संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ७२

बृहत्संहिताः - अध्याय ७२

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


निचितं तु ( नु) हंसपक्षैः कृकवाकुमयूरसारसानां वा । दौकूल्येन ( दौकूलेन) नवेन तु समन्ततश्छादितं शुक्लम् ॥१॥

मुक्ताफलैरुपचितं प्रलंबमालाविलं स्फटिकमूलम् । षड्ढस्तशुद्धहैमं नवपर्वनगैकदण्डं तु ॥२॥

दण्डार्धविस्तृतं तत् समावृतं रत्नभूषितं ( रत्नविभूषितम्, रत्नभूषितं) उदग्रम् । नृपतेः तदातपत्रं कल्याणपरं विजयदं च ॥३॥

युवराजनृपतिपत्न्योः सेनापतिदण्डनायकानां च । दण्डोऽर्धपंचहस्तः समपंचकृतोऽर्ध ( कृतार्ध) विस्तारः ॥४॥

अन्येषामुष्णघ्नं प्रसादपट्टैः विभूषितशिरस्कम् । व्यालंबिरत्नमालं छत्रं कार्यं तु ( च) मायूरम् ॥५॥

अन्येषां तु नराणां शीतातपवारणं तु चतुरस्रं ( चतुरश्रं) । समवृत्तदण्डयुक्तं छत्रं कार्यं तु विप्राणाम् ॥६॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP