संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्| अष्टोत्तरशतभैरवनामस्तोत्रम् प्रतिष्ठारत्नम् अनुक्रम श्रीदेव्यथर्वशीर्षम् मंडपरचना प्रतिष्ठा संबंधित चिंतन अग्निसूक्तम् विष्णुसूक्तम् प्रतिष्ठा पूर्व चिंतन प्रतिष्ठा सामग्री सूचि फलहोम मंत्रों का मुखपाठ देवता गायत्री मंत्र संक्षिप्तग्रहयज्ञप्रयोग स्वस्तिपुण्याहवाचनम् सप्तवसोर्द्धारा मंडपकरणम् संक्षिप्तयज्ञोपवीतधारणविधि: हिरण्यगर्भसूक्तम् पवमानसूक्तम् गणेशमंत्रा प्राणप्रतिष्ठापनम् क्षेत्रपालनामावलि ब्राम्हणवरणम् कुशकंडिका दिग्रक्षणम् प्राणायाम कंकणबंधनम् पुनर्जलमादाय मधुपर्क गोदानम् ब्राह्मणवरणम् गाणपत्यवरणम् ब्राह्मण प्रार्थना प्रधानदेवतास्थापनम् मंडपपूजनम् देवता अथ तोरणपूजनम् वास्तुदेवतास्थापनम् वास्तुमूर्तौ चतु:षष्टि योगिनी पूजनम् योगिनीदेवताआवाहन क्षेत्रपालदेवताआवाहन अष्टोत्तरशतभैरवनामस्तोत्रम् श्वेतपरिधौ रक्तपरिधौ कृष्णपरिधौ ब्रम्हादीनां पायसबलि: भद्रमण्डलदेवतास्थापनम् अथ जलयात्राप्रयोग: अथ कलशस्थापनम् वारुणमंडलदेवतास्थापनम् पंचगव्यकरणम् कुंडस्थदेवतापूजन प्रयोग योन्यावाहनम् भूमिकूर्मानन्तपूजनम् अथ पञ्चभूसंस्कारपूर्वकाग्निप्रतिष्ठापनप्रयोग: अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकण्डिका प्रारंभः वराहुति अग्निस्थापन एवं ग्रहहोम व्याहृतिहोम शान्तिकपौष्टिकहोम: कुटीरहोम जलाधिवास: अग्न्युत्तारणम् देवप्रार्थना कौतुकसूत्र बंधन प्रासादवास्तुशान्ति: वास्तुदेवतास्थापनम् वास्तुमंडलदेवताआवहन विशेषश्लोकौ ध्रुवमंत्र प्रमाणसंग्रह वास्तुनिक्षेप विधि प्रासादप्रवेश पंचकुंड नवकुंड प्रासादविधानम् अधिवासन प्रासादोत्सर्ग प्रासादशिखर कलश प्रतिष्ठा ध्वजोच्छ्रयणम् अग्निसूक्तम् मूर्ति मूर्तिपति लोकपाल होम वेदादि होम शिवपरिवार विष्णुपरिवार सूर्यपरिवार देवीपरिवार रामपरिवार वाहन मंत्र आयुध मंत्र कुछ मंत्र स्नानमंडपशुद्धि मध्यमवेदीस्नपन दशलोकपाल कलश निद्राकलश स्थापन न्यास विधि द्वादशाक्षरमन्त्रेण न्यास तत्पुरुषकलाचतुष्टायन्यास: वामदेव: त्रयोदशाकलान्यास: पिंडिकास्थापन प्रासाददिक्षु होम प्रतिमारक्षणम् विशेषमंत्र होमविधान स्थापितदेवताहोम: मंडप वास्तुमंडलदेवतानां होम: सर्वतोभद्रमण्डलदेवतानां होम: द्वितीयावरणदेवताहोम:- फलहोम: प्रधानदेवतापूजनम् प्रधानदेवताबलि: अधिवासनम् अथ संक्षेपेण चलप्रतिष्ठाप्रयोग:- बौधायनोक्त चलप्रतिष्ठा अग्निस्थापनम अष्टोत्तरशतभैरवनामस्तोत्रम् सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र. Tags : poojavidhiपूजाविधी अष्टोत्तरशतभैरवनामस्तोत्रम् Translation - भाषांतर अष्टोत्तरशतभैरवनामस्तोत्रम् :--- ॐ भैरवो भूतनाथश्च भूतात्मा भूतभावन: । क्षेत्रज्ञ: क्षेत्रपालश्च क्षेत्रद: क्षत्रियो विराट ॥ श्मशानवासी मांसाशी खर्पराशी स्मरान्तकृत् । रक्तप: पानप: सिद्ध: सिद्धिद: सिद्धसेवित: ॥ कंकाल: कालशमन: कलाकाष्ठातनु: कवि: । त्रिनेत्रो बहुनेत्रश्च तथा पिंगललोचन: ॥ शूलपाणि: खडगपाणि: कंकाली धूम्रलोचन: । अभीरु: भैरवीनाथो भूतपो योगिनीपति: ॥ धनदो धनहारी च धनवान् प्रतिभानवान् । नागहारो नागपाशो व्योमकेश: कपालभृत् ॥ काल: कपालमाली च कमनीय: कलानिधि: । त्रिलोचलनो ज्वलन्नेत्र: त्रिशिखी च त्रिलोकप: । त्रिनेत्रतनयो डिंभ: शान्त: शान्तजनप्रिय: । बटुक: बहुवेशश्च खट्वांग: वरधारक: ॥ भूताध्यक्ष: पशुपति: भिक्षुक: परिचारक: । धूर्तो दिगंबर: शूरो हरिण: पाण्डुलोचन: ॥ प्रशान्त: शान्तिद: सिद्ध: शंकर: प्रियबान्धव: । अष्टमूर्ति: निधीशश्च ज्ञानचक्षु: तपोमय: ॥ अष्टाधार: षडाधार: सर्पयुक्त: शिखीसख: । भूधरो भूधराधीश: भूपति: भूधरात्मज: ॥ कंकालधारी मुण्डी च नागयज्ञोपवीतिक: । जृंभणो मोहन: स्तंभी मारण: क्षोभण: तथा ॥ शुद्धो नीलाञ्जनप्रख्यो दैत्यहा मुण्डभूषित: । बलिभुक् बलिभुङनाथो बालो बालपराक्रम: ॥ सर्वापत्तार्णो दुर्गो दुष्टभुतनिषेवित: । कामी कालनिधि: कान्त: कामिनीवेशकृत् वशी ॥ सर्वसिद्धिप्रदो वैद्य: प्रभुर विष्णुर इतीव हि । अष्टोत्तरशतं नाम्नां भैरवस्य महात्मन: ॥ मया ते कथितं देवि रहस्यं सार्वकामिकम् ॥ (रुद्रयामलतंत्रे)संकल्प :--- कर्मांगत्वेन सर्वतोभद्र मंडल देवता स्थापनं पूजनं च करिष्यो ।ब्रम्हा :--- ॐ ब्रम्हाजज्ञानं० एहयेहि सर्वाधिपते विधातो मदीययज्ञे पितृदेवताभि: । सर्वस्य धाताऽस्यमित प्रभाव विश त्वं अन्त: सततं शिवाय ॥ मध्ये कर्णिकायां ॐ भूर्भुव: स्व: ब्रम्हाणे नम: ब्रम्हाणं आ० स्था० भो ब्रम्हान् इहागच्छ इह तिष्ठासोम :--- ॐ वय सोम० एहयेहि यक्षेश्वर सर्वरक्षां विधत्स्व नक्षत्रगणेन सार्धम् । कुबेर यज्ञस्य कुरुष्व सिद्धिं गृहाणपूजां भगवन् नसस्ते ॥ उत्तरे परिधिसमीपे वाप्यन्ते बाणद्वयमध्ये ॐ भूर्भुव: स्व: सोमाय नम: सोमं० ईशान् :--- ॐ तमीशानं० एहयेहि विश्वेश्वर विश्वनाथ कपालखटवांगधर त्रिनेत्र । लोकेश यज्ञेश्वर यज्ञसिद्धयै गृहाण पूजां भगवन् नमस्ते ॥ ईशान्यां खंडेन्दौ ॐ भू० ईशानाय नम: ईशानं० भो ईशान इहागच्छ इहतिइन्द्र :--- ॐ न्नातारमिन्द्र० एहयेहि सर्वामरसिद्धसाध्यै:, अभिष्टुतो वज्रधरामरेश । संसेव्यमानोऽप्सरसां गणेन रक्षाध्वरं नो भगवन्नमस्ते ॥ पूर्वे वाप्यंते बाणद्वयमध्ये ॐ भू. इन्द्राय नम: इन्द्रं० भो इन्द्र इहागच्छअग्नि :--- ॐ त्वन्नो ऽ अग्ने० एहयोहि सर्वामरहव्यवाहमुनिप्रवर्यैरभितोऽभिजुष्ट: । तेजोवता लोकगणेन सार्धं ममाध्वरं रक्षनमोऽस्तु तेऽग्ने ॥ आग्नेय्यां खंडेन्दौ ॐ भू० अग्नये नम: अग्निं०यम :--- ॐ यमाय त्वा० एहयेहि वैवस्वत धर्मराज सर्वामरैरर्चित धर्ममूर्ते । शुभाशुबस्यैव फलप्रदाता शिवाय न: पाहि मखं नमस्ते । दक्षिणे वाप्यन्ते बाणद्वयमध्ये ॐ भू० यमाय नम: यमं०निऋति :--- ॐ असुन्वन्त- एहयेहि रक्षोगणनायक त्वं विशालवैतालपिशाच संघै: । ममाध्वरं पाहि पिशाचनाथ लोकेश्वर त्वां प्रणमामि नित्यम् ॥ नैऋत्यां खंडेन्दौ - ॐ भू० निऋतये नम: निऋतिं०वरुण :--- ॐ तत्वायामि० एहयेहि यज्ञे मम रक्षणाय यादोगणै: सार्धमपामधीश । झषाधिरूढ प्रथितप्रभाव नमोऽस्तु ते नाथ सुपाशपाणे ॥ पश्चिमे वाप्यन्ते बाणद्वयमध्ये ॐ भू० वरुणाय नम: वरुणं०वायु :--- ॐ आनोनियु० एहयेहि वायो मखरक्षणार्थं मृगाधिरूढ: सुरसिद्ध संघै: । प्राणाधिपो हव्यभुज: सहाय गृहाय गृहाण पूजां भगवन्नमस्ते । वायव्यां खंडेन्दौ ॐ भू० वायवे नम: वायुं०अष्टवसु :--- ॐ सुगावो देवा: सदनाऽअकर्म्म यऽआजग्मेद सवनञ्जुषाणा: । भरमाणा व्वहमाना हवी ष्यस्मे धत्त व्वसवो व्वसूनि स्वाहा ॥ एतैत चाष्टौ वसव: सुदिव्या महानिधीनामतिरक्षितार: । तेजस्विनो यज्ञमिमं प्रपातुं गृहणीत पूजां प्रणमाम्यहं व: ॥ वायुसोमयोर्मध्ये भद्रे ॐ भू० अष्टवसुभ्यो नम: अष्टवसून् आ० स्था० भो अष्टवसव: इहागच्छत इह तिष्ठत ।एकादशरुद्र :--- ॐ नमोऽस्तु रुद्रेभ्यो ये पृथिव्यां० एतैत यज्ञस्य सुसिद्धिकामा:, त्रिशूल खट्वांगधरा: सुरेशा: । लोकेश्वरा विश्वविधायकाश्च रुद्रा: कुरुध्वं हि शिवं नमो व: ॥ सोमेशानयो: मध्ये भद्रे ॐ भू० एकादशरुद्रेभ्यो नम: एकादशरुद्रान् आ० स्था० भो एकादशरुद्रा: इहागच्छत इह तिष्ठत द्वादश आदित्य :--- ॐ अग्निर्देवता० एतैत पद्मासन पद्यहस्ता सुरक्तसिन्दूर समानवर्णा: । रक्तांबरा वै हरिदश्वयुक्त आदित्यदेवा: प्रणमामि युष्मान् ॥ईशान इन्द्रमध्ये भद्रे :--- ॐ भू० द्वादशादित्येभ्यो नम: द्वादशादित्यान् आ० स्था० भ द्वादशादित्या: इहागच्छत इह तिष्ठतअश्विनौ :--- ॐ तान्पूर्वया० एतन्तु वैद्यौ सुरसिद्धकानां सूर्याश्वसंज्ञा वडवासुतौ यौ । देवेन्द्रविद्याधर देवमान्यौ यज्ञस्य रक्षां कुरुतं नमो वाम् ॥ इन्द्राग्नीमह्द्ये भद्रे ॐ भू० अश्चिभ्यां नम: अश्विनौ आ० स्था० भो अश्विनौ इहागच्छतम् इह तिष्ठतम् ॥सपैतृकविश्वेदेव :--- ॐ ओमासश्चर्षणी धृतो व्विश्वे देवासऽआगत । दाश्वा सो दाशुष: सुतम् ॥ एतैतदेवादिककार्यपूज्या अभिष्टुता: सिद्धसुसाध्यदेवै: । सपैतृका यज्ञमिमं तु विश्वे देवा: सुरक्षध्वमथो नमो व: ॥ अग्नियम मध्ये भद्रे ॐ भू० सपैतृक विश्वेभ्यो देवेभ्यो नम:०सप्तयक्ष :--- ॐ नतहक्षा सि० एतैत यज्ञे मम सप्तयक्षा लोकेश्वरा यक्षगणादिनाथा: । सिद्धादिक्षि: सेवितपादपद्मा रक्षां कुरुध्वं मम व: प्रणाम: ॥ यप्रनिऋतिमध्ये भद्रे ॐ भू० सप्तयक्षेभ्यो नम:०भूतनाग :--- ॐ यो भूताना० ॐ नमोऽस्तु सर्पेभ्यो० एतैत सर्पा: शिवकंठभूषा लोकोपकाराय भुवं वहन्त: । भूतै: समेता मणिभूषितांगा गृहणीत पूजां परमां नमो व: । निऋतिवरुनमध्ये भद्रे - ॐ भू० भूतनागेभ्यो नम: भूतनागान् आवाहयामि स्थापयामि । गंधर्वाप्सर :--- ॐ ऋताषाड ऋतधामाग्निर्गंधर्वतस्यौषधयोप्सरसो मुदो नाम । सनऽइदं ब्रम्हाक्षत्रं पातु तस्मै स्वाहा वाट ताभ्य: स्वाहा । एतैत सर्वाप्सरस: समेता गंधर्वसंघै: सुरदेवसेव्या: । दिव्यस्वरूपा: सुरपूर्णकामानमामि यज्ञं सफलं कुरुध्वम् ॥ वरुणवायुमध्ये भद्रे ॐ भू० गंधर्वाप्सरोभ्यो नम: गंधर्वाप्सरस: आ० स्था० । भो गंधर्वाप्सरस: इहागच्छत इह तिष्ठत ।स्कन्द :--- ॐ यदक्रन्द:० एहयेहि देवेश्वर शंभुसूनो ! शिखीन्द्रगामिन सुरसिद्धसंघै: । संमाननीय: सुरराजदेवै:, गृहाण पूजां भगवन् नमस्ते । उत्तरे ब्रम्हासोममध्ये वाप्यां ॐ भू० स्कान्दाय नम: स्कन्दं आ० स्था० ।नंदीश्वर :--- ॐ आशु: शिशानो० एहयेहि देवेश शिवस्य सर्व - गणाधिराज प्रथमादिसेव्य । गौरीशयानेश्वर यज्ञसिद्धयै गृहाण पूजांप्रणमामि हि त्वाम् ॥ स्कन्द उत्तरत: ॐ भू० नन्दीश्वराय नम:० ।शूलमहाकाल :--- ॐ उग्रँलोहितेन० आयातमायातमुमाप्रियस्य प्रियौ मुनीन्द्रादिक - सिद्धसेव्यौ । गृहणीतमेतां मम शूलकालौ पूजां नमो वां कुरुतं शिवं न: ॥ नंदी उत्तरत :--- ॐ भू० शूलमहाकालाभ्यां नम: शूलमहाकालौ आ० स्था० भो शूलमहाकालौ इहागच्छतं इह तिष्ठतम् ॥दक्षादि सप्तगण :--- ॐ अम्बेऽअम्बिके० एहयेहि दुर्गे दुरितौघनाशिनी प्रचंडदैत्यौघ विनाशाकारिणी । त्रैलोक्यरक्षार्थ सुरूपधारिणी नमोऽस्तुते शंकर यज्ञकर्मणि ॥ पूर्वे ब्रम्होन्द्रमध्ये वाप्यां ॐ भू० दुर्गायै नम: भो दुर्गे इहागच्छ इहतिष्ठ विष्णु - ॐ इदं विष्णु- :--- एहयेहि नीलाम्बुजमेचक त्वं श्रीवत्सवक्ष: कमलाधिनाथ । सर्वामरै: पूजितपादपद्म गृहाण पूजां भगवन्नमस्ते ॥ दुर्गा उत्तरत: ॐ भू० विष्णवे नम: विष्णुं आ० स्था० भो विष्णो०स्वधासहितपितर :--- ॐ पितृभ्य:० सुखाय पितृन् कुलवृद्धिकर्तृन् रक्तोत्पलाभान् इह रक्तनेत्रान् । सुरक्त माल्यांबर भूषितान् च नमामि पीठे कुलवृद्धिहेतो: ॥ ब्रम्हाग्निमध्ये वल्यां ॐ भू० स्वधासहित पितृभ्यो नम: स्वधासहित पितृन् आ० भो स्वधासहितपितर: इहागच्छत इह तिष्ठत ॥ मृत्युरोग :--- ॐ परं मृत्योऽअनु परेहि पन्थाँवस्ते ऽ अन्य इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मान: प्रजा रीरिषो मोत व्वीरानं ॥ आवाहयेऽहं किल मृत्युरोगौ भयप्रदौ लोकविनाशकारिणौ । यज्ञस्य शान्त्यर्थमति प्रगल्भौ धर्मानुगौ शं कुरुतं नमो वाम् ॥ दक्षिणे ब्रम्हायम मध्ये वाप्यां ॐ भू० मृत्युरोगाभ्यां नम: मृत्युरागौ आ० स्था० भो मृत्युरोगौ इहागच्छतं इह तिष्ठतम् ॥गणेश :--- ॐ गणानान्त्वा० एहयेहि विघ्नादिपते सुरेन्द्र ब्रम्हादिदेवै: अभिवंद्यपाद । गजास्य विद्यालय विश्वमूर्ते गृहाण पूजां भगवन्नमस्ते ॥ ब्रम्हानिऋति मध्ये वल्ल्यां ॐ भू० गणपतये नम: गणपतिं आ० स्था आप :--- ॐ शन्नो देवी० एतैत यादोगणवारिधीनां सुसेव्यमाना स्वगणैश्च सार्धम् । जलाधिदेव्यो मम यज्ञसिद्धयै गुहणीत पूजां प्रणमामि युष्मान् ॥ पश्चिमे ब्रम्हावरुणमध्ये वाप्यां ॐ भू० अदभ्यो नम: अप: आ० स्था० भोअप: इहागच्छत इह तिष्ठत ।मरुत - ॐ पृषदश्वामरुत :--- एतैत यज्ञे मरुत: सुसेव्या मृगाधिरूधा: सह सिद्धसंघै: । प्राणस्वरूपा: सुखदा: कुरुध्वं शं नो गृहीत्वाऽर्चनमत्र नित्यम् ॥ ब्रम्हावायुमध्ये वल्ल्याम् ॐ भू० मरुदभ्यो नम: मरुत: आ० स्थापृथिवी :--- ॐ स्योना पृथिवी० एहयेहि लोकस्थितिहेतुभूते हयादौ वराहेण समुद्धता या । कल्याणकर्त्री पृथिवी त्वमस्मिन् यज्ञे शिवं न: कुरु ते नमोऽस्तु ॥ ब्रम्हाण: पादमूले कर्णिकायां ॐ भू० पृथिव्यै नम: पृथिवीं आ० स्था० गंगादिनदी - ॐ पंचनद्य० :--- एतैत गंगायमुनादयश्च नद्य: पवित्रा दुरितौघहन्त्र्य: । झषाधिरूढा उदकुंभहस्ता गृहणीत पूजां मम यज्ञसिदृध्यै ॥ पृथिवी उत्तरत: ॐ भू० गंगादि नदीभ्यो नम: गंगादिनदी: आ० स्थासप्तसागर :--- ॐ इमम्मे व्वरुण० एतैत यादोगणकै: समेता पर्जन्ययुक्ता: पुनितोदकौघा: । शुचिं समुद्रा: कुरुतात्र यज्ञं पूजां गृहीत्वाऽस्तु नमो नमो व: ॥ गंगादि उत्तरे ॐ भू० सप्तसागरेभ्यो नम: सप्तसागरान् आ० स्था० ।मेरु :--- ॐ दिवो वा विष्णऽउत वा पृथिव्या महो वा विष्णऽउरोरन्तरिक्षात् । उभा हि हस्ता व्वसुना पृणस्वा प्रयच्छ दक्षिणादोत सुव्याद्विष्णवे त्वा ॥ एहयेहि पृथ्वीधरराज मेरो सुवर्णवर्णांकित दिव्यदेह । नगाधिपैस्त्वं कुरु यज्ञसिद्धिं ममास्तु ते भूधर सुप्रणाम: ॥ ब्रम्हाण: मस्तकोपरि कर्णिकायां० ॐ भू० मेरवे नम: मेरुं आ० स्था । भो मेरो इहागच्छ इह तिष्ठा । N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP