संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्| अथ जलयात्राप्रयोग: प्रतिष्ठारत्नम् अनुक्रम श्रीदेव्यथर्वशीर्षम् मंडपरचना प्रतिष्ठा संबंधित चिंतन अग्निसूक्तम् विष्णुसूक्तम् प्रतिष्ठा पूर्व चिंतन प्रतिष्ठा सामग्री सूचि फलहोम मंत्रों का मुखपाठ देवता गायत्री मंत्र संक्षिप्तग्रहयज्ञप्रयोग स्वस्तिपुण्याहवाचनम् सप्तवसोर्द्धारा मंडपकरणम् संक्षिप्तयज्ञोपवीतधारणविधि: हिरण्यगर्भसूक्तम् पवमानसूक्तम् गणेशमंत्रा प्राणप्रतिष्ठापनम् क्षेत्रपालनामावलि ब्राम्हणवरणम् कुशकंडिका दिग्रक्षणम् प्राणायाम कंकणबंधनम् पुनर्जलमादाय मधुपर्क गोदानम् ब्राह्मणवरणम् गाणपत्यवरणम् ब्राह्मण प्रार्थना प्रधानदेवतास्थापनम् मंडपपूजनम् देवता अथ तोरणपूजनम् वास्तुदेवतास्थापनम् वास्तुमूर्तौ चतु:षष्टि योगिनी पूजनम् योगिनीदेवताआवाहन क्षेत्रपालदेवताआवाहन अष्टोत्तरशतभैरवनामस्तोत्रम् श्वेतपरिधौ रक्तपरिधौ कृष्णपरिधौ ब्रम्हादीनां पायसबलि: भद्रमण्डलदेवतास्थापनम् अथ जलयात्राप्रयोग: अथ कलशस्थापनम् वारुणमंडलदेवतास्थापनम् पंचगव्यकरणम् कुंडस्थदेवतापूजन प्रयोग योन्यावाहनम् भूमिकूर्मानन्तपूजनम् अथ पञ्चभूसंस्कारपूर्वकाग्निप्रतिष्ठापनप्रयोग: अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकण्डिका प्रारंभः वराहुति अग्निस्थापन एवं ग्रहहोम व्याहृतिहोम शान्तिकपौष्टिकहोम: कुटीरहोम जलाधिवास: अग्न्युत्तारणम् देवप्रार्थना कौतुकसूत्र बंधन प्रासादवास्तुशान्ति: वास्तुदेवतास्थापनम् वास्तुमंडलदेवताआवहन विशेषश्लोकौ ध्रुवमंत्र प्रमाणसंग्रह वास्तुनिक्षेप विधि प्रासादप्रवेश पंचकुंड नवकुंड प्रासादविधानम् अधिवासन प्रासादोत्सर्ग प्रासादशिखर कलश प्रतिष्ठा ध्वजोच्छ्रयणम् अग्निसूक्तम् मूर्ति मूर्तिपति लोकपाल होम वेदादि होम शिवपरिवार विष्णुपरिवार सूर्यपरिवार देवीपरिवार रामपरिवार वाहन मंत्र आयुध मंत्र कुछ मंत्र स्नानमंडपशुद्धि मध्यमवेदीस्नपन दशलोकपाल कलश निद्राकलश स्थापन न्यास विधि द्वादशाक्षरमन्त्रेण न्यास तत्पुरुषकलाचतुष्टायन्यास: वामदेव: त्रयोदशाकलान्यास: पिंडिकास्थापन प्रासाददिक्षु होम प्रतिमारक्षणम् विशेषमंत्र होमविधान स्थापितदेवताहोम: मंडप वास्तुमंडलदेवतानां होम: सर्वतोभद्रमण्डलदेवतानां होम: द्वितीयावरणदेवताहोम:- फलहोम: प्रधानदेवतापूजनम् प्रधानदेवताबलि: अधिवासनम् अथ संक्षेपेण चलप्रतिष्ठाप्रयोग:- बौधायनोक्त चलप्रतिष्ठा अग्निस्थापनम अथ जलयात्राप्रयोग: सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र. Tags : poojavidhiपूजाविधी अथ जलयात्राप्रयोग: Translation - भाषांतर सपत्नीको यजमानो सर्वब्राम्हाणसुहृदसहित: सन् तीर्थसमीपे गत्वा भूमौ स्थापितसंभार: प्राङमुख उपविश्य ॥ जलमादाय ॥ अद्येत्याद० तिथौ कर्मण: समाप्तिपरिपूर्तिद्वारा श्रीवरुणजलदेवताप्रीत्यर्थं गणेशपूजनपूर्वकं जलजीवस्थलमातृसागरादिक्षेत्रपालवरुणपूजनमहं करिष्ये ॥ पट्टवस्त्रे गणेशाय० गणेशमावाहय गंधाक्षतपुष्पै: पूजयेत् ॥ ॐ गणानान्त्वा० ॥जलादिमातृपूजनम् ॥ तत: जलसमीपे पट्टवस्त्रे उत्तरसंस्थसप्ताक्षतपुञ्जेषु पंक्तित्रयेषु जलजीवस्थलमातृपूजनं कुर्यात् ॥ यथा (मत्सी कूर्मी वराही च दर्दुरी मकरी तथा ॥ जलूकी तंतूकी चैव सप्तैता जलमातृका: ॥१॥) मत्सै० मत्सीमावा० कूर्म्यै० । वराहयै० । दर्दुर्यै० । मकर्यै० । जलूक्यै० । तंतूक्यै० ॥७॥ “मत्स्यादिजलमातृभ्यो नम:” इति यथाशक्त्या पूजयेत् ॥ ॐ इमम्मे वरुण० ।“अथजीवमातृकापूजनम्” तत्रैव तत्पुरतस्तथैवाक्षतसप्तपुंजेषु ॥ (कुमारी धनदा नंदा विमला मंगलाऽचला ॥ पद्मा चेति सुविख्याता: सप्तैता जीवमातृका: ॥१॥ कुमार्यै० कुमारीमावा० । धनदायै० । नंदायै० । विमलायै० । मंगलायै० । अचलायै० । पद्मायै० ॥७॥ इत्यावाहय “कुमार्यादिजीवमातृभ्यो नम:” इति यथाशक्त्या पूजयेत् ॥ ॐ तत्त्वायामि० ।“अथ स्थलमातृकापूजनम्” ततस्तदग्र त: सप्ताक्षतपुंजेषु ॥ (ऊर्मी लक्ष्मीर्महामाया पानदेवी तथैव च ॥ वारुणी निर्मला गोधा सप्तैता: स्थलमातृका: ॥१॥) ऊर्म्यै० ऊर्मैमावा० । लक्ष्मै० । महामायायै० । पानदेव्यै० । वारुण्यै० । निर्मलायै० । गोधायै० ॥७॥इत्यावाहय “ऊर्म्यादिस्थलमातृभो नम:” इति यथाशाक्त्या पूजयेत् ॥ ॐ उदुत्तमं० ।“अथ चतु:षष्ठीयोगिनी पूजनम्” चतुषष्ठीयोगिनीमावाहय ॥ यथाशक्त्या पूजयेत् ॥ ततो वायव्यां दिशिकुंकुमेन पुरुषाकारं क्षेत्रपालमावाहय “क्षेत्रपालाय नम:” इति पूजयेत् ॥ ॐ नहिस्पश० ।“अथ सागरादितीर्थपूजनम्” तत्रादौ प्रक्षालितपाणिपाद: कृताचमन: साक्षतजलहस्तो अक्षतपुञ्जेषु वा जले क्षीरादिसप्तसागरान् मानसादि सरांसि पुष्करादितीर्थानि नदीश्चावाहयेत् ॥ क्षीरादिसप्तसागरान् आवाहय ॥ मानसादिसरोभ्यो० मानसादिसरांसि आवा० । पुष्करादितीर्थेभ्यो० पुष्करादितीर्थानि आवा० ॥ गंगादिनदीभ्यो० गंगादिनदीरावा० ॥ इत्यावाहय ॥“क्षीरादिसप्तसागरेभ्यो मानसादिसरोभ्यो पुष्करादितीर्थेभ्यो गंगादिनदीभ्यो नम:” इति मूलमंत्रेण यथाशक्त्या बलिदानान्तं संपूज्य आचामेत् ॥“अथ जलमध्ये वरुणपूजनम्” ॥ अक्षतान् गृहीत्वा ॥ दिश: प्रतीच्या अधिपं जलानां नाथं लसत्पाशधरं सितांगम् ॥ सुहासवक्त्रं सितचारुहासं महाबलं तं वरुणं प्रवन्दे ॥ वरुणाय० वरुणमावा० ॥ “वरुणाय नम:” इति मंत्रेण गंधादिबलिदानान्तं संपूज्य आचामेत् ॥ अथ जले पंचामृतप्रक्षेप: ॥ कामधेनुसमुद्भूतं० इत्यादिमंत्रैर्जले दुग्धं दधि घृतं मधु शर्करां प्रक्षिपेत् ॥ अथ जलमध्ये घृताहुतीर्जुहुयात् ॥ ॐ अद्भयो० । वार्भ्यो० । उदकाय० । तिष्ठन्तीभ्यो० । स्रवन्तीभ्यो० । स्यन्दमानाम्यो० कूप्याभ्यो० । सूद्याभ्यो० । धार्ष्याभ्यो० । अर्णवाय० । समुद्राय० । सरीराय० । (केचित्प्रतिमंत्रं त्यागमिच्छन्ति ॥) हस्ते जलमादाय ॥ सर्वजलाधिपतये सपरिवाराय सायुधाय वरुणायेदं तेन वरुण: प्रीयताम् ॥ इति जलं प्रक्षिपेत् ॥ ततोऽर्घपात्रे जलं गृहीत्वा तत्र गंधपुष्पाणि प्रक्षिप्य ॥ उदारद्युते निर्मलोदारहारस्फुरत्पाशपाणे दिगीशादिवेद्य: । पते यादसां सार्द्रपीयूषद्दष्टे नमस्ते नमस्तेऽम्बुनाथ प्रचेत: ॥ इति त्रिरर्घ्यं दद्यात् ॥ श्रीफलादीनि गृहीत्वा ॥ रूपं देहि० इति जलमध्ये क्षिपेत् ॥ ततो यथाशक्ति भूमिपूजनं कृत्वा ॐ भूरसि भूमि० । N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP