विष्णुसंहिता - एकादशः पटलः

विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.


अथ वक्ष्यामि संक्षेपाद् दीक्षितस्याभिषेचनम् ।
पुत्रको देशिको वाऽपि येनाचार्यत्वमृच्छति ॥१॥
प्रथमं समये दीक्षा तन्त्रज्ञाने ततोऽर्चने ।
तिस्रो ह्येताः प्रयोक्तव्या दीक्षा धर्मविवृद्धये ॥२॥
आलिख्य मण्डलं पूर्वं परिवारसमायुतम् ।
दर्शयेच्छिष्यमाचार्यो यमसौ समयी स्मृतः ॥३॥
मण्डले देवमाराध्य पुष्पाञ्जलिपुरस्सरम् ।
दर्शयेद् विधिना यं तु स भवेत् तन्त्रदीक्षितः ॥४॥
अग्नौ हुत्वाऽखिलान् मन्त्रान् पूजयित्वा च तं प्रभुम् ।
दर्शयेद् विधिना यं तु स ज्ञेयो देशिकोऽर्चकः ॥५॥
पुत्रकोऽधीत्य तन्त्राणि द्वितीयं मन्त्रमाप्नुयात् ।
तृतीयं पूजयेद् देवमित्येवं त्रिविधः क्रमः ॥६॥
एकेनैव प्रयोगेण तिस्रो दीक्षा ह्यनुग्रहे ।
समयग्रन्थपूजार्थाः कर्तव्यस्तत्त्ववेदिना ॥७॥
पूर्वं कृत्वा तु संस्कारं गर्भाधानादिकं क्रमात् ।
व्रतबन्धान्तमाचार्यस्तत्त्वेन परमेण वै ॥८॥
एकैकं दशहोमेन ततस्तत्त्वानि संहरेत् ।
वेकारादीनि तत्त्वानि पञ्चभूतात्मकानि वै ॥९॥
ध्यात्वा शिष्यशरीरे तु षष्ठं क्षेत्रज्ञलक्षणम् ।
होमेन शोधयित्वाऽन्ते पूर्णया योजयेत् परे ॥१०॥
पञ्चभूतस्वरूपेण तत्र माया व्यवस्थिता ।
षष्ठं तु परमं तत्वमबद्धं परमार्थतः ॥११॥
न स्वभावस्य विच्छित्तिर्भवेदग्न्यौष्ण्यवद् यतः ।
तस्माद् घटादिवद् बद्धो व्योमवत् परमं पदम् ॥१२॥
एवं ज्ञात्वा तु मेधावी व्यतिरिक्तं निरञ्जनम् ।
घटवद् यः स्मृतो बन्धस्तं होमेन विनाशयेत् ॥१३॥
पृथिव्यादि समारभ्य वेकाराद्यैस्तु पञ्चभिः ।
एकैकं शतहोमेन क्रमात् तत्त्वानि शोधयेत् ॥१४॥
पञ्च पूर्णाहुतीर्हुत्वा बन्धच्छेदं च भावयेत् ।
क्षेत्रज्ञं शतहोमान्ते मायाबन्धविवर्जितम् ॥१५॥
ध्यायन् पूर्णाहुतिं दद्यान्मक्तिदीक्षेयमुत्तमा ।
समयादिविभागेन कर्म यस्य यदीरितम् ॥१६॥
तदेवास्य पुनः कार्यं प्रायश्चित्तविधावपि ।
अब्देऽब्देऽपि च कर्तव्या दीक्षा शिष्येष्वनुग्रहात् ॥१७॥
यागैर्द्वादशभिर्यस्तु दीक्षितोऽसौ हरिः स्वयम् ।
यं तु शिष्यं गुणोपेतमाचार्यं कर्तुमिच्छति ॥१८॥
तस्याभिषेचनं कुर्याद् विधिनाऽनेन मन्त्रवित् ।
राज्ञोऽभिषेचनं कुर्याद् विधिनाऽनेन मन्त्रवित् ॥१९॥
साधकस्यानपत्यस्य दरिद्रस्य च रोगिणः ।
पूर्ववन्मण्डलं कृत्वा सर्वलक्षमलक्षितम् ॥२०॥
समभ्यर्च्यात्र देवेशं हुत्वाऽग्नौ च यथाविधि ।
कलशान् स्थापयेदग्रे निर्दोषान् सूत्रवेष्टितान् ॥२१॥
पञ्चरत्नसमायुक्तान् सहिरण्यान् सपल्लवान् ।
वेष्टितान् वस्त्रयुग्मैस्तु चतुरो दिक्ष्वनुक्रमात् ॥२२॥
मध्यतः पञ्चमं चैव सकूर्चं सापिधानकम् ।
प्रणवं कलशे पूर्वे सर्वमन्त्रात्मकं न्यसेत् ॥२३॥
अकारं दक्षिणे चैव सर्वतन्त्रात्मकं बुधः ।
पश्चिमे विष्णुगायत्रीमधिकारमयीं तथा ॥२४॥
उत्तरेऽपि न्यसेद् विष्णुं सर्वगं ज्ञानविग्रहम् ।
मध्यमे वैष्णवं बीजं शब्दब्रह्म सनातनम् ॥२५॥
ततस्तानर्चयेत् सर्वान् गन्धपुष्पाक्षतैः क्रमात् ।
योगाधिकारतन्त्रार्थसर्वविद्यासमन्वितान् ॥२६॥
यथोक्तमातृकाब्जस्थतारादिज्योतिषोऽखिलान् ।
मन्त्रतन्त्रादिरूपेण ध्यात्वा देवं पृथक् क्रमात् ॥२७॥
सहस्रावर्तितं कुर्याच्छतावर्तितमेव वा ।
एकैकं कलशं त्वेवमाचार्यः सुसमाहितः ॥२८॥
ततो होमं च कुर्वीत यथावत् साधकेश्वरः ।
उपसंहारमार्गेण निर्वाणाख्यं यथोदितम् ॥२९॥
एवं योगविधानेन कृत्वा तत्राधिवासनम् ।
अभिषेकं ततः सम्यक् कुर्याद् वै साधकस्य तु ॥३०॥
मण्डपस्योत्तरे पार्श्वे पूर्वं कृत्वा सुशोभनाम् ।
एकहस्तां द्विहस्तां वा चतुर्हस्तां तु वेदिकाम् ॥३१॥
तालोच्छ्रितां चतुःस्तम्भे मण्डपे छदनान्विते ।
वितानवस्त्रसञ्छन्ने स्रग्दामादिविभूषिते ॥३२॥
अलंकृते यथाशोभं लाजकुम्भैश्चतुर्दिशम् ।
लिखित्वा स्वस्तिकं मध्ये चतुरश्रं सुशोभनम् ॥३३॥
सितेन रजसा तत्र श्रीपर्णीद्रुमसम्भवम् ।
भद्रपीठं तु संस्थाप्य चतुरश्रं नवं शुभम् ॥३४॥
अनन्तं साम्बुजं तस्मिन् धर्मादिमयमर्चयेत् ।
ततोऽग्रे प्राङ्मुखः स्थित्वा ध्यात्वा पीठगतं प्रभुम् ॥३५॥
मनसा पूजयित्वा तु कार्यमेनं निवेदयेत् ।
भगवन्! दीक्षितस्योक्तमाचार्यत्वेऽभिषेचनम् ॥३६॥
तत् करिष्याम्यनुज्ञातस्त्वया सर्वार्थसिद्धये ।
लब्धानुज्ञस्ततः कुर्यादभिषेकं यथाविधि ॥३७॥
सृष्टिक्रमेण वै ध्यात्वा तत्त्वाध्वानं सुभावितः ।
प्रवेशयेद् गुरुः शिष्यं प्राङ्मुखं शुक्लवाससम् ॥३८॥
ध्यात्वाऽनन्तासनस्थं तमर्चितं विष्णुमव्ययम् ।
आनीय कलशानत्र स्वासु दिक्षु निवेशयेत् ॥३९॥
स्त्रीभिः सुस्वरकण्ठाभिर्गीयमानेऽथ मङ्गले ।
शङ्खतूर्यनिनादेन नीराजनपुरस्सरम् ॥४०॥
ततोऽभिषेचयेत् सार्धं ब्रह्मघोषेण देशिकः ।
पूर्वोक्तैरेव मन्त्रैस्तु ध्यात्वा मन्त्रात्मकं जलम् ॥४१॥
प्रतिकुम्भं तथाऽभ्यर्च्य धूपयित्वा यथाक्रमम् ।
चतुर्भिः पञ्चमेनाथ परं ज्ञानात्मकेन च ॥४२॥
नीराजनं पुनः कृत्वा पूजयेद् गन्धपुष्पकैः ।
परिधाप्य नवे वस्त्रे शोभने तमुपागतम् ॥४३॥
आचान्तमुपवेश्याग्रे बृसीं दत्त्वा स्वयं गुरुः ।
सोऽपि प्रणम्य देवेशं तस्यामासीत वाग्यतः ॥४४॥
सकलीकृत्य मन्त्रैस्तं पूजयेत् पूर्ववत् पुनः ।
योगपट्टकमुष्णीषं चक्रं चैवाङ्गुलीयकम् ॥४५॥
अधिकारं स्वकीयं च तत्त्वं चास्मै निवेदयेत् ।
दद्याच्च वैष्णवं ज्ञानं संसारच्छेदकारणम् ॥४६॥
श्रावयेत् समयांश्चैतांस्तन्त्रोक्तान् देशिकोत्तमः ।
अनुग्राह्यास्त्वया शिष्या वैष्णवाः शुभचारिणः ॥४७॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा योषित एव वा ।
अन्यदेवरता ये तु चातुर्वर्ण्याच्च ये बहिः ॥४८॥
डाम्बिकाः पापकर्माणो देवब्राह्मणनिन्दकाः ।
तेषामनुग्रहो नैव कर्तव्यो वैष्णव! त्वया ॥४९॥
समीपे तु गुरुर्यत्र न कर्तव्या स्वतन्त्रता ।
बहुयोजनमात्रे तु आचार्यो यत्र तिष्ठति ॥५०॥
तत्र दीक्षा न कर्तव्या अनुक्तेन त्वयाऽनघ! ।
गुरूपूजा च कर्तव्या यथा विष्णोस्तथा त्वया ॥५१॥
व्याख्यानादिषु कालेषु स्मर्तव्यश्च सदा गुरुः ।
न कदाचित् त्वया कार्यमप्रमाणं गुरोर्वचः ॥५२॥
कृते प्रमादे कर्तव्यं प्रायश्चित्तं तदाज्ञया ।
न कदाचिच्च कर्तव्यो लोकोद्वेगस्त्वयानघ! ॥५३॥
वैष्णवानां च वैभाष्यं यच्च लोकेऽपि गर्हितम् ।
प्रतिपत्तिश्च वृद्धानां कर्तव्या शास्रतस्त्वया ॥५४॥
अभिमानो न कर्तव्यः स्वप्नेष्वपि कदाचन ।
समयाश्च त्वया वत्स! आचाराश्च मयोदिताः ॥५५॥
पालितव्याः प्रयत्नेन यावज्जीवं ममाज्ञया ।
आचार्यो वैष्णवे तन्त्रे त्वं भव प्राणिनां प्रियः ॥५६॥
शिष्यास्त्वामुपसर्पन्तु तेषु वर्तस्व शास्त्रवत् ।
नार्थलोभेन वर्तेथा नाशया न भयेन वा ॥५७॥
पञ्चरात्रे विशेषेण देवं च सततं स्मर ।
अयनादिषु कालेषु यष्टव्यो विष्णुरव्ययः ॥५८॥
गुरवः पूजनीयाश्च मनोवाक्कायकर्मभिः ।
वृथषा हिंसा न कर्तव्या भर्तव्याश्च स्वशक्तितः ॥५९॥
दीनानाथास्तथान्धाश्च पूज्या विप्राश्च सर्वदा ।
उद्युक्तः सर्वदा तिष्ठेन्नित्यकर्मण्यतन्द्रितः ॥६०॥
स्वल्पमह्ना जपं कुर्यात् स्वल्पमग्नौ च होमयेत् ।
स्वल्पं वै ध्यानमातिष्ठेत् सत्रमेतत् सदा गुरोः ॥६१॥
एवमुक्त्वा गुरुः शिष्यं देवाग्रस्थं सुचेतसम् ।
तन्त्रं चैवाखिलं दद्यात् साधके मन्त्रमेव तु ॥६२॥
देवस्य पुरतो गन्धपुष्पाक्षतयुतैर्जलैः ।
चुलुकं पूरयित्वा तु मन्त्रमुच्चार्य तत्करे ॥६३॥
प्रदद्यात् सिध्यतां शीघ्रं तवेष्टं मन्त्रजं फलम् ।
इत्युक्तः स्वयमुत्थाय कॉत्वाऽचार्यं प्रदक्षिणम् ॥६४॥
आसने स्थापयित्वाऽस्य पादौ प्रक्षाल्य भक्तितः ।
तोषयेद् धनधान्येन शक्तिभक्तिवशाद् गुरुम् ॥६५॥
परितोष्य तु पाणिभ्यामुपसङ्गृह्य पादयोः ।
प्रार्थ्य पूजय देवं त्वमित्यनुज्ञापयेत् गुरुम् ॥६६॥
लब्धानुज्ञः स शिष्योऽपि ततः प्रभृति भूजयेत् ।
एवं तेनाननुज्ञातो यः पूजां कुरुते नरः ॥६७॥
न तस्य पूजया सिद्धिरिति शास्त्रस्य निश्चयः ।
तस्मान्मण्डलमध्यस्थं देवमाचार्यपूजितम् ॥६८॥
दृष्ट्वाऽनुज्ञानं गुरोः प्राप्य पूजयेत् पुरुषोत्तमम् ।
एवं यो वैष्णवीं दीक्षां कुर्यात् कारयिता च यः ॥६९॥
तावुभौ गच्छतः स्वर्गं नरकं च विपर्यये ।
विष्वक्सेनं च यागान्ते दिश्यैशान्यां प्रपूजयेत् ॥७०॥
पिङ्गश्मश्रुं विवृत्ताक्षं गदापाणिं चतुर्भुजम् ।
शङ्खचक्रधरं देवं जगत्संरक्षणे स्थितम् ॥७१॥
तर्जयन् वामतर्जन्या नासाग्रासन्नया जगत् ।
वारुणे मण्डले साङ्गं शिष्टद्रव्यैस्तु पूजयेत् ॥७२॥
विसृज्योक्तेन विधिना मण्डलस्थमधोक्षजम् ।
निर्माल्यं सकलं तस्मै समाहृत्य निवेदयेत् ॥७३॥
तस्य विं वं नमः ष्वां वीं स्वाहेति च यथाक्रमम् ।
क्सें वषट् तथा विष्वं वैं हुमित्यपि कल्पयेत् ॥७४॥
क्नेन वः फडितीमानि पञ्चाङ्गानि तदर्चने ।
प्रणीतस्थं जलं सिक्त्वा प्रस्तरोपरि तेन तु ॥७५॥
आत्मानं सह शिष्यैस्तु प्रोक्ष्याग्निं च विसर्जयेत् ।
विष्वक्सेनं विसृज्यास्मै निर्माल्यं सकलं ततः ॥७६॥
पूर्वदत्तं जलेऽगाधे धृतमन्यैर्निधापयेत् ।
वैष्णवान् पूजयेच्छक्त्या ब्राह्मणांस्तु विशेषतः ॥७७॥
अनिवारितमन्नाद्यं सार्वजन्यं च कारयेत् ।
एवमाचार्यतां प्राप्तौ दीक्षितो धर्मवत्सलः ॥७८॥
वर्णाश्रमरतो भक्तो विनीतः समयान्वितः ।
एककालं द्विकालं वा त्रिकालं वाऽर्चयेद्धरिम् ॥७९॥
शिष्यानथानुगुह्णीयाद् दीक्षापूजाभिषेचनैः ।
स्थापनादिक्रियायां च तथाऽऽचार्यत्वमर्हति ॥८०॥
दीक्षान्ते चाभिषेकान्ते शक्त्या सम्पूज्य वैष्णवान् ।
प्रभातेऽवभूथं गच्छेद् यत्र तीर्थं परं भवेत् ॥८१॥
तत्र स्नात्वाऽर्चयित्वा च ब्राह्मणैः स्वस्ति वाचयेत् ॥८२॥

॥इति विष्णुसंहितायामभिषेको नामैकादशः पटलः॥

N/A

References : N/A
Last Updated : January 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP