहुतिपर्यन्तं यद यद द्रव्यं यावत यावत संख्याकं यस्यै यस्यै देवतायै यावत्यो यावत्य आहुतय: सा सा देवता प्रीयताम । इत स्रुचि जलं निक्षिपेत । संम्रवप्राशनम्‌ ॥ पवित्राभ्यां मार्जनम ॥ अग्नौ पवित्रप्रतिपत्ति: ॥ ब्रम्हणे पूर्णपात्रदानम् - प्रणीतोदकेन संकल्प: कृतस्य. कर्मण: सांगतासिद्धयर्थं ब्रम्हान इदं पूर्णपात्रं सदक्षिणाकं तुभ्यं अहं संप्रददे ॥ प्रतिगृहयताम । ब्रम्हा - प्रतिगृहणामि - ॐ द्यौस्त्वा ददातु पृथिवी त्वा प्रतिगृहणातु ॥ अग्ने: पश्चात्‌ प्रणीताविमोक: ॐ आप: शिवा: शिवतमा: शान्ता: सान्ततमास्तास्ते कृण्वन्तु भेषजम्‌ ॥(आरार्तिक्यम्‌) श्रेयोदानं यजमानहस्ते शिवा आप: सन्तु. आदि पश्चात आचार्य जल, फल लेकर कृतस्य. दिनसाध्य. प्रतिष्ठांगभूतं पूजन जप होम प्रतिष्ठादि जन्यं यत्‌ श्रेय: तेन श्रेयसा त्वं श्रेयस्वी भव (जलं फलं यजमानहस्ते दद्यात्‌) यजमान: - भवामि । दानसंकल्प: - कृतस्य. दिनसाध्य. प्रतिष्ठा कर्मसांगतासिद्धये आचार्याय सोपस्करां गां । तन्निष्क्रयीभूतं द्रव्यं । दशमहादानानि । सोपस्कराणि पीठानि । घृतपूरितं कांस्यपात्रं । तिलपूर्णं ताम्रपात्रं । चरुस्थाली । सुवर्णमुद्रां । दक्षिणां । ब्रम्हाणे घृतपूरितां आज्यस्थाली । वृतेभ्यो विप्रेभ्यो दक्षिणां । वस्त्रादिकं  । भूयसी दक्षिणां दास्ये ।

समसानुसार संकल्प करें । पीठदान आदि वरण अनुसार करना हो तो तदर्थ सूचि बना ले ताकि संकल्प समय भ्रान्ति न हो । अथ च प्रतिष्ठा निमित्त अनेक पदार्थ लेनेमें गृध्रवृत्ति श्रेय: साध्य नहीं है इसका स्मरण रखते हुए आचार्य प्रितग्रह में संकोच करें ।
घृतपात्रदानम् : ॐ रूपेण वो रूपमभ्यागां तुथो वो विश्ववेदा वि भजतु । ऋतस्य पथा प्रेत चन्द्रदक्षिणाविस्व: पश्य व्यअन्तर्क्ष यतस्व सदस्यै: ॥ इदं आज्यपात्रं सदक्षिणाकं. अहं संप्रददे । ब्राम्हाणभोजन संकल्प: कर्मण: सांगता सिद्धयर्थं ब्राम्हाणान भोजयिष्ये । तेन श्री कर्मांगदेवता: प्रीयंतां ॥ भूयसीदक्षिणादानम्‌ ॥
आशीर्वाद: ॐ पुनस्त्वा० ॐ श्रीर्वर्चस्व० स्वस्त्यस्तु० पृष्ठ-
देवताविसर्जनम्‌ : ॐ उत्तिष्ठ ब्रम्हाणस्पते देवयन्तस्त्वेमहे । उप प्र यन्तु मरुत: सुदानवैन्द्र प्राशूर्भवा सचा ॥ यान्तुदेवगणा: सर्वे स्वशक्त्या पूजिता मया । इष्टकाम प्रसिद्धयर्थं पुनरागमनाय च ॥
पीठदानम् । अग्निपूजनं कृत्वा - ॐ अग्ने नय० विसर्जनम- ॐ यज्ञ यज्ञं गच्छ य़ज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा । एष ते यज्ञो यज्ञपते सहसूक्तवाक: सर्ववीरस्तं जुषस्व स्वाहा ॥ गच्छ गच्छ सुरक्षेष्ठ स्वस्थाने परमेश्वर । यत्र ब्रम्हादयो देवास्तत्र गच्छ हताशान ॥
पंचवादयै:पुण्याहवाचम् - भो ब्राम्हणा: कृतस्य. दिनसाध्य. प्रतिष्ठा कर्मण: पुण्याहं.० श्री: ॥ संपूर्णतावाचनम - कृतं कर्म कालहीनं भक्तिहीनं श्रद्धाहीनं देवप्रसादा‍त व्राम्हाणवचनात परिपूर्ण अस्तु । ब्राम्हणा:. अस्तु परिपूर्णम । यस्य स्मृत्या० ब्रम्हार्पणमस्तु । आचमनम्‌ । नमोऽस्त्वनंताय० ब्राम्हणभोजनम ।
अवभृथस्नान
श्रौतकर्म है तथापि करना चाहें तो जलाशय समीप जाकर संकल्पादि करें । गणेशस्मरण प्रैषात्मकपुण्याहवाचन, वरुणपूजन, जल में घृताहुति, वरुन को बलिदान, स्नान, कुंड से लायी भस्म का लेप, स्नान, सूर्यपूजन, देवताविसर्जन आदि करें ।

सद्य: चतुर्थीकर्म
अगर प्रतिष्ठाविधि पश्चात चतुर्थीकर्म न हो सके तो नीराजन - क्षमापन पश्चात संक्षेप में करें । मधु, हरिद्रा, सर्षप - चंदन, यवपिष्ट, मन: शिला, प्रियंगुपिष्ट आदि मिश्रण से प्रतिमा को लेप लगाये । स्नान कराये । प्रतिमा के दाहिने हाथ को बांधा हुआ ऊर्णासूत्र ॐ मुञ्चन्तु मा शपत्थ्यादथो वरुण्यादुत । अथो यमस्य पडवीशात सर्वस्माद देव किल्बिषात्‌ ॥ मंत्र बोलकर छोडकर देवके चरणमें रखें ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP