संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ५५

बृहत्संहिताः - अध्याय ५५

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


कृत्वा प्रभूत सलिलमारामान् विनिवेश्य च । देवतायतन कुर्याद् यशोधर्माभिवृद्धये ॥१॥

इष्टापूर्तेन लभ्यन्ते ये लोकाः तान् बुभूषता । देवानामालयः कार्यो द्वयमपि अत्र दृश्यते ॥२॥

सलिलौद्यानयुक्तेषु कृतेष्वकृतेषु च । स्थानेष्वेतेषु सान्निध्यमुपगच्छन्ति देवताः ॥३॥

सरःसु नलिनीछत्रनिरस्तरविरश्मिषु । हसासाक्षिप्तकह्लारवीथी ( वीची, वीथी) विमलवारिषु ॥४॥

हसकारण्डवक्रौचचक्रवाकविराविषु । पर्यन्तनिचुलच्छायाविश्रान्तजलचारिषु ॥५॥

क्रौचकाचीकलापाश्च कलहसकलस्वराः ( स्वनाः) । नद्यः तोयाशुका यत्र शफरीकृतमेखलाः ॥६॥

फुल्लतीरद्रुमौत्तसाः सगमश्रोणिमण्डलाः । पुलिनाभ्युन्नतौरस्या हसवासाः ( हसहासाः) च निम्नगाः ॥७॥

वनौपान्तनदीशैलनिर्झरौपान्तभूमिषु । रमन्ते देवता नित्य पुरेषूद्यानवत्सु च ॥८॥

भूमयो ब्राह्मणादीना याः प्रोक्ता वास्तुकर्मणि । ता एव तेषा शस्यन्ते देवतायतनेष्वपि ॥९॥

चतुःषष्टिपद कार्य देवतायतन सदा । द्वार च मध्यम तस्मिन् ( तत्र) समदिक्स्थ प्रशस्यते ॥१०॥

यो विस्तारो भवेद् यस्य द्विगुणा तत्समुन्नतिः । उच्छ्रायाद् यः तृतीयाशः तेन तुल्या कटिः स्मृता ( कटिः भवेत्) ॥११॥

विस्तारार्ध भवेद् गर्भो भित्तयोऽन्याः समन्ततः । गर्भपादेन विस्तीर्ण द्वार द्विगुणमुच्छ्रितम् ॥१२॥

उच्छ्रायात् पादविस्तीर्णा शाखा तद्वदुदुबरः । विस्तारपादप्रतिम बाहुल्य शाखयोः स्मृतम् ॥१३॥

त्रिपचसप्तनवभिः शाखाभिः तत् प्रशस्यते । अधः शाखाचतुर्भागे प्रतीहारौ निवेशयेत् ॥१४॥

शेष मगल्यविहगैः श्रीवृक्षैः स्वस्तिकैः ( श्रीवृक्षस्वस्तिकैः) घटैः । मिथुनैः पत्रवल्लीभिः प्रमथैश्चौपशोभयेत् ॥१५॥

द्वारमानाष्टभागोना प्रतिमा स्यात् सपिण्डिका । द्वौ भागौ प्रतिमा तत्र तृतीयाशश्च पिण्डिका ॥१६॥

मेरुमन्दरकैलासविमानच्छन्दनन्दनाः । समुद्गपद्मगरुडनन्दिवर्धनकुञ्जराः ॥१७॥

गुहराजो वृषो हसः सर्वतोभद्रको घटः । सिहो वृत्तश्चतुष्कोणः षोडशाष्टाश्रयः तथा ॥१८॥

इत्येते विशतिः प्रोक्ताः प्रासादाः सज्ञया मया । यथोक्तानुक्रमेणैव लक्षणानि वदाम्यतः ॥१९॥

तत्र षडश्रिः मेरुः द्वादशभौमो विचित्रकुहरश्च । द्वारैः युतश्चतुर्भिः द्वात्रिशद्धस्तविस्तीर्णः ॥२०॥

त्रिशद्धस्तायामो दशभौमो मन्दरः शिखरयुक्तः । कैलासोऽपि शिखरवान् अष्टाविशोऽष्टभौमश्च ॥२१॥

जालगवाक्षकयुक्तो विमानसज्ञः त्रिसप्तकायामः । नन्दन इति षड्भौमो द्वात्रिशः षोडशाण्डयुक्तः ॥२२॥

वृत्तः समुद्गनामा पद्मः पद्माकृतिः शया अष्टौ ( शयानाष्टौ) । शृगेणैकेन भवेदेकैव च भूमिका तस्य ॥२३॥

गरुडाकृतिश्च गरुडो नन्दीति च षट्चतुष्कविस्तीर्णः । कार्यः तु ( च) सप्तभौमो विभूषितोऽण्डैः तु ( च) विशत्या ॥२४॥

कुञ्जर इति गजपृष्ठः षोडशहस्तः समन्ततो मूलात् । गुहराजः षोडशकः त्रिचन्द्रशाला भवेद् वलभी ॥२५॥

वृष एकभूमिशृगो द्वादशहस्तः समन्ततो वृत्तः । हसो हसाकारो घटोऽष्टहस्तः कलशरूपः ॥२६॥

द्वारैः युतश्चतुर्भिः बहुशिखरो भवति सर्वतोभद्रः । बहुरुचिरचन्द्रशालः षड्विशः पचभौमश्च ॥२७॥

सिहः सिहाक्रान्तो द्वादशकोणोऽष्टहस्तविस्तीर्णः । चत्वारोऽञ्जनरूपाः पचाण्डयुतः तु चतुरस्रः ( चतुरश्रः) ॥२८॥

भूमिकागुलमानेन मयस्याष्टोत्तर शतम् । सार्ध हस्तत्रय चैव कथित विश्वकर्मणा ॥२९॥

प्राहुः स्थपतयश्चात्र मतमेक विपश्चितः । कपोतपालिसयुक्ता न्यूना गच्छन्ति तुल्यताम् ॥३०॥

प्रासादलक्षणमिदम् कथित समासाद् गर्गेण यद् विरचित तदिहास्ति सर्वम् । मनुआदिभिः विरचितानि पृथूनि यानि तत्सस्पृशन् ( तत्सस्मृति) प्रति मयात्र कृतोऽधिकारः ॥३१॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP