संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय २०

बृहत्संहिताः - अध्याय २०

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


यस्यां दिशि दृश्यन्ते विशन्ति ताराग्रहा रविं सर्वे ॥॥ भवति भयं दिशि तस्यामायुधकोपक्षुधातंकैः ॥१॥

चक्रधनुःशृंगाटकदण्डपुरप्रासवज्रसंस्थानाः ॥ क्षुद् वृष्टिकरा लोके समराय च मानवेन्द्राणाम् ॥२॥

यस्मिन् खांशे दृश्या ग्रहमाला दिनकरे दिनान्तगते ॥ तत्रऽन्यो भवति नृपः परचक्रौपद्रवश्च महान् ॥३॥

तस्मिन्न् ऋक्षे कुर्युः समागमं तज्जनान् ग्रहा हन्युः ॥ अविभेदिनः परस्परममलमयूखाः शिवाः तेषाम् ॥४॥

ग्रहसंवर्तसमागमसम्मोहसमाजसन्निपाताख्याः ॥ कोशश्चेत्येतेषामभिधास्ये लक्षणं सफलं ॥५॥

एकर्क्षे चत्वारः सह पौरैः यायिनोऽथवा पंच ॥ संवर्तो नाम भवेत्शिखिराहुयुतः स सम्मोहः ॥६॥

पौरः पौरसमेतो यायी सह यायिना समाजाख्यः ॥ यमजीवसंगमेऽन्यो यद्यागच्छेत् तदा कोशः ॥७॥

उदितः पश्चादेकः प्राक् चान्यो यदि स सन्निपाताख्यः ॥ अविकृततनवः स्निग्धा विपुलाश्च समागमे धन्याः ॥८॥

समौ तु संवर्तसमागमाख्यौ सम्मोहकोशौ भयदौ प्रजानाम् ॥॥ समाजसंज्ञो सुसमा प्रदिष्टा ( समाज्ञः सुसमः प्रदिष्टो) वैरप्रकोपः खलु सन्निपाते ॥९॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP