संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
अग्न्युत्तारणम्‌

अग्न्युत्तारणम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


अग्न्युत्तारणम्‌ :--- अस्या: प्रतिमाया: (प्रत्येक प्रतिमाका नामोच्चारण करें) अंगप्रत्यंग संधिसमुप्तन्न कुद्‌दालकादि टंकादि आतपाग्नि संयोग जनित दोषपरिहारार्थं घनादिदोषपरिहारार्थं अग्न्युत्तारणं अहं करिष्ये । मूर्ति: घृतेन अभ्यज्य जपरि जलधारां कुर्यात्‌ ।
ऋग्वेद - १०।८०। मंत्र १ से ७ अग्निपद रहित एवं अग्निपद सहित पठन । यजुर्वेद - अध्याय १७ मंत्र १ से १५ पश्चत्‌ देवप्रार्थना करें ।

ॐ अश्मन्नूर्जं पर्वते शिश्रियाणामद्‌भ्यऽओषधीभ्यो वनस्पतिभ्योऽ अधि सम्भृतं पय: । तां नऽइषमूर्जं धत्त मरुत: स रराणाऽ अश्मँस्ते क्षुन मयि त ऊर्ग्यं द्विष्मस्तं ते शुगृच्छतु ॥१॥
इमा मेऽ अग्नऽइष्टका धेनव:सन्त्वेका च दश च दश च शतं च शतं च सहस्रं च सहस्रं चायुतंचाभुतं च नियुतं च नियुतं च प्रयुतं चार्बुदं च न्यर्बुदं च समुद्रश्च मध्यं चान्तश्च परार्द्धश्चैता मे ऽ अग्न इष्टका धेनवे: सन्त्वमुत्रामुष्मिँल्लोके ॥२॥
ऋतव स्थऽऋतावृधऽ ऋतुष्ठा स्थऽऋतावृध: । घृतश्च्युतो मधुश्च्युतो विराजो नामदुघा ऽअक्षीयमाणा: ॥३॥
समुद्रस्य त्वावकयाग्ने परि व्ययामसि । पावकोऽअस्मभ्य शिवो भव ॥४॥
हिमस्य त्वा जरायुणाग्ने पर्व्ययामसि । पावको अस्मभ्य  शिवो भव ॥५॥
उप ज्मन्नुप वेतसेऽवतर नदीष्वा । अग्ने पित्तमपाम सि मण्डूकि ताभिरागहि सेमं नो यज्ञं पावकवर्ण शिवं कृधि ॥६॥
अपामिदं न्ययन समुद्रस्य निवेशनम्‌ । अन्याँस्ते ऽ अस्मत्तपन्तु हेतय: पावको ऽ अस्मभ शिवो भव ॥७॥
अग्ने पावक रोचिषा मन्द्रया देव जिव्हया । आ देवान्‌ वक्षि य़क्षि च ॥८॥
स न: पावक दीदिवोऽग्ने देवां २ ऽ इहावह । उप यज्ञ हविश्च न: ॥९॥
पावकया यश्चितयन्त्या कृपा क्षामन्‌ रुरुच ऽ उषसो न भानुना । तूर्वन्न यामन्नेतशस्य नू रणऽआ यो घॄणे न ततृषाणोऽ अजर: ॥१०॥
नमस्ते हरसे शोचिषे नमस्ते ऽ अर्स्वार्चेषे । अन्याँस्ते अस्मत्तपत्तु हेतया: पावको ऽ अस्मभ्य शिवो भव ॥११॥
नृषदे वेडप्सुषदे वेड बर्हिषदे वेड वनसदे वेड स्वर्विदे वे‌ट ॥१२॥
ये देवा देवानां यज्ञिया यज्ञियाना संवत्सरीनमुप भागमासते । अहुतादो हविषो यज्ञेऽअस्मिन्त्स्वयं पिंबन्तु मधुअनो घृतस्य ॥१३॥
ये देवा देवेष्वधि देवत्वमायन्ये ब्रम्हाण: पुर एतारोऽअस्य ॥ येभ्यो नऽ ऋते पवते धाअम किं चन न ते दिवो न पृथिव्याऽ अधि स्नुषु ॥१४॥
प्राणदा ऽअपानदा व्यानदा वर्चोदा वरिवोदा: । अन्याँअस्ते ऽ अस्मत्तपन्तु हेतय: पावको ऽ अस्मभ्य शिवो भव ॥१५॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP