संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ७६

बृहत्संहिताः - अध्याय ७६

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


स्रग्गन्धधूपांबरभूषणाद्यं न शोभते शुक्लशिरोरुहस्य । यस्मादतो मूर्धजरागसेवां कुर्याद् यथैवाञ्जनभूषणानाम् ॥१॥

लौहे पात्रे तण्डुलान् कोद्रवाणां शुक्ले पक्वांल्लोहचूर्णेन साकम् । पिष्टान् सूक्ष्मं मूर्ध्नि शुक्लाम्लकेशे दत्वा ( दत्त्वा) तिष्ठेद् वेष्टयित्वा अर्द्र ( अर्क) पत्रैः ॥२॥

याते द्वितीये प्रहरे विहाय दद्यात्शिरस्यामलकप्रलेपम् । संछाद्य पत्रैः प्रहरद्वयेन प्रक्षालितं कार्ष्ण्यमुपैति शीर्षम् ॥३॥

पश्चात्शिरः स्नानसुगन्धतैलैः लोहाम्लगन्धं शिरसोऽपनीय । हृदयैश्च गन्धैः विविधैश्च धूपैः अन्तःपुरे राज्यसुखं निषेवेत् ॥४॥

त्वक्कुष्ठरेणुनलिकास्पृक्कारसतगरबालकैः तुल्यैः । केसरपत्रविमिश्रैः नरपतियोग्यं शिरःस्नानम् ॥५॥

मञ्जिष्ठया व्याघ्रनखेन शुक्त्या त्वचा सकुष्ठेन रसेन चूर्णः । तैलेन युक्तोऽर्कमयूखतप्तः करोति तच्चंपकगन्धि तैलम् ॥६॥

तुल्यैः पत्रतुरुष्कबालतगरैः गन्धः स्मरोद्दीपनः सव्यामो बकुलोऽयमेव कटुकाहिंगुप्रधूपान्वितः । कुष्ठेनौत्पलगन्धिकः समलयः पूर्वो भवेगंपको जातीत्वक्सहितोऽतिमुक्तक इति ज्ञेयः सकुस्तुंबुरुः ॥७॥

शतपुष्पाकुन्दुरुकौ पादेनार्धेन नखतुष्कौ च । मलयप्रियंगुभागौ गन्धो धूप्यो गुडनखेन ॥८॥

गुग्गुलुबालक ( वालक) लाक्षामुस्तानखशर्कराः क्रमाद् धूपः । अन्यो मांसीबालक ( वालक) तुष्कनखचन्दनैः पिण्डः ॥९॥

हरीतकीशंखघनद्रवांबुभिः गुडोत्पलैः शैलकमुस्तकान्वितैः । नवान्तपादादिविवर्धितैः क्रमाद् भवन्ति धूपा बहवो मनोहराः ॥१०॥

भागैश्चतुर्भिः सितशैलमुस्ताः श्रीसर्जभागौ नखगुग्गुलू च । कर्पूरबोधो मधुपिण्डितोऽयं कोपच्छदो नाम नरेन्द्रधूपः ॥११॥

त्वगुशीरपत्रभागैः सूक्ष्मैलार्धेन संयुतैश्चूर्णः । पुटवासः प्रवरोऽयं मृगकर्पूरप्रबोधेन ॥१२॥

घनबालकशैलेयककर्पूरौशीरनागपुष्पाणि । व्याघ्रनखस्पृक्कागुरुदमनक ( मदनक) नखतगरधान्यानि ॥१३॥

कर्पूरचोल ( चोर) मलयैः स्वेच्छापरिवर्तितैश्चतुर्भिः अतः । एकद्वित्रिचतुर्भिः भागैः गन्धार्णवो भवति ॥१४॥

अत्युल्बणगन्धत्वादेकांशो नित्यमेव धान्यानाम् । कर्पूरस्य तदूनो नैतौ द्वित्रिआदिभिः देयौ ॥१५॥

श्रीसर्जगुडनखैः ते धूपयितव्याः क्रमान् न पिण्डस्थैः । बोधः कस्तूरिकया देयः कर्पूरसंयुतया ॥१६॥

अत्र सहस्रचतुष्टयमन्यानि च सप्ततिसहस्राणि । लक्षं शतानि सप्त विंशतियुक्तानि गन्धानाम् ॥१७॥

एकैकमेकभागं द्वित्रिचतुर्भागिकैः युतं द्रव्यैः । षड्गन्धकरं तद्वद् द्वित्रिचतुर्भागिकं कुरुते ॥१८॥

द्रव्यचतुष्टययोगाद् गन्धचतुर्विंशतिः यथैकस्य । एवं शेषाणामपि षण्णवतिः सर्वपिण्डोऽत्र ॥१९॥

षोडशके द्रव्यगणे चतुर्विकल्पेन भिद्यमानानाम् । अष्टादश जायन्ते शतानि सहितानि विंशत्या ॥२०॥

षण्णवतिभेदभिन्नश्चतुर्विकल्पो गणो यतः तस्मात् । षण्णनवतिगुणः कार्यः सा संख्या भवति गन्धानाम् ॥२१॥

पूर्वेण पूर्वेण गतेन युक्तं स्थानं विनान्त्यं प्रवदन्ति संख्याम् । इच्छाविकल्पैः क्रमशोऽभिनीय नीते निवृत्तिः पुनः अन्यनीतिः ॥२२॥

द्वित्रीन्द्रियाष्टभागैः अगुरुः पत्रं तुरुष्कशैलेयौ विषयाष्टपक्षदहनाः प्रियंगुमुस्तारसाः केशः ॥२३॥

स्पृक्कात्वक्तगराणां मांस्याश्च कृतैकसप्तषड्भागाः । सप्तऋतुवेदचन्द्रैः मलयनखश्रीककुन्दुरुकाः ॥२४॥

षोडशके कच्छपुटे यथा तथा मिश्रिते चतुर्द्रव्ये ( मिश्रितैश्चतुर्द्रव्यैः) । येऽत्राष्टादश भागाः तेऽस्मिन् गन्धादयो योगाः ॥२५॥

नखतगरतुरुष्कयुता जातीकर्पूरमृगकृतौद्बोधाः । गुडनखधूप्या गन्धाः कर्तव्याः सर्वतोभद्राः ॥२६॥

जातीफलमृगकर्पूरबोधितैः ससहकारमधुसिक्तैः । बहवोऽत्र पारिजाताश्चतुर्भिः इच्छापरिगृहीतैः ॥२७॥

सर्जरसश्रीवासकसमन्विता येऽत्र सर्वधूपाः ( सर्वयोगाः) तैः । श्रीसर्जरसवियुक्तैः स्नानानि सबालक ( सवालक) त्वग्भिः ॥२८॥

रोध्रौशीरनतागुरुमुस्तापत्र ( मुस्ता) प्रियंगुवनपथ्याः । नवकोष्ठात् कच्छपुटाद् द्रव्यत्रितयं समुद्धृत्य ॥२९॥

चन्दनतुरुष्कभागौ शुक्त्यर्धं पादिका तु शतपुष्पा । कटुहिंगुलगुडधूप्याः केसरगन्धाश्चतुरशीतिः ॥३०॥

सप्ताहं गोमूत्रे हरीतकीचूर्णसंयुते क्षिप्त्वा । गन्धोदके च भूयो विनिक्षिपेद् दन्तकाष्ठानि ॥३१॥

एलात्वक्पत्राञ्जनमधुमरिचैः नागपुष्पकुष्ठैश्च । गन्धांभः कर्तव्यं किंचित् कालं स्थितानि अस्मिन् ॥३२॥

जातीफलपत्रैलाकर्पूरैः कृतयमएकशिखिभागैः । अवचूर्नितानि भानोः मरीचिभिः शोषणीयानि ॥३३॥

वर्णप्रसादं वदनस्य कान्तिं वैशद्यमास्यस्य सुगन्धितां च । संसेवितुः श्रोत्रसुखां च वाचं कुर्वन्ति काष्ठानि असकृद्भवानाम् ॥३४॥

कामं प्रदीपयति रूपमभिव्यनक्ति सौभाग्यमावहति वक्त्रसुगन्धितां च । ऊर्जं करोति कफजांश्च निहन्ति रोगां तांबूलमेवमपरांश्च गुणान् करोति ॥३५॥

युक्तेन चूर्णेन करोति रागं रागक्षयं पूगफलातिरिक्तम् । चूर्णाधिकं वक्त्रविगन्धकारि पत्राधिकं साधु करोति गन्धम् ॥३६॥

पत्राधिकं निशि हितंसफलं दिवा च प्रोक्तानि अथाकरणमस्य विडंबनैव कक्कोलपूगलवलीफलपारिजातैः आमोदितं मदमुदा मुदितं करोति ॥३७॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP