संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय २२

बृहत्संहिताः - अध्याय २२

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


ज्यैष्ठसितेऽष्टम्याद्यश्चत्वारो वायुधारणा दिवसाः । मृदुशुभपवनाः शस्ताः स्निग्धघनस्थगितगगनाश्च ॥१॥

तत्रैव स्वात्याद्ये वृष्टे भचतुष्टये क्रमात्मासाः । श्रावणपूर्वा ज्ञेयाः परिस्रुता धारणाः ताः स्युः ॥२॥

यदि ता स्युः एकरूपाः शुभाः ततः सान्तराः तु न शिवाय । तस्करभयदाश्चौक्ताः श्लोकाश्चाप्यत्र वासिष्ठाः ॥३॥ ( प्रोक्ताः)

सविद्युतः सपृषतः सपांशूत्करमारुताः । सार्कचन्द्रपरिच्छन्ना धारणाः शुभधारणाः ॥४॥

यदा तु विद्युतः श्रेष्ठाः शुभाशाः प्रत्युपस्थिताः । तदापि सर्वसस्यानां वृद्धिं ब्रूयाद् विचक्षणः ॥५॥ ( शुभाशा)

सपांशुवर्षाः सापश्च शुभा बालक्रिया अपि । पक्षिणाम् सुस्वरा वाचः क्रीडा पांशुजलादिषु ॥६॥

रविचन्द्रपरीवेषाः स्निग्धा नात्यन्तदूषिताः । वृष्टिः तदापि विज्ञेया सर्वसस्यार्थसाधिका ॥७॥ ( अभिवृद्धये)

मेघाः स्निग्धाः संहताश्च प्रदक्षिणगतिक्रियाः । तदा स्यान् महती वृष्टिः सर्वसस्याभिवृद्धये ॥८॥ ( अर्थसाधिका)

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP