संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ८०

बृहत्संहिताः - अध्याय ८०

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


द्विपभुजगशुक्तिशंखाभ्रवेणुतिमिसूकरप्रसूतानि । मुक्ताफलानि तेषां बहुसाधु च शुक्तिजं भवति ॥१॥

सिंहलकपारलौकिकसौराष्ट्रकताम्रपर्णिपारशवाः । कौबेरपाण्ड्यवाटकहैमा इत्याकराः त्व ( हि) अष्टौ ॥२॥

बहुसंस्थानाः स्निग्धाः ( स्निग्धा) हंसाभाः सिंहलाकराः स्थूलाः । ईषत्ताम्राः श्वेताः तमोवियुक्ताश्च ताम्राख्याः ॥३॥

कृष्णाः श्वेताः पीताः सशर्कराः पारलौकिका विषमाः । न स्थूला नात्यल्पा नवनीतनिभाश्च सौराष्ट्राः ॥४॥

ज्योतिष्मत्यः ( मन्तः) शुभ्रा गुरवोऽतिमहागुणाश्च पारशवाः । लघु जर्जरं दधिनिभं बृहद् द्विसंस्थानं ( बृहद्विसंस्थानं) अपि हैमम् ॥५॥

विषमम् कृष्णश्वेतं ( कृष्णम् श्वेतं) लघु कौबेरं प्रमाणतेजोवत् । निंबफलत्रिपुटधान्यकचूर्णाः स्युः पाण्ड्यवाटभवाः ॥६॥

अतसीकुसुमश्यामम् वैष्णवमेन्द्रं शशांकसंकाशम् । हरितालनिभं वारुणमसितं यमदैवतं भवति ॥७॥

परिणतदाडिमगुलिकागुञ्जाताम्रं च वायुदैवत्यम् । निर्धूमानलकमलप्रभं च विज्ञेयमाग्नेयम् ॥८॥

माषकचतुष्टयधृतस्यैकस्य शताहता त्रिपंचाशत् । कार्षापणा निगदिता मूल्यं तेजोगुणयुतस्य ॥९॥

माषकदलहान्यातो द्वात्रिंशद्विंशतिः त्रयोदश च । अष्टौ च शतानि शतत्रयं त्रिपंचाशता सहितम् ॥१०॥

पंचत्रिंशं शतमिति चत्वारः कृष्णला नवतिमूल्याः । सार्धाः तिस्रो गुञ्जाः सप्ततिमूल्यं धृतं रूपम् ॥११॥

गुञ्जात्रयस्य मूल्यं पंचाशद् रूपका गुणयुतस्य । रूपकपंचत्रिंशत्त्रयस्य गुञ्जार्धहीनस्य ॥१२॥

पलदशभागो धरणं तद् यदि मुक्ताः त्रयोदश सुरूपाः । त्रिशती सपंचविंशा रूपकसंख्या कृतं मूल्यम् ॥१३॥

षोडशकस्य द्विशती विंशतिरूपस्य सप्ततिः सशता । यत्पंचविंशतिधृतं तस्य शतं त्रिंशता सहितम् ॥१४॥

त्रिंशत्सप्ततिमूल्यं चत्वारिंशच्छतार्धमूल्यं ( मूल्या) च । षष्टिः पंचोना वा धरणम् पंचाष्टकं मूल्यम् ॥१५॥

मुक्ताशीत्या त्रिंशच्छतस्य सा पंचरूपकविहीना । द्वित्रिचतुःपंचशता द्वादशषट्पंचकत्रितयम् ॥१६॥

पिक्कापिच्चार्घार्धा रवकः सिक्थं त्रयोदशाद्यानाम् । संज्णाः परतो निगराश्चूर्णाश्चाशीतिपूर्वाणाम् ॥१७॥

एतद्गुणयुक्तानां धरणधृतानां प्रकीर्तितं ( प्रकीतितं) मूल्यम् । परिकल्प्यमन्तराले हीनगुणाणां क्षयः कार्यः ॥१८॥

कृष्णश्वेतकपीतकताम्राणामीषदपि च विषमाणाम् । त्र्यंशोनम् विषमकपीतयोश्च षड्भागदलहीनम् ॥१९॥

ऐरावतकुलजानां पुष्यश्रवणेन्दुसूर्यदिवसेषु । ये चोत्तरायणभवा ग्रहणेऽर्केन्द्वोश्च भद्रेभाः ॥२०॥

तेषां किल जायन्ते मुक्ताः कुंभेषु सरदकोशेषु । बहवो बृहत्प्रमाणा बहुसंस्थानाः प्रभायुक्ताः ॥२१॥

नैषामर्घः कार्यो न च वेधोऽतीव ते प्रभायुक्ताः । सुतविजयारोग्यकरा महापवित्रा धृता राज्ञाम् ॥२२॥

दंष्ट्रामूले शशिकान्तिसप्रभं बहुगुणं च वाराहम् । तिमिजं मत्स्याक्षिनिभं बृहत् पवित्रं बहुगुणं च ॥२३॥

वर्षौपलवज्जातं वायुस्कन्धाग सप्तमाद् भ्रष्टम् । ह्रियते किल खाद् दिव्यैः तडित्प्रभवं मेघसंभूतम् ॥२४॥

तक्षकवासुकिकुलजाः कामगमा ये च पन्नगाः तेषाम् । स्निग्धा नीलद्युतयो भवन्ति मुक्ताः फणस्यान्ते ॥२५॥

शस्तेऽवनिप्रदेशे रजतमये भाजने स्थिते च यदि । वर्षति देवोऽकस्मात् तज्ञेयं नागसंभूतम् ॥२६॥

अपहरति विषमलक्ष्मीं क्षपयति शत्रून् यशो विकाशयति । भौजंगं नृपतीनां धृतमकृतार्घं विजयदं च ॥२७॥

कर्पूरस्फटिकनिभं चिपिटं विषमं च वेणुजं ज्ञेयम् । शंखोद्भवं शशिनिभं वृत्तं भ्राजिष्णु रुचिरं च ॥२८॥

शंखतिमिवेणुवारणवराहभुजगाभ्रजान्यवैद्यानि ( वैध्यानि) । अमितगुणत्वागैषामर्घः शास्त्रे न निर्दिष्टः ॥२९॥

एतानि सर्वाणि महागुणानि सुतार्थसौभाग्ययशस्कराणि । रुक्षोकहन्तीणि च पार्थिवानां मुक्ताफलानीप्सितकामदानि ॥३०॥

सुरभूषणं लतानां सहस्रमष्टोत्तरं चतुर्हस्तम् । इन्दुच्छन्दो ( इन्द्रच्छन्दो) नाम्ना विजयच्छन्दः तदर्धेन ॥३१॥

शतमष्टयुतं हारो देवच्छन्दो ह्यशीतिः एकयुता । अष्टाष्टकोऽर्धहारो रश्मिकलापश्च नवषट्कः ॥३२॥

द्वात्रिंशता तु गुच्छो विंशत्या कीर्तितोऽर्धगुच्छाख्यः । षोडशभिः माणवको द्वादशभिश्चार्धमाणवकः ॥३३॥

मन्दरसंज्ञोऽष्टाभिः पंचलता हारफलकमित्युक्तम् । सप्ताविंशतिमुक्ता हस्तो नक्षत्रमालेति ॥३४॥

अन्तरमणिसंयुक्ता मणिसोपानं सुवर्णगुलिकैः वा । तरलकमणिमध्यं तद्विज्ञेयं चाटुकारमिति ॥३५॥

एकावली नाम यथेष्टसंख्या हस्तप्रमाणा मणिविप्रयुक्ता । संयोजिता या मणिना तु मध्ये यष्टीति सा भूषणविद्भिरुक्तम् ॥३६॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP