संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
कृष्णपरिधौ

कृष्णपरिधौ

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


कृष्णपरिधौ - मंडलबाहये पूर्वत:

ऐन्द्री :---  दिव्यलोकस्थितां देवीं देवकल्याणकारिणीम्‌ । देवेन्द्रदेहजां शक्तिं ऐन्द्रीं आवाहयाम्यहम्‌ ॥ पूर्वे ॐ भू० ऐन्द्यै नम:० ऐन्द्रीं आ० स्था०

कौमारी :--- कौमारीं अतुलां शक्तिं कुमारस्य प्रभावजाम् । आवाहयाम्यहं दिव्यां देवतार्थप्रसाधिनीम्‌ ॥ आग्नेय्यां - ॐ भू० कौमार्यै नम:०

ब्राम्ही :--- ब्रम्हाणस्तु समुत्पन्नां सर्वलोकसुखावहाम्‌ । ब्राम्हींतु परमां शक्तिं यज्ञे आवाहयाम्यहम्‌ ॥ दक्षिणे - ॐ भू- ब्राम्यै नम:०

वाराही :--- वराहस्थांमहाशक्तिं वसुधोद्धारकारिणीम्‌ । आवाहयाम्यहं देवीं वाराहीं दैत्यदारिणीम्‌ ॥ नैऋत्यां ॐ भू.वाराहयै नम:०

चंडिका :--- चंडिकां चंडरूपां तां चंडमुंडाविनाशिनीम्‌ । चामुंडां शक्तिमत्युग्रां यज्ञे आवाहयाम्यहम्‌ ॥ पश्चिमे ॐ भू. चंडिकायै नम:०

वैष्णवी :--- विष्णु देहस्थितां शक्तिं प्रबलां वैष्णवीं पराम्‌ । आवाहयाम्यहं यज्ञे लोक कल्याणकारिणीम्‌ ॥ वायव्यां - ॐ भू. वैष्णव्यै नम०

माहेश्वरी :--- माहेश्वरीं महाशक्तिं त्रिशूलवरधारिणीम्‌ । आवाहयाम्यहं देवीम यज्ञसिद्धिकरीं  शिवाम्‌ ॥ उत्तरे - ॐ भू. माहेश्वर्यै नम:०

वैनायकी :--- विनायक स्थितां नित्यं सर्वविघ्नविदारिणीम्‌ । शक्तिं वैनायकीं यज्ञे शुभां आवाहयाम्यहम्‌ ॥ ईशान्यां - ॐ भू. वैनायक्यै नम:०

ॐ मनोजूति० प्रतिष्ठा सर्व० ॐ भू. ब्रम्हाद्यावाहित सर्वतो भद्र मंडलदेवता: सुप्रतिष्ठिता वरदा भवत ॥ लाभोपचारै: पूजनम्‌ ॥

ॐ अग्निर्देवता वातो देवता० यं ब्रम्हा वरुणेन्द्ररुद्रमरुत: स्तुन्वन्ति दिव्यै: स्तवै: वेदै: सांगपदक्रमोपनिषदै: गायन्ति यं सामगा: । ध्यानावस्थिततद्‌गतेन पनसा पश्यंति यं योगिनो, यस्यान्तं न विदु: सुरासुरगणा: देवाय तस्मै नम: । त्रिचत्वारिंशद्‌रेखात्मक हरिहरमण्डास्थ द्वादशलिङ्गतोभद्रमण्डलदेवता - आवाहनम्‌ ॥

संकल्प :--- अमुककर्माङ्गत्वेन हरिहरात्मकद्वादशलिङ्गतो भद्रमण्डलदेवता - वाहनस्थापनपूजनानि करिष्ये ॥

ईशान्यादिक्रमेण :---

प्रथमपूर्वलिङ्गे - ॐ नम: शम्भवाय च० ।    ॐ भू० शिवाय नम:० ॥
द्वितीयपूर्वलिङ्गे - ॐ यत्पुरुषं व्यदधु:० । ॐ भू० तत्पुरुषाय नम:० ॥
तृतीयपूर्वलिङ्गे - ॐ नम: शङ्गवे च० । ॐ भू० पशुपतये नम:० ॥
प्रथमदक्षिणलिङ्गे - ॐ उग्रश्च भीमश्च० । ॐ भू० उग्राय नम:० ॥
द्वितीयदक्षिणलिङ्गे - ॐ याते रुद्र शिवा० । ॐ भू० अघोराय नम:० ॥
तृतीयदक्षिणलिङ्गे - ॐ नमस्ते रुद्र मन्यव० । ॐ भू० रुद्राय नम:० ॥
प्रथमपश्चिमलिङ्गे - ॐ उग्रँलोहितेन० । ॐ भू० भवाय नम:० ॥
द्वितीयपश्चिमलिङ्गे - ॐ सद्योजातो व्यमिमीत० । ॐ भू० सद्योजाताय नम:० ॥
तृतीयपश्चिमलिङ्गे - ॐ नम: पर्ण्णाय च० । ॐ भू० सर्वजाताय नम:० ॥
प्रथमउत्तरलिङ्गे - ॐ त्र्यम्बकं यजामहे० । ॐ भू० महालिङ्गाय नम:० ॥
द्वितीयउत्तरलिङ्गे - ॐ व्वाममद्दय० । ॐ भू० वामदेवाय नम:० ॥
तृतीयउत्तरलिङगे - ॐ नमो इस्वाय च० । ॐ भू० भीमाय नम:० ॥

पूर्वेशान्यादिक्रमेण षोडशवापीषु प्रत्येकं देवतस्थापनम्‌ ॥

असिताङ्गभैरवाय० । रुरुभैरवाय० । चण्डभैरवाय० । क्रोधभैरवाय० । उन्मत्तभैरवाय० । कपालिभैरवाय० । भीषणभैरवाय० । संहारभैरवाय० । भवाय० । शर्वाय० । ईशानाय० । पशुपतये० । रुद्राय० । उग्राय० । भीमाय० । महते० । ईशानेन्द्रयोर्मध्येभद्ने - शूलिने० । इन्द्राग्न्योर्मध्ये भद्ने चन्द्रमौलिने० । आग्नियमयोर्मध्ये भद्रे - चन्द्रमसे० । यमनिऋत्योर्मध्ये भद्रे - वृषभध्वजाय० ।  निऋतिवरुणयोर्मध्ये भद्रे - त्रिलोचनाय० । वरुणवाय्वोर्मध्ये भद्रे - शक्तिधराय० । वायुसोमयोर्मध्ये भद्रे - महेश्वराय० । सोमेशानयोर्मध्ये भद्रे - शूलधारिणे० ।

अथेशानीमारभ्येशाअनीपर्यन्तं प्रतिकोणं द्वे द्वे इत्यष्टवल्लीषु क्रमेणाष्टौ

देवता: स्थापयेत्‌ - अनंताय० । तक्षकाय० । कुलीशाय० । कर्कोटकाय० । शङ्खपालाय० । कंबलाय० । अश्वतराय० । पृथिव्यै० । आग्नेयकोणे सप्तशृङ्खला देवता:स्थापयेत्‌ - ॥ भूम्यै० । हैहयाय० । माल्यवते० । पारिजाताय० । दिक्पतये० । महादेवाय० । विष्णवे० । नैऋत्यकोणे सप्त - शृङखलादेवता: स्थापयेत्‌ - ॥ माल्यवते० । महारुद्राय० । कालाग्निरुद्राय० । द्वादशादित्येभ्यो० । महेश्वराय० । मृत्युरोगाभ्याम्‌० । वैनायक्यै० । वायव्यकोणे सप्त शृङ्खला देवता: स्थापयेत्‌ - शाकुंतलेयाय० । भरताय० । नलाय० । रामाय० । सार्वभौमाय० । नैषधाय० । विंध्याचलाय० । ईशानकोणे सप्तशृङखला देवता: स्थापयेत्‌ - ॥ हेमकूटाय० । गंधमादनाय० । कुलाचलाय० । हिमाचलाय० । पृथिव्यै० । अनत्नाय० । कमलासनाय० । चतुर्दिक्षु खण्डेन्दुषु देवता: स्थापयेत्‌ - ऐशाने - अश्विनीकुमाराभ्याम्‌० । आग्नेये - विश्वेभ्यो देवेभ्यो० । नैऋत्ये - पितृभ्यो० । वायव्ये - नागेभ्यो० । तद्‌बहि: सत्त्वरजस्तम: परिधिषु देवतास्थापनं पूर्वादिक्रमेण - सत्त्वपरिधौ - पूर्वे - इन्द्राय० । आग्नेये - अग्नये० । दक्षिणे - यमाय० । नैऋत्याम्‌ - निऋतये० । पश्चिमे - वरुणाय० । वायव्ये - वायवे० । उत्तरे - कुबेराय० । ऐशाने - ईशानाय० । तद्बहि: रज: परिधौ - पूर्वे - वज्राय० । आग्नेये - शक्तये० । दक्षिणे - दण्डाय० । नैऋत्याम्‌ - खडगाय० । पश्चिमे - पाशाय० । वायव्ये - अंकुशाय० ० । उत्तरे - गदायै० । ऐशाने - त्रिशूलाय० । तद्बहि: तम: परिधौ ऋषीन्‌ स्थापयेत्‌ - ॥ पूर्वे - कश्यपाय० । आग्नेये - अत्रये० । दक्षिणे - भरद्वाजाय० । नैऋत्ये - विश्वामित्राय० । पश्चिमे - गौतमाय० । वायव्ये - जमदग्नये० । उत्तरे -वसिष्ठाय० । ऐशाने - ॐ भू र्भूव: स्व: भृगवे नम: भृगुं आवाहयामि स्थापयामि ॥ भो भृगो इहागच्छ इह तिष्ठ ॥ प्रतिष्ठापनम्‌ । ॐ मनोजूति० ॥
ष‍ट्‌पश्चशदुत्तरशतसंख्यकाहरिहरमण्डलदेवता: सुप्रतिष्ठिता: वरदा: भवत ॥ ब्रम्हाद्यावाहित - हरिहरमण्डलदेवताभ्यो नम: इति मंत्रेण षोडशोपचारै: (वा अन्योपचारै:) संपूज्य तेभ्यो पायसबलिं दद्यात्‌ ॥ पूजनान्ते समर्पणम्‌ - अनया पूजया हरिहरमण्डलदेवता: प्रीयन्ताम्‌ ॥ इति त्रिचत्वारिंशद्रेखात्मक हरिहरमण्डलस्थद्वादशलिङ्गतो भद्रमण्डलदेवतास्थापनम्‌ ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP