विष्णुसंहिता - प्रथमः पटलः
विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.
श्रीशैलशिखरे सिद्धमासीनं तन्त्रपारगम् ।
प्रणम्यात्युज्ज्वलाकारं पृष्टवानौपमन्यवः ॥१॥
भगवन्! दुर्निरीक्ष्योऽर्कं जित्वेवासि स्थितस्त्विषा ।
नेदृशं जात्वहं रूपं दृष्टवानस्मि कस्यचित् ॥२॥
किं देवानां भवानेको मुनीनामथवा नृणाम् ।
त्वामहं प्रष्टुमिच्छामि तव विस्मापितस्त्विषा ॥३॥
तेजसोऽत्युज्ज्वलस्यास्य श्लाघनीयः समुद्भवः ।
कुतोऽत्रागाः किमर्थं वा कतमे जन्म वा कुले ॥४॥
कृतकृत्योऽस्पृहो वा त्वमतुल्यमहिमा ध्रुवम् ।
त्वद्गोत्रनामकर्मादि याथातथ्येन सर्वशः ॥५॥
महत् कौतूहलं श्रोतुमविज्ञेयं नचेन्मया ।
इति पृष्टोऽब्रवीत् सिद्धो हरिं ध्यात्वा कृताञ्जलिः ॥६॥
हर्षगद्गदया वाचा सरोमाञ्चाश्रुविक्रियः ।
श्रूयतामखिलं वक्ष्ये मायैवैषा हि वैष्णवी ॥७॥
बुद्ध्याद्यक्षार्थनानात्वैर्या मोहयति देहिनः ।
सुमतिर्नाम बैदोऽहमृषेरिध्मवतः सुतः ॥८॥
साङ्गेषु त्रिषु वेदेषु तन्त्रेषु च कृतश्रमः ।
बाल्येऽहं ब्रह्मचर्येण शैलेऽस्मिन् विमलोदके ॥९॥
रैभ्यस्य जपतोऽभ्याशे चिरं शुश्रूषकोऽवसम् ।
चिरदृष्टं दिदृक्षुस्तमिमं पूर्वोपकारिणम् ॥१०॥
इहागतोऽस्मि भद्रं ते विष्णुलोकाद् विहायसा ।
को न मन्त्रस्त्वया लब्धः पुरेह जपतो गुरोः ॥११॥
किमन्यद्वा यदभ्यासात् परिणामोऽयमीदृशः ।
तस्मिन्ननुपदिश्यैव मन्त्रसिद्ध्या तिरोहिते ॥१२॥
रुदन् का गतिरित्युच्चैरश्रौषं खेऽस्फुटां गिरम् ।
गतिस्तारनमोनामेत्यनया दुर्गमार्थया ॥१३॥
शिवमन्त्रं स्मृतं जप्त्वा तत्सिद्ध्याऽद्राक्षमीश्वरम् ।
तेनोक्तो ब्रह्ममन्त्रं त्वं जपेत्येनं ततोऽजपम् ॥१४॥
ततश्चाविरभूद् ब्रह्मा वरदो लोकभावनः ।
तेनाप्युक्तोऽस्मी नम्रोऽहं विष्णुमन्त्रस्तु जप्यताम् ॥१५॥
ततो जटाक्षमालादितपोलिङ्गधरावुभौ ।
मन्वानस्तावपर्याप्तौ पर्याप्तं विष्णुमेव च ॥१६॥
षडक्षरं जपन् मन्त्रमहर्निशमनाकुलम् ।
विश्वरूपमरूपं तं दृष्टवानस्मि रूपिणम् ॥१७॥
शङ्खचक्रगदापद्मशार्ङ्गासिशरखेटकैः ।
श्रीवत्सकौस्तुभापीतकौशेयैर्वनमालया ॥१८॥
किरीटहारकेयूरकुण्डलादिविभूषणैः ।
अलङ्कृतमुदाराङ्गमप्रमेयं सुरोत्तमम् ॥१९॥
दिव्यरूपं खगारूढं दिव्यगन्घानुलेपनम् ।
सहस्रदित्यसंकाशं दुर्निरीक्षं सुरासुरैः ॥२०॥
ऋग्यजुस्सामजैर्मन्त्रैः स्तोत्रैश्च विविधैरपि ।
प्रसाद्यैनं ततो भक्त्या व्यज्ञापयमहं पुनः ॥२१॥
भगवन्! देवदेवेश! वासुदेव! जगत्पते! ।
तज्ज्ञानं मेऽनुगृह्णीष्व येन स्यात् कृतकृत्यता ॥२२॥
इत्युक्तो भगवान् प्रीतः प्राह गम्भीरया गिरा ।
दिष्ट्या ते वत्स! धीः शुद्धा सुमत्याख्या तवामृषा ॥२३॥
परितुष्टोऽस्मि भद्रं ते तस्माद् वक्ष्यामि ते हितम् ।
शृणु त्वं दीक्षितो भूत्वा पूर्वमीश्वरसंहिताम् ॥२४॥
ईश्वराद् ब्रह्मणः पश्चात् तथैव ब्रह्मसंहिताम् ।
मद् विष्णुसंहितां श्रुत्वा ततो ज्ञानमवाप्स्यसि ॥२५॥
त्रयो मन्त्रास्त्वया जप्ताः शिवस्य ब्रह्मणो मम ।
तस्मादनुग्रहेणापि त्रिभ्यो भाव्यं तव क्रमात् ॥२६॥
इत्युक्त्वाऽन्तर्हिते देवे स्मृतः प्रादुरभूच्छिवः ।
स नतं प्राह मां प्रीतो विष्णूक्तं क्रियतामिति ॥२७॥
ततो दीक्षाविधिं कृत्वा तस्मादीश्वरसंहिताम् ।
अवाप्य द्वादशाध्यायां निर्बीजार्चाविधायिनीम् ॥२८॥
ततः स्मृतागताद् देवाद् ब्रह्मणो ब्रह्मसंहिताम् ।
श्रुत्वा द्वात्रिंशदध्यायां बीजाबीजार्चनाश्रयाम् ॥२९॥
ततः स्मृतागतं देवमष्टबाहुमधोक्षजम् ।
पूर्ववत् प्रणिपत्याहं व्यज्ञापयमिदं पुनः ॥३०॥
देवदे! नमस्तेऽस्तु वासुदेव! सुरोत्तम ।
ईश्वराद् ब्रह्मणश्चाहं श्रुतवानस्मि तत्कृते ॥३१॥
संहिते सर्वलोकेश! त्वन्नियोगाद् यथाविधि ।
अतस्त्वमनुगृह्णीष्व यथावद् विष्णुसंहिताम् ॥३२॥
इति विज्ञापितो भक्त्या भगवान् विष्णुरव्ययः ।
आचष्टाखिलसिद्ध्यर्थां विस्तीर्णां विष्णुसंहिताम् ॥३३॥
अष्टोत्तरशताध्यायामष्टैश्वर्यादिसिद्धिदाम् ।
ज्ञानचर्याक्रियायोगशुभपादचतुष्टयाम् ॥३४॥
बीजाबीजसबीजार्चाविधानादिसमन्विताम् ।
ततो नष्टः क्षणान्मोहः कामेषूपरता स्पृहा ॥३५॥
छिन्ना मे संशयाः सर्वे प्रसन्ना चाभवन्मतिः ।
प्रकाशं चाभवत् साक्षात् तद् विष्णोः परमं पदम् ॥३६॥
दिव्यतूर्यरवो जज्ञे पुष्पवृष्टिश्च शोभना ।
समन्तात् सुखसंस्पर्शः सुगन्धिश्च समीरणः ॥३७॥
ततश्चान्तर्हिते तस्मिन् भगवत्यखिलेश्वरे ।
जपार्चादिपरो भूत्वा कञ्चित् कालमिहावसम् ॥३८॥
जपतो मे कदाचित्तु पुष्पवृष्ट्यादि पूर्ववत् ।
सुनिमित्तान्वितं जज्ञे सर्वाश्चुक्षुभिरे दिशः ॥३९॥
ततो द्रुतमुपागम्य तार्क्ष्यो मां हरिशासनात् ।
आदाय दिव्यया गत्या विष्णुलोकमुपानयत् ॥४०॥
तत्र साक्षान्महाविष्णुं ब्रह्मादिभिरभिष्टुतम् ।
दिव्यरूपं पुनर्दृष्ट्वा प्रणम्यातिष्ठमग्रतः ॥४१॥
स प्रीतो मत्समीपे त्वं वसेति वरदोऽब्रवीत् ।
सुसुखं तत्समीपेऽहमुषित्वा बहुवत्सरम् ॥४२॥
प्राप्याष्टगुणमैश्वर्यं तत्प्रसादादनत्ययम् ।
द्युतिं चेमामिह प्राप्तश्चरँल्लोकान् यदृच्छया ॥४३॥
त्वं तु भक्तो विनीतश्च श्रोतव्यं चैव तेऽखिलम् ।
अशक्याऽल्पेन कालेन सा श्रोतुं विष्णुसंहिता ॥४४॥
वक्ष्याम्युद्धृत्य सारं ते यथा न स्यादिहाश्रुतम् ।
मया पृष्टो यथा भूयो भगवान् सङ्ग्रहेच्छया ॥४५॥
सारभूतां ममावोचत् संक्षिप्तां विष्णुसंहिताम् ।
तन्त्रोद्देशोऽथ तद्व्याख्या वैभवं क्षेत्रनिर्णयः ॥४६॥
मन्त्रोद्धारोऽर्चना मुद्रा संस्कारोऽग्नेश्च मण्डलम् ।
दीक्षाभिषेचनं भूमिः प्रासादो बिम्बलक्षणम् ॥४७॥
प्रतिष्ठापञ्चकं चैव बिम्बशुद्धिक्रमस्तथा ।
अधिवासः प्रतिष्ठा च प्रतिष्ठानन्तरक्रिया ॥४८॥
उत्सवश्च तथा यात्रा बलिर्विश्वार्चनं तथा ।
जीर्णोद्धारो महोत्पातशमनं स्नपनं तथा ॥४९॥
प्रोक्षणं कर्मशेषश्च समयाचारसङ्ग्रहः ।
योगो भागवतश्चैवमध्यायास्त्रिंशदेव तु ॥५०॥
याऽष्टोत्तरशताध्याया महती विष्णुसंहिता ।
तत्रोक्तानां तु सर्वेषामर्थानामिह सङ्ग्रहः ॥५१॥
सेयं गुह्यतमा पुण्या स्पष्टार्था विष्णुसंहिता ।
भुक्तिमुक्तिप्रदा ज्ञेया विष्णुना स्वयमीरिता ॥५२॥
॥इति विष्णुसंहितायां प्रथमः पटलः॥
N/A
References : N/A
Last Updated : December 29, 2020
TOP