संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ३५

बृहत्संहिताः - अध्याय ३५

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


सूर्यस्य विविधवर्णाः पवनेन विघट्टिताः कराः साभ्रे । वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुः ॥१॥

केचिदनन्तकुलौरगनिःश्वासौद्भूतमाहुः आचार्याः । तद् यायिनां नृपाणामभिमुखमजयावहं भवति ॥२॥

अच्छिन्नमवनिगाढं द्युतिमत् स्निग्धं घनं विविधवर्णम् । द्विरुदितमनुलोमं च प्रशस्तमंभः प्रयच्छति च ॥३॥

विदिगुद्भूतं दिक्स्वामिनाशनं व्यभ्रजं मरककारि । पाटलपीतकनीलैः शस्त्राग्निक्षुत्कृता दोषाः ॥४॥

जलमध्येऽनावृष्टिः भुवि सस्यवधः तरौ शिते व्याधिः । वाल्मीके ( वल्मीके) शस्त्रभयं निशि सचिववधाय धनुः एन्द्रम् ॥५॥

वृष्टिं करोत्यवृष्त्यां वृष्टिं वृष्ट्यां निवारयत्येन्द्र्याम् । पश्चात् सदैव वृष्टिं कुलिशभृतश्चापमाचष्टे ॥६॥

चापं मघोनः कुरुते निशायाम् आखण्डलायां दिशि भूपपीडाम् । याम्यापरोदक्प्रभवं निहन्यात् सेनापतिं नायकमन्त्रिणौ च ॥७॥

निशि सुरचापं सितवर्णाद्यं जनयति पीडां द्विजपूर्वाणाम् । भवति च यस्यां दिशि तद्देश्यं नरपतिमुख्यं नचिराद् धन्यात् ॥८॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP