संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
संक्षिप्तयज्ञोपवीतधारणविधि:

संक्षिप्तयज्ञोपवीतधारणविधि:

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


आचम्य । प्राणानायम्य । संकल्प: अत्राद्य. मासे. पक्षे. तिथौ. वासरे एवं ग्रहगणविशेषेण विशिष्टायां शुभपुण्यतिथौ मम अमुकगोत्रोत्पन्नस्य अमुकशर्मण: (वर्मण: गुप्तस्य वा) श्रौतस्मार्तकर्मानुष्ठानसिद्धयर्थं अमुक कर्मांगत्वेन नवीनं यज्ञोपवीतधारणं अहं करिष्ये । यज्ञोपवीतप्रक्षालनम्‌ - ॐ आपो हि ष्ठा० यज्ञोपवीतं करसंपुटे धृत्वा दशवारं गायत्रीं जपेत्‌ ।

तंतुदेवता - आवाहनम्‌ :--- प्रथमतंतौ ॐ काराय नम: ॐ कारं आवाहयामि स्थापयामि । द्वितियतंतौ अग्नये नम: अग्निं० । तृतीयतंतौ नागेभ्यो नम: नागान्‌० । चतुर्थतंतौ सोमाय नम: अग्निं० । तृतीयतंतौ नागेभ्यो नम: नागान्‌० । चतुर्थतंतौ सोमाय नम: सोमं० । पंचमतंतौ पितृभ्यो नम: पितृन्‌० । षष्ठतंतौ प्रजापतये नम: यमं० । नवमतंतौ विश्वेभ्यो देवेभ्यो नम: विश्वान्‌ देवान्‌०  यज्ञोपवीतग्रथिमध्ये ब्रम्हाविष्णुरुद्रेभ्यो नम: ब्रम्हाविष्णुरुद्रान्‌ आवा० (ऋग्वेदं प्रथमदोरके न्यसामि । यजुर्वेदं द्वितीयदोरके न्य० । सामवेदं तृतीयदोरके न्य० । अथर्ववेदं ग्रन्थौ न्यसामि ।) आवाहितदेवता: सुप्रतिष्ठिता: वरदा: भवत । पंचोपचारै: मानसोपचारै: वा पूजनम्‌ । ध्यानम्‌ - प्रजापतेर्यत्‌ सहजं पवित्रं कार्पाससूत्रोद्‌भवब्रम्हासूत्रम्‌ । ब्रम्हात्वसिद्धयै च यश:प्रकाशं जपस्य सिद्धिं कुरु ब्रम्हासूत्रम्‌ ॥ सूर्याय दर्शयेत्‌ - ॐ तच्चक्षु:० यज्ञोपवीतधारणं - यज्ञोपवीतमिति मंत्रस्य परमेष्ठी ऋषि:
लिंगोक्त देवता त्रिष्टुप्‌ छन्द: यज्ञोपवीतधारणे विनियोग: । ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्‌ सहजं पुरस्तात्‌ । आयुष्यमग्य्रं प्रतिमुंच शुभ्रं यज्ञोपवीतं बलमस्तु तेज: ॥ यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीते नोपनहयामि । यज्ञोपवीतं धारयित्वा आचमनं । द्वे त्रीणि वा धारयेत्‌)

जीर्णयज्ञोपवीतत्याग :---  एतावद्‌दिनपर्यंतं ब्रम्हा त्वं धारितं मया । जीर्णत्वात्‌ त्वत्परित्यागो गच्छ सूत्र यथा सुखम्‌ ॥ शुद्धभूमौ निधाय यथाशक्ति गायत्रीजपं कुर्यात्‌ ।

अर्पणम्‌ :--- अनेन गायत्रीजपकर्मणा श्रीसवितादेवता प्रीयताम्‌ ।

संकल्प :---  अनेने कर्मणा मम श्रौतस्मार्तकर्म अनुष्ठान सिद्धिद्वार । श्री भगवान्‌ परमेश्वर: प्रीयतां न मम ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP