संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ८८

बृहत्संहिताः - अध्याय ८८

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


(१) नृतुरगकरिकुंभपर्याणसक्षीरवृक्षेष्टकासंचय- च्छत्रशय्यासनौलूखलानि ध्वजं चामरं शाद्वलं पुष्पितं वा प्रदेशं - यदा श्वावमूत्र्याग्रतो याति यातुः तदा कार्यसिद्धिः भवेदार्द्रके गोमये - मिष्टभोज्यागमः शुष्कसम्मूत्रणे शुष्कमन्नं गुडो मोदकावाप्तिः एवाथवा । (२) अथ विषतरुकण्ठकीकाष्ठपाषाणशुष्कद्रुमास्थिश्मशानानि - मूत्र्यावहत्यथवा यायिनोऽग्रे सरोऽनिष्टमाख्याति शय्याकुलालादि भाण्डानि - अभुक्तानि अभिन्नानि वा मूत्रयन् कन्यकादोषकृद्भुज्यमानानि चेद् द्ष्टतां - तद्गृहिण्याः तथा स्यादुपानत्फलं गोः तु सम्मूत्रणेऽवर्णजः ( वर्णजः) संकरः । (३) गमनमुखमुपानहं संप्रगृह्यौपतिष्ठेद् यदा स्याद् तदा - सिद्धये मांसपूर्णाननेऽर्थाप्तिः आद्रेण चास्थ्ना शुभं साग्न्यलातेन शुष्केण - चास्थ्ना गृहीतेन मृत्युः प्रशान्तौल्मुकेनाभिघातोऽथ पुंसः शिरोहस्तपादादि - वक्त्रे भुवोऽभ्यागमो ( ह्यागमो) वस्त्रचीरादिभिः व्यापदः के चिदाहुः सवस्त्रे शुभम् । (४) प्रविशति तु गृहं सशुष्कास्थिवक्त्रे प्रधानस्य तस्मिन् - वधः शृंखलाशीर्णवल्लीवरत्रादि वा बन्धनं चौपगृह्यौपतिष्ठेद् यदा - स्यात् तदा बन्धनं लेढि पादौ विधुन्वन् स्वकर्णावुपर्याक्रमंश्चापि विघ्नाय - यातुः विरोधे विरोधः तथा स्वांगकण्डूयने स्यात् स्वपंश्च ऊर्ध्वपादः सदा दोषकृत् ॥१॥

सूर्योदयेऽर्काभिमुखो विरौति ग्रामस्य मध्ये यदि सारमेयः । एको यदा वा बहवः समेताः शंसन्ति देशाधिपमन्यमाशु ॥२॥

सूर्योन्मुखः श्वानलदिक्स्थितश्च चौरानलत्रासकरोऽचिरेण । मध्याह्नकालेऽनलमृत्युशंसी सशोणितः स्यात् कलहोऽपराह्णे ॥३॥

रुवन् दिनेशाभिमुखोऽस्तकाले कृषीबलानां भयमाशु दत्ते ( धत्ते) । प्रदोषकालेऽनिलदिन्मुखश्च ( तु) दत्ते ( धत्ते) भयं मारुततस्करोत्थम् ॥४॥

उदन्मुखश्चापि निशार्धकाले विप्रव्यथां गोहरणं च शास्ति । निशावसाने शिवदिन्मुखश्च कन्याभिदूषानलगर्भपातान् ॥५॥

उच्चैः स्वराः स्युः तृणकूटसंस्थाः प्रासादवेश्मोत्तमसंस्थिता वा । वर्षासु वृष्टिं कथयन्ति तीव्राम् अन्यत्र मृत्युं दहनं रुजश्च ॥६॥

प्रावृट्कालेऽवग्रहेऽंभोऽवगाह्य प्रत्यावर्तै ( प्रत्यावृत्तै) रेचकैश्चाप्यभीक्षणं ( अभीक्ष्णं) । आधुन्वन्तो वा पिबन्तश्च तोयं वृष्टिं कुर्वन्त्यन्तरे द्वादशाहात् ॥७॥

द्वारे शिरो न्यस्य बहिः शरीरं रोरूयते श्वा गृहिणीं विलोक्य । रोगप्रदः स्यादथ मन्दिरान्तर्- बहिर्मुखो वक्ति च ( शंसति) बन्धकीं ताम् ॥८॥

कुड्यमुत्किरति वेश्मनो यदा तत्र खानकभयं भवेत् तदा । गोष्ठमुत्किरति गोग्रहं वदेद् धान्यलब्धिमपि धान्यभूमिषु ॥९॥

एकेनाक्ष्णा साश्रुणा दीनदृष्टिः मन्दाहारो दुःखकृत् तद्गृहस्य । गोभिः साकं ( सार्धं) क्रीडमाणः सुभिक्षं क्षेमारोग्यं चाभिधत्ते मुदं च ॥१०॥

वामं जिघ्रेज्जानु वित्तागामाय स्त्रीभिः साकं विग्रहो दक्षिणं चेत् । ऊरुं वामं चेन्द्रियार्थौपभोगः ( उपभोगाः) सव्यं जिघ्रेदिष्टमित्रैः विरोधः ॥११॥

पादौ जिघ्रेद् यायिनश्चेदयात्रां प्राहार्थाप्तिं वांछितां निश्चलस्य । स्थानस्थस्यौपानहौ चेद् विजिघ्रेत् क्षिप्रं यात्रां सारमेयः करोति ॥१२॥

उभयोः अपि जिघ्रणे हि बाह्वोः विज्ञेयो रिपुचौरसंप्रयोगः । अथ भस्मनि गोपयीत भक्षान् मांसास्थीनि च ( वा च) शीघ्रमग्निकोपः ॥१३॥

ग्रामे भषित्वा च बहिः श्मशाने भषन्ति चेदुत्तमपुंविनाशः । यियासतश्चाभिमुखो विरौति यदा तदा श्वा निरुणद्धि यात्राम् ॥१४॥

उकारवर्णे विरुते ( वर्णेन रुते) ऽर्थसिद्धिः ओकारवर्णेन च वामपार्श्वे । व्याक्षेपमौकाररुतेन विन्द्यान् निषेधकृत्सर्वरुतैश्च पश्चात् ॥१५॥

खंखैति ( सग़्खेति) चौच्चैश्च मुहुर्मुहुः ये रुवन्ति दण्डैः इव ताड्यमानाः । श्वानोऽभिधावन्ति च मण्डलेन ते शून्यतां मृत्युभयं च कुर्युः ॥१६॥

प्रकाश्य दन्तान् यदि लेढि सृक्विणी तदाशनं मृष्टं ( मिष्टं) उशन्ति तद्विदः । यदाननं लेढि पुनः ( च अवलिहेन्) न सृक्विणी प्रवृत्तभोज्येऽपि तदान्नविघ्नकृत् ॥१७॥

ग्रामस्य मध्ये यदि वा पुरस्य भषन्ति संहत्य मुहुर्मुहुः ये । ते क्लेशमाख्यान्ति तदीश्वरस्य श्वारण्यसंस्थो मृगवद्विचिन्त्यः ॥१८॥

वृक्षोपगे क्रोशति तोयपातः स्यादिन्द्रकीले सचिवस्य पीडा । वायोः गृहे सस्यभयं गृहान्तः पीडा पुरस्यैव च गोपुरस्थे ॥१९॥

भयं च शय्यासु तदीश्वराणां याने भषन्तो भयदाश्च पश्चात् । अथापसव्या जनसन्निवेशे भयं भषन्तः कथयन्त्यरीणाम् ॥२०॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP