विष्णुसंहिता - द्वादशः पटलः

विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.


अथ वक्ष्यामि संक्षेपाद् यागभूमेस्तु लक्षणम् ।
यत्रेष्ट्वा विधिवद् देवं लभ्यन्ते सर्वसिद्धयः ॥१॥
त्रिधोत्तमाधमा मध्या चतुर्धा जातिभेदतः ।
सुपद्मा भद्रिका पूर्णा धूम्रेत्यपि तथैव भूः ॥२॥
बहुपांसुरशुष्काम्बुः क्षिप्रं व्रीह्यादिरोहणा ।
प्रदक्षिणजला श्रेष्ठा समा शीतोष्णकालयोः ॥३॥
नदी पूर्ववहा यत्र क्षीरपुष्पफलद्रुमाः ।
रमन्ते यत्र गोमर्त्याः समा स्निग्धा च सोत्तमा ॥४॥
शङ्खाभ्रादिस्वरा चेष्टा सवर्णा सर्ववर्णिनाम् ।
अलाभे कृत्रिमैवं स्यादधमा स्यादतोऽन्यथा ॥५॥
सर्वप्लवा च मध्योक्ता लक्षणैश्च शुभाशुभैः ।
चतुरश्राष्टषड्भागापादाधिकसमायता ॥६॥
विप्रादीनां स्मृता भूमिः सर्वेषां वोत्तमस्य या ।
सिता रक्ता च पीता च कृष्णा विप्रादिभूस्तथा ॥७॥
मधुरा र कषाया च तिक्ता च कटुका क्रमात् ।
घृतासृक्चरुविड्गन्धा बहुवर्णा तु वर्जिता ॥८॥
धान्यपूर्णामकुम्भस्थवर्धमानाज्यवर्त्तिभिः ।
सितादिभिर्निशि ज्ञेया प्रज्वाल्यावृत्य दर्शनात् ॥९॥
खाते रात्र्युषितैः पुष्पैस्तथा ज्ञेया सितादिभिः ।
वल्मीकशर्करारन्द्रतुषाङ्गारास्थिभस्मभिः ॥१०॥
केशकर्दमकीटैश्च संयुक्तां वर्जयेन्महीम् ।
धूम्रतारौक्ष्यदौर्गन्ध्यकाठिन्यैश्चाशुभा मही ॥११॥
अदिक्स्था जलहीना च कुटिला द्विगुणायता ।
वृत्ता पञ्चत्रिषट्कोणा चार्धचन्द्रा च शूर्पिका ॥१२॥
पीलुशेल्वक्षवेण्वर्कस्नुक्पिशाचकटुद्रुमैः ।
श्येनगृध्रर्क्षगोमायुसूकरध्वाङ्क्षवानरैः ॥१३॥
रक्षोयमाग्निवाताप्यनिम्नत्वेन च निन्दिता ।
मध्यनिम्ना सगर्भा च प्रतिलोमा च नेष्यते ॥१४॥
कुशैः शरैश्च दूर्वाभिः काशैश्च ब्राह्मणादिभूः ।
पुष्पैर्दीपैश्च विज्ञेया नत्वा विज्ञाप्य तं प्रभुम् ॥१५॥
निमित्तं ब्रूहि मे देव कल्प्रोक्तं द्विजादिकम् ।
वर्णार्यं तु प्रयुक्ते तु ततो वर्तिचतुष्टये ॥१६॥
मुहूर्ते गमिते यस्य दीपो ज्वलति तस्य भूः ।
वास्तु संकीर्णमिष्टं च सर्वेषा सर्वभासनात् ॥१७॥
न्यग्रोधोदुम्बराश्वत्थप्लक्षाः पूर्वादयः सुभाः ।
एते व्यस्ताः समस्ता वा शस्ता वामास्त्वकामदाः ॥१८॥
नादेयं तु जलं श्रेष्ठं दिक्षु सर्वास्ववस्थितम् ।
कूपमैन्द्रैशसौम्येषु न चैकसलिलं शुभम् ॥१९॥
जलाद्रिवृक्षगुल्माश्च पूर्वादिषु शुभाः स्थिताः ।
शिग्रुनिम्बादयश्छेद्यास्तत्र हस्तशतान्तरे ॥२०॥
बहिःस्थिता न दोषाय मध्ये कार्यास्तु वा शुभाः ।
द्विगुणं गृहवक्षोच्चं त्यक्त्वा दोषाय न स्थिताः ॥२१॥
गृहोच्चद्विगुणाद् बाह्ये फलपुष्पद्रुमास्तथा ।
बकुलाशोकपुन्नागनागचन्दनचम्पकाः ॥२२॥
बिल्वाम्रपनसाद्याश्च पलाशाद्याश्च शोभनाः ।
अन्तस्सारं बहिस्सारं निस्सारं सर्वसारकम् ॥२३॥
चतुर्धा स्थावरं तेषामसारं न गृहाग्रतः ।
कदल्यादि बहिर्धार्यं गृहपृष्ठान्तपक्षतः ॥२४॥
सर्वसारं तु सर्वत्र चिञ्चादि परिकीर्त्तितम् ।
अन्तस्सारं तथा विद्याद् बहिस्सारमसारवत् ॥२५॥
अपि सौवर्णकं वृक्षमुपगेहं न धारयेत् ।
गुल्मवल्ल्योषधीनां तु नैकान्तो विधिरीदृशः ॥२६॥
चन्दनागरुकर्पूरकदम्बतिलकार्जुनैः ।
क्रमुकैर्नालिकेरैश्च कुशैर्दर्भैः समावृता ॥२७॥
पद्मोत्पलवनाकीर्णा तोयाढ्यैन्द्रोरप्लवा ।
केतकीक्षुसमाकीर्णा सुपद्मा शान्तिदा मही ॥२८॥
नदीसागरपर्यन्ततीर्थायतनमाश्रिता ।
क्षीरवृक्षसमाकीर्णा फलवृक्षसमाकुला ॥२९॥
उद्यानोपवनोपेता फुल्लगुल्मलताकुला ।
पश्चिमे याज्ञिकैर्वृक्षैर्व्रीहिक्षेत्रेण दक्षिणे ॥३०॥
भद्रिका भूमिराख्याता सुखदा तत्र यज्वनाम् ।
किंशुकाशोकबकुलैरङ्कोलैश्चैव निम्बकैः ॥३१॥
खदिरै रोहितैः प्लक्षैर्माधवीचम्पकासनैः ।
कुलस्थतिलनिष्पावकोद्रवैश्च समाकुला ॥३२॥
गिरिपार्श्वाश्रिता चैव गिरेः शिखरमाश्रिता ।
अप्रभूतोदका भूमिः सा पूर्णेति च पुष्टिदा ॥३३॥
पीलुवेणुवनाकीर्णा स्नुहिश्लेष्मातकान्विता ।
विभीतकार्कसङ्कीर्णा कठिना शर्करान्विता ॥३४॥
श्येनगृध्रर्क्षगोमायुसूकरध्वाङ्क्षसङ्कुला ।
सोषरा गर्भयुक्ता च क्षयदा धूम्रिका भवेत् ॥३५॥
एवं परीक्ष्य यत्नेन गन्धवर्णरसादिभिः ।
गुल्मादि परिशोध्यात्र कर्षयेल्लाङ्गलैः शुभैः ॥३६॥
पञ्चधा दशधा वाऽपि सर्वधान्यानि वापयेत् ।
कर्षयित्वाऽथ भूयोऽपि कुर्यात् पुष्फलान्विताम् ॥३७॥
अत्यन्तोपहता या तु तस्याः शुद्धिरथोच्यते ।
शतशः कर्षयित्वा तु गोकुलं तत्र वासयेत् ॥३८॥
ततो वर्षोषिते कृष्ट्वा तिलादीन्यत्र वापयेत् ।
यदा सस्येषु पुष्पाणि फलानि च भवन्ति हि ॥३९॥
तदा कृष्टा पुनर्भूमिः शुद्धिमृच्छत्यसंशयम् ।
भूतकूरबलिं तत्र पूर्वं दत्त्वा विचक्षणः ॥४०॥
यावत् प्राकारपर्यन्तं तावत् कुर्यात् परिग्रहम् ।
भूतानि राक्षसा वाऽपि येऽत्र तिष्ठन्ति केचन ॥४१॥
ते सर्वे ह्यपगच्छन्तु स्थानं कुर्यामहं हरेः ।
इत्यनुज्ञाप्य भूतादींस्ततस्तं विधिमाचरेत् ॥४२॥
इन्द्रादीशावसानं तु शङ्कुद्विगुणवेष्टनात् ।
निमित्तैः शोभनैर्मन्त्री कुर्यात् सूत्रप्रसारणम् ॥४३॥
पुन्नामैकतरूद्भूता निर्घृणाः शङ्कवो दृढाः ।
प्राङ्मुखेनाष्टधा ताड्याः पूजिता लोहमुद्गरैः ॥४४॥
खात्वा पुरुषमात्रं तु जलाश्मान्तमथापि वा ।
ततो न्यस्य घटं मध्ये विधिना पूर्णमर्चितम् ॥४५॥
सरत्नं धान्यराशिस्थं मुहूर्त्ते मङ्गलान्विते ।
सुमृद्भिः खातमापूर्य हस्तपूरं ततोऽश्मभिः ॥४६॥
पादोनं प्लावयित्वाऽद्भिः पालाशाश्वत्थमुद्गरैः ।
आकोट्य घर्षयित्वा च सुदृढं कारयेत् तलम् ॥४७॥
द्वारदेशेऽर्चयेद् देवं स्थण्डिलेऽग्निं च तर्पयेत् ।
चतुरश्रं समं कृत्वा तत्र वास्तुं च तर्पयेत् ॥४८॥
सूत्रपातं पुनः कुर्यादेकाशीतिपदं यथा ।
सुसमः सुखदो वास्तुर्विषमो न सुखावहः ॥४९॥
दध्यक्षताज्यपुष्पाम्बुहेमरत्नैः प्रदक्षिणम् ।
मङ्गलार्थं लिखेत् पूर्वं नाङ्गुल्याद्यैः कदाचन ॥५०॥
ईशमूर्ध्नि निर्ऋत्यङ्घ्रौ तत्रोत्तानशये स्थितान् ।
कुशपुष्पाक्षतान्नाद्भिर्गन्धपुष्पैः प्रपूजयेत् ॥५१॥
ब्रह्मा नवसु मध्ये स्याद् दिक्षु षट्के द्विकेऽन्यतः ।
द्वात्रिंशद् बहिरीशादिक्रमादर्च्यास्तु देवताः ॥५२॥
ब्रह्मा मध्यपदे पूज्यः तत्प्राच्यामार्यकस्ततः ।
सावित्रः सविता चाग्नौ ततो द्विपदगौ स्मृतौ ॥५३॥
विवस्वान् दक्षिणे षट्के जयन्तेन्द्रौ द्विकद्वये ।
षट्के तु पश्चिमे मित्रो वायव्यद्विकयोः पुनः ॥५४॥
राजयक्ष्मा च रुद्रश्च षट्के क्षितिभृदुत्तरे ।
आपवत्सस्तथापश्च द्विकयोस्तद्बहिः शिवः ॥५५॥
पर्जन्यश्च जयन्तेन्द्रसूर्यसत्यभृशाम्बराः ।
प्राच्यामग्न्यादिकान् वक्ष्ये पूषा च वितथस्तथा ॥५६॥
गृहक्षतो धर्मराजो गन्धर्वो भृङ्गराजकः ।
मृगश्च नैर्ऋते कोणे पूजयेच्च पितॄंस्ततः ॥५७॥
दौवारिकं च सुग्रीवं पुष्पदन्तं जलाधिपम् ।
असुरं तैव शोषं च पापयक्ष्माणमेव च ॥५८॥
वायुं नागं तथा मुख्यं भल्लाटं सोममेव च ।
अदितिं दितिं कुबेरं च बहिरीशादिषु क्रमात् ॥५९॥
चरकीं च विदारीं च पूतनां पापराक्षसीम् ।
शर्वस्कन्दं चार्यमणं जम्भकं पिलिपिञ्छकम् ॥६०॥
दिक्षु तेषां बलिं दत्त्वा मध्यादारभ्य सर्वतः ।
भूतेभ्योऽपि बलिं दद्यादष्टदिक्षु यताक्रमम् ॥६१॥
पूजिता वास्तुदेहस्थास्त्रिपञ्चाशत् तु देवताः ।
सिद्धये स्युरनर्थाय गृहभाजामपूजिताः ॥६२॥
सङ्कल्पितोपवासस्तु सुस्नातः सुसहायवान् ।
सुलिप्तायां समासीनः क्षितौ रात्रावुदङ्मुखः ॥६३॥
ज्पेत् स्वप्नप्रदं मन्त्रं यावन्निद्रावशंगतः ।
ततः पश्यत्यसौ स्वप्नं तद्भूमिफलसूचकम् ॥६४॥
सुस्वप्नेऽत्र गृहं कुर्यात् सुगृहर्क्षदिनोदये ।
सुमृदा स्थण्डिलं कृत्वा चतुर्हस्तं सुशोभनम् ॥६५॥
प्रलिप्त पद्ममध्यस्थमुदकुम्भं निवेशयेत् ।
सर्वौषदियुतं भद्रं रत्नगर्भं सपल्लवम् ॥६६॥
सितचन्दनदिग्धाङ्गं पद्ममालाविभूषितम् ।
सितवस्त्रयुगच्छन्नमव्यग्रं स्वस्तिकान्वितम् ॥६७॥
तन्मुखे प्रणवेनादौ ध्यात्वा कमलमुज्ज्वलम् ।
साङ्गुलीयकरो मन्त्री ग्रहांस्तत्र प्रकल्पयेत् ॥६८॥
बद्धपद्मासनान् हृष्टान् पूजयेच्च स्वनामभिः ।
सूर्यं रक्तं सितं सोमं रक्तमङ्गारकं पुनः ॥६९॥
बुधं चामीकरप्रख्यं कृष्णवर्णं शनैश्चरम् ।
पीतं बृहस्पतिं शुक्रं शुक्लमेव तु कल्पयेत् ॥७०॥
राहुं चासितपीताभं कृष्णं केतुं यताक्रमम् ।
स्ववर्णलक्षितैः पुष्पैः सर्वेऽर्च्यास्तु विधानतः ॥७१॥
कुर्याद्धोमं बलिं चान्ते गीतवादित्रसंयुतम् ।
स्तुतिं कृत्वा ग्रहाणां तु पवित्रं स्तोत्रमीरयेत् ॥७२॥
शुभाशुभमहार्थानि निमित्तानि ग्रहाधिप! ।
दिव्यान्तरिक्षभौमानि पृच्छतो मे प्रकाशय ॥७३॥
इत्युक्त्वोद्धृत्य तं कुम्भं शाकुनं सूक्तमुच्चरन् ।
परितो भ्रामयेद् यत्नाज्जयशब्दादिसंयुतम् ॥७४॥
अनिष्टदर्शनेऽप्येवं भूमौ स्थापितपूजितम् ।
उद्धृत्य भ्रामयेद् भूयस्तदा खे दृश्यतेऽद्भुतम् ॥७५॥
सिद्धानां दर्शनं शब्दः सातपा वृष्टिरेव वा ।
रत्नपुष्पफलान्नानां धान्यमध्वाज्यवाससाम् ॥७६॥
दधिपाठीनभेकानां मूत्रस्य पिशितस्य च ।
कूर्मस्य वा महीपृष्ठे प्रपातो नभसः शुभः ॥७७॥
नृपब्राह्मणकन्यानां पूर्वकुम्भस्य दर्शनम् ।
हस्त्यश्वशिखिहंसाभ्रशङ्खवेणुसमाः स्वराः ॥७८॥
इत्येवमादयो ज्ञेयाः कर्मकाले विचक्षणैः ।
स्पष्टे घ्राते श्रुते दृष्टेऽप्यनिष्टे वर्जयेत् क्षितिम् ॥७९॥
दिनमन्यत् समासाद्य प्रागुक्तविधिवर्त्मना ।
सुनिमित्तं च विज्ञाय कर्ता वै कर्म कारयेत् ॥८०॥
तथेष्ट्वाऽग्निं क्षमेत्युक्त्वा ब्राह्मणैः स्वस्ति वाच्य च ।
बलिं दत्त्वा खनेत् प्राग्वत् तां धरां पूरयेत् पुनः ॥८१॥
गृहमध्ये तु मेधावी शुभां पूर्वप्रकल्पिताम् ।
न्यसेत् कूर्मशिलां चैव यस्यां कूर्मो निवेश्यते ॥८२॥
राजतं विन्यसेत् कूर्मं सौवर्णं तद्वदेव तु ।
पूर्ववत् कल्पयेत् पद्मं साष्टवर्गां च मातृकाम् ॥८३॥
आधारशक्तिमत्रेष्ट्वा नत्वा विज्ञापयेत् ततः ।
त्वमेव परमा शक्तिस्त्वमेवासनधारिका ॥८४॥
सन्तृप्तया त्वया देवि! स्थातव्यमिह सर्वदा ।
कूर्मराजमकूपारं तथा विश्वस्य धारकम् ॥८५॥
ध्यात्वा पूर्वोक्तपद्मस्थं स्वनाम्नैव तु पूजयेत् ।
नमस्ते कूर्मरूपाय विष्णवे विश्वधारिणे ॥८६॥
करिष्यमाणं प्रासादमिह त्वं धर्तुमर्हसि ।
इति विज्ञाप्य तं भक्त्या गणेशं चात्र पूजयेत् ॥८७॥
कूर्मस्य दक्षिणे पार्श्वे पद्मं कृत्वा तु पूर्ववत् ।
नामयुक्तेन बीजेन गन्धपुष्पादिभिः क्रमात् ॥८८॥
कुर्याद् बीजस्य पञ्चाङ्गं त्रिदीर्घं द्वादशान्तगैः ।
निवेद्य लड्डुकापूपपृथुकादि विशेषतः ॥८९॥
ध्यायेद् गजाननं रक्तं बृहत्कुक्षिं चतुर्भुजम् ।
पाशाङ्कुशधरं भक्ष्यं दधानं दन्तमेव च ॥९०॥
एवं सम्पूज्यते नित्यं गणेशो यत्र भक्तितः ।
विघ्नास्तत्र न जायन्ते वर्धन्ते चात्र सम्पदः ॥९१॥
मण्डले स्थण्डिले चैनं यागे यागे च पूजयेत् ।
गणेशं विधिना य

N/A

References : N/A
Last Updated : January 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP