संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ५६

बृहत्संहिताः - अध्याय ५६

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


आम तिन्दुकमाम कपित्थक पुष्पमपि च शाल्मल्याः । बीजानि शल्लकीना धन्वनवल्को वचा चैति ॥१॥

एतैः सलिलद्रोणः क्वाथयितव्योऽष्टभागशेषश्च । अवतार्योऽस्य च कल्को द्रव्यैः एतैः समनुयोज्यः ॥२॥

श्रीवासकरसगुग्गुलुभल्लातककुन्दुरूकसर्जरसैः । अतसीबिल्वैश्च युतः कल्कोऽय वज्रलेपाख्यः ॥३॥

प्रासादहर्म्यवलभीलिगप्रतिमासु कुड्यकूपेषु । सन्तप्तो दातव्यो वर्षसहस्रायुतस्थायी ॥४॥

लाक्षाकुन्दुरुगुग्गुलुगृहधूमकपित्थबिल्वमध्यानि । नागफलनिब ( बलाफल) तिन्दुकमदनफलमधूकमञ्जिष्ठाः ॥५॥

सर्जरसरसामलकानि चैति कल्कः कृतो द्वितीयोऽयम् । वज्राख्यः प्रथमगुणैः अयमपि तेष्वेव कार्येषु ॥६॥

गोमहिषाजविषाणैः खररोम्णा महिषचर्मगव्यैश्च । निबकपित्थरसैः सह वज्रतलो ( वज्रतरो) नाम कल्कोऽन्यः ॥७॥

अष्टौ सीसकभागाः कासस्य द्वौ तु रीतिकाभागः । मयकथितो योगोऽय विज्ञेयो वज्रसघातः ॥८॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP