संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ५४

बृहत्संहिताः - अध्याय ५४

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


प्रान्तच्छायाविनिर्मुक्ता न मनोज्ञा जलाशयाः ।

यस्मादतो जलप्रान्तेष्वारामान् विनिवेशयेत् ॥१॥

मृद्वी भूः सर्ववृक्षाणा हिता तस्याम् तिलान् वपेत् । पुष्पिता ताश्च मृद्नीयात् ( गृह्णीयात्) कर्मएतत् प्रथम भुवः ( भुवि) ॥२॥

अरिष्टाशोकपुन्नागशिरीषाः सप्रियगवः । मगल्याः पूर्वमारामे रोपणीया गृहेषु वा ॥३॥

पनसाशोककदलीजबूलकुचदाडिमाः । द्राक्षापालीवताश्चएव बीजपूरातिमुक्तकाः ॥४॥

एते द्रुमाः काण्डरोप्या ( काण्डारोप्या) गोमयेन प्रलेपिताः । मूलोच्छेदेऽथवा स्कन्धे रोपणीयाः पर ततः ( प्रयत्नतः) ॥५॥

अजातशाखान् शिशिरे जातशाखान् हिमागमे । वर्षागमे च सुस्कन्धान् यथादिक्स्थान् प्ररोपयेत् ( यथादिक् प्रतिरोपयेत्) ॥६॥

घृतौशीरतिलक्षौद्रविडगक्षीरगोमयैः । आमूलस्कन्धलिप्ताना सक्रामणविरोपणम् ॥७॥

शुचिः भूत्वा तरोः पूजा कृत्वा स्नानानुलेपनैः । रोपयेद् रोपितश्चैव पत्रैः तैः एव जायते ॥८॥

साय प्रातश्च घर्मऋतौ ( घर्मान्ते) शीतकाले दिनान्तरे । वर्षासु च भुवः शोषे सेक्तव्या रोपिता द्रुमाः ॥९॥

जबूवेतसवानीरकदबौदुबरार्जुनाः । बीजपूरकमृद्वीकालकुचाश्च सदाडिमाः ॥१०॥

वञ्जुलो नक्तमालश्च तिलकः पनसः तथा । तिमिरोऽम्रातकश्चैति ( चैव) षोडशानूपजाः स्मृताः ॥११॥

उत्तम विशतिः हस्ता मध्यम षोडशान्तरम् । स्थानात् स्थानान्तर कार्य वृक्षाणा द्वादशावरम् ॥१२॥

अभ्यासजाताः तरवः सस्पृशन्तः परस्परम् । मिश्रैः मूलैश्च न फल सम्यग् यच्छन्ति पीडिताः ॥१३॥

शीतवातातपै रोगो जायते पाण्डुपत्रता । अवृद्धिश्च प्रवालाना शाखाशोषो रसस्रुतिः ॥१४॥

चिकित्सितमथएतेषा शस्त्रेणादौ विशोधनम् । विडगघृतपकातान् सेचयेत् क्षीरवारिणा ॥१५॥

फलनाशे कुलत्थैश्च माषैः मुद्गैः तिलैः यवैः । शृतशीतपयःसेकः फलपुष्पसमृद्धये ( अभिवृद्धये) ॥१६॥

अविकाजशकृच्चूर्णस्याढके द्वे तिलाढकम् । सक्तुप्रस्थो जलद्रोणो गोमासतुलया सह ॥१७॥

सप्तरात्रौषितैः एतैः सेकः कार्यो वनस्पतेः । वल्मीगुल्मलताना च फलपुष्पाय सर्वदा ॥१८॥

वासराणि दश दुग्धभावित बीजमाज्ययुतहस्तयोजितम् । गोमयेन बहुशो विरूक्षित क्रौडमार्गपिशितैश्च धूपितम् ॥१९॥

मास ( मत्स्य) सूकरवसासमन्वित रोपित च परिकर्मितावनौ । क्षीरसयुतजलावसेचित जायते कुसुमयुक्तमेव तत् ॥२०॥

तिन्तिडीत्यपि करोति वल्लरी व्रीहिमाषतिलचूर्णसक्तुभिः । पूतिमाससहितैश्च सेचिता धूपिता च सतत हरिद्रया ॥२१॥

कपित्थवल्लीकरणाय मूलान्य्- आस्फोतधात्रीधववासिकानाम् । पलाशिनी वेतससूर्यबल्ली ( वल्ली) श्यामातिमुक्तैः सहिताष्टमूली ॥२२॥

क्षारे शृते चाप्यनया सुशीते ताला ( नाला) शत स्थाप्य कपित्थबीजम् । दिने दिने शोषितमर्कपादैः मास विधिः त्वेष ततोऽधिरोप्यम् ॥२३॥

हस्तायत तद्द्विगुण गभीर खात्वावट प्रोक्तजलावपूर्णम् । शुष्क प्रदग्ध मधुसर्पिषा तत् प्रलेपयेद् भस्मसमन्वितन ( समन्वितेन) ॥२४॥

चूर्णीकृतैः माषतिलैः यवैश्च प्रपूरयेद् मृत्तिकयान्तरस्थैः । मत्स्यामिषाभः ( अभः) सहित च हन्याद् यावद् घनत्व समुपागत तत् ॥२५॥

उप्त च बीज चतुरगुलाधो मत्स्याभसा मासजलैश्च सिक्तम् । वल्ली भवत्याशु शुभप्रवाला विस्मापनी मण्डपमावृणोति ॥२६॥

शतशो अकोल ( अग़्कोल्ल) सभूतफलकल्केन भावितम् । एतत् तैलेन वा बीज श्लैष्मातक ( श्लेष्मातक) फेन वा ॥२७॥

वापित करकौन्मिश्रमृदि तत्क्षणजन्मकम् । फलभारान्विता शाखा भवतीति किमद्भुतम् ॥२८॥

श्लेष्मातकस्य बीजानि निष्कुलीकृत्य भावयेत् प्राज्ञः । अकोल ( अग़्कोल्ल) विज्जलाद्भिश्छायाया सप्तकृत्वा ( सप्तकृत्व्) एवम् ॥२९॥

माहिषगोमयघृष्टानि अस्य करीषे च तानि निक्षिप्य । करकाजलमृद्योगे न्युप्तानि अह्ना फलकराणि ॥३०॥

ध्रुवमृदुमूलविशाखा गुरुभ श्रवणः तथाश्विनी हस्तः ( हस्त) । उक्तानि दिव्यदृग्भिः पादपसरोपणे भानि ॥३१॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP