विष्णुसंहिता - नवमः पटलः
विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.
अथ वक्ष्यामि संक्षेपान्मण्डलं सार्वकामिकम् ।
यद् ज्ञात्वा मुनयः सम्यक् परां सिद्धिमितो गताः ॥१॥
यागभूमिं परीक्ष्यादौ सर्वदोषविवर्जिताम् ।
शल्यैर्विमोचितां यत्नात् समां पूर्वोत्तरप्लवाम् ॥२॥
शोधयित्वा यथान्यायं मण्डपं तत्र कारयेत् ।
चतुरश्रं चतुर्द्वारमेकद्वारमथापि वा ॥३॥
तोरणध्वजसंयुक्तं वितानादिविभूषितम् ।
समङ्गलाङ्कुरादर्शलाजकुम्भाष्टमङ्गलम् ॥४॥
अग्न्यायतनसंयुक्तमादर्शसमवेदिकम् ।
संस्कृत्य मार्जनालेपगव्यगन्धाक्षतादिभिः ॥५॥
सूत्रपातं ततः कुर्यात् दिग्विभागानुरूपतः ।
प्राक्पश्चिमायते सूत्रे मध्यङ्कोभयपाश्वगौ ॥६॥
कृत्वाऽङ्कौ लाञ्छयेत् ताभ्यां मत्स्यौ दक्षिणसौम्ययोः ।
तयोश्च सूत्रमास्फाल्य लाञ्छयेद् दिक्षि मानतः ॥७॥
द्वाभ्यां द्वाभ्यामथाङ्काभ्यां लाञ्छयेत् कोणमत्स्यकान् ।
बाहुसूत्राणि चास्फाल्य चतुरश्रं प्रसाधयेत् ॥८॥
समं षोडशधा भङ्क्त्वा सूत्राण्यास्फाल्य भद्रकम् ।
आलिखेन्मण्डलं तत्र चतुरश्रं सुशोभनम् ॥९॥
पञ्चवर्णैश्चतुर्द्वारं सिताब्जं तत् सपीठकम् ।
चतुर्भिर्नवकैः पद्मं पीठं पङ्क्यैकया बहिः ॥१०॥
द्वाभ्यां वीथीं तथा द्वाराण्यब्जस्थानं तु वर्तयेत् ।
तदर्धे द्वादशांशोने चतुर्धावर्तितेंऽशकैः ॥११॥
पृथिव्यादीनि तत्त्वानि कर्णिकादिषु कल्पयेत् ।
कर्णिकां केसरान् सन्धीन् दलान्यग्राणि च क्रमात् ॥१२॥
कोणसूत्रं समास्फाल्य कुर्यादष्टदलं यथा ।
क्षिप्तेषु सन्धिसूत्रेषु दलसन्ध्यन्तरेण तु ॥१३॥
दलान्यग्राणि मानेन पार्श्वस्थेन च वर्तयेत् ।
पीठे त्रिभिश्चतुर्भिश्च पादगात्राणि कल्पयेत् ॥१४॥
द्वेऽन्तर्बहिश्च चत्वारि द्वारे द्वारे तु मार्जयेत् ।
त्रीण्येकं चैव शोभार्थमुपशोभार्थमन्यथा ॥१५॥
षड्भिः कोणं लतापत्रवितानैर्वीथिरुज्ज्वला ।
एकहस्तं द्विहस्तं च चतुर्हस्तं च भद्रकम् ॥१६॥
ततोऽधिकं तु चक्राब्जमष्टहस्तान्तमिष्यते ।
द्वादशारत्निका वेदिर्दशाष्टारत्निरेव वा ॥१७॥
तस्या द्वादशभागेन मध्यतोऽक्षं प्रकल्पयेत् ।
नाभिं च तावतीं क्षेत्रमराणां द्विगुणं बहिः ॥१८॥
नाभिवन्नेमिवीथ्योश्च क्रमात् क्षेत्राणि कल्पयेत् ।
अक्षभिमिं त्रिधा कृत्वा कर्णिकादि यथाक्रमम् ॥१९॥
वर्तयेन्नाभिसंस्थानि दलान्यग्राणि कल्पयेत् ।
त्रिनाभि द्वादशारं तच्चक्राब्जं शुभवीथिकम् ॥२०॥
कल्पयेद् विदिशोऽरस्था दिशोऽरान्तरगोचराः ।
तुल्यमेवोभयोर्मानं सर्वत्र परिकल्पयेत् ॥२१॥
अरं द्वादशधा कृत्वा सूत्राण्यूर्ध्वगतानि च ।
मूलाग्रयोरराः स्थूला वृत्तरूपाश्च मध्यतः ॥२२॥
पिपीलिकोदराः कार्या विपरीता यवोदराः ।
नेमिक्षेत्रं द्विधा कृत्वा प्रथयश्चाधरोत्तराः ॥२३॥
चतिर्विंशतिधा कार्यस्ते चाराग्रान्यसन्धयः ।
बहिरावरणं चात्र नेमिमानेन कल्पयेत् ॥२४॥
तत्र स्थानानि कल्प्यानि दिक्पालानां यथाक्रमम् ।
चतुरश्राणि सर्वाणि तालमात्राणि कल्पयेत् ॥२५॥
बहिर्द्वारादि कर्तव्यं चतुरश्रं यथोदितम् ।
एवं मण्डलामालिख्य रजोभिः पूरयेत् क्रमात् ॥२६॥
सितरक्तासितापीतश्यामैरेवात्र पञ्चभिः ।
सर्वत्र कर्णिका पीता सितान्यब्जदलानि च ॥२७॥
पृथुलारुणमध्यानि पीतान्येव यथाक्रमम् ।
केसराण्यच्छबिन्द्वग्राण्युज्ज्वलानि प्रकल्पयेत् ॥२८॥
दलान्तराणि श्यामानि व्योमबाह्योऽश्रयोऽरुणाः ।
सिता धर्मादयः श्यामास्तथाऽधर्मादयः स्मृताः ॥२९॥
द्वाराणि तु सितान्येव चतुर्दिक्षु प्रकल्पयेत् ।
उत्तरादीनि सर्वाणि विप्रादीनां यथाक्रमम् ॥३०॥
शोभा रक्तोपशोभा तु पीता नीलं च कोणकम् ।
भद्रकेऽन्यद्यथाशोभं सर्ववर्णैस्तु कल्पयेत् ॥३१॥
चक्राब्जेऽपि तथा पद्मं त्रिधा नाभिमथालिखेत् ।
सितरक्तासितैः पीताः सर्वेऽराः सितसन्धयः ॥३२॥
प्रथयः शुक्लकृष्णाः स्युर्व्यत्ययात् पीतसन्धयः ।
नानावर्णानि कार्याणि दिक्पानां स्वस्तिकानि तु ॥३३॥
पीताच्छपाटलश्यामकृष्णरेखास्तु तद्बहिः ।
सितरक्तासितास्तिस्रो भद्रके विहिताः क्रमात् ॥३४॥
द्वारादि भद्रके यत्तत् चक्राब्जेऽपि बहिस्तथा ।
कल्पनीयं प्रयत्नेन दीक्षायां देशिकोत्तमैः ॥३५॥
येन रूपेण यल्लेख्यं विधिवच्चक्रमण्डलम् ।
तद्वर्णेनैव रजसा तत्तत्पूरणमत्र तु ॥३६॥
रत्नैरोषधिभिर्लोहर्गन्धैर्बीजैश्च धातुभिः ।
पत्रैश्च याज्ञिकैर्वृक्षै रजांस्येतानि कल्पयेत् ॥३७॥
मुक्त्यै न्यासोऽपसव्येन देवतीर्थेन तु श्रियै ।
सर्वकामसमृद्ध्यर्थं कर्तव्योऽङ्गुलिभिस्तु सः ॥३८॥
ग्रन्थिवक्रकृशस्थूलनिम्नोन्नतविमिश्रणैः ।
छिद्रैश्च बहवो दोषा रेखाच्छेदो न सर्वथा ॥३९॥
प्रमादाद्यत्र शिष्याणां मण्डलस्य तु लेखने ।
ग्रन्थ्यादि स्यादतन्द्री तु समये कुशलो गुरुः ॥४०॥
कर्णिकाकेसरादीनि ललितानि प्रयोजयेत् ।
सकृदर्पणमात्रेण न पुनः परिवर्तनैः ॥४१॥
कर्णिकामुच्छ्रितां कुर्यात् पत्ररेखाश्च सर्वतः ।
कनिष्ठामध्यमाङ्गुष्ठमिता रेखास्त्रिधोच्छ्रिताः ॥४२॥
मुख्ये मध्येऽधमेऽब्जादिक्रमादूह्यश्च तत्क्षयः ।
तन्मध्येषु रजोन्यासस्तत्तत्पादोच्छ्रितो भवेत् ॥४३॥
ग्रन्थ्यादिपरिहारेण प्रयत्नाद् देशिकोत्तमः ।
सर्वत्र समरूपाणि रजांसि विकिरेत् क्रमात् ॥४४॥
कुड्ये पटे च तच्तक्रं लिखितं मानयोगतः ।
पूजनीयं गृहे नित्यं क्षुद्रभूतादिशान्तये ॥४५॥
काले स्वयं तु सम्पश्येन्न तत् साधारणो जनः ।
तस्यानुध्यानमात्रेण सर्वमेनो विशीर्यते ॥४६॥
तस्यान्तिके न तिष्ठन्ति वेताला ब्रह्मराक्षसाः ।
इदं चक्रमुपारूढो विष्णुः सर्वजगत्प्रभुः ॥४७॥
पूज्यो भक्तैः प्रयत्नेन सदा सर्वार्थसिद्धये ।
असम्भवे द्विहस्तादिमानेनाप्यर्चनादिषु ॥४८॥
चक्राब्जं वर्तयेद्विद्वानल्पं नानल्पसम्भवे ।
असम्भवेऽपि स्थानानि नेम्यन्तानि न हापयेत् ॥४९॥
बहिरावरणं त्वल्पे कल्पनीयं यथेप्सितम् ।
वर्णाः सितारुणाः पीताः पृष्णाः शान्त्यादिदेवताः ॥५०॥
योज्या युगेषु वेदेषु वर्णेषु च यथाक्रमम् ।
युगान्तरानुलोमाङ्करूपं श्यामं तु पञ्चमम् ॥५१॥
पञ्चवर्णमयं विश्वं तन्मात्रा मूर्तिभेदतः ।
विषयेन्द्रियभेदाच्च पञ्चधेदमवस्थितम् ॥५२॥
नादरूपेण विज्ञेयं व्याप्तमाद्यक्षरेण तु ।
वर्णादिकल्पनातीतं तद्विष्णोः परमं पदम् ॥५३॥
व्यापिनी तु परा शक्तिररूपा सर्वतोमुखी ।
अविमुक्तस्तया देवो द्रष्टव्यः साधकैः सदा ॥५४॥
अवर्मा सा समाख्याता सर्ववर्णा च साधकैः ।
तद्बीजं सा परा माया प्रकृतिः सा गुणात्मिका ॥५५॥
एकैव सा परा सूक्ष्मा गुणभेदात् त्रिधा भवेत् ।
तद्भेदाद्देवभेदोऽपि ब्रह्मोपेन्द्रहरात्मकः ॥५६॥
पञ्चधा सा भवेत् पश्चाद् यथा पूर्वं मयोदितम् ।
तद्भेदानुविधायित्वं देवस्य श्रुतिदर्शनात् ॥५७॥
कल्पितं मुनिभिर्भेदास्त्वसंख्येया गुणोद्भवाः ।
पुरुषं मण्डलं विद्यात् पद्मं हृदयमस्य तु ॥५८॥
बाह्वन्तरगतं मध्यं नाभिमूलेऽब्जनालकम् ।
पदे द्वे पश्चिमद्वारे ज्ञातव्ये दक्षिणोत्तरे ॥५९॥
पद्मनालं नवच्छिद्रं विमलादिकलाश्रयम् ।
तस्य मूलं भवेत् सूक्ष्मो बीजरूपो जनार्दनः ॥६०॥
आधारभूतं सर्वस्य महिम्नि स्वे व्यवस्थितम् ।
पद्ममूलं विजानीयाद्यतोऽकारादयोऽभवन् ॥६१॥
मरुतः कण्टका नालं ग्रन्थिर्गुणमयो महान् ।
बुद्धिभेदा दलान्यष्टौ धर्माधर्मादयस्ततः ॥६२॥
नालान्तेऽहंकृतोऽनन्तस्तन्मात्रेन्द्रियभूतभृत् ।
पद्मोऽव्यक्तमकारादिभेदोऽर्केन्द्वग्निमण्डलम् ॥६३॥
बुद्धिगर्वमनोमात्रा दक्षिणादिदलाष्टकम् ।
इत्यन्ये विमलाद्यष्टशक्तिजं चापरे विदुः ॥६४॥
अण्डमध्यगतं पद्मं पिश्वस्यायतनं महत् ।
मायाण्डाधःकपालस्था विद्या चोर्ध्वं व्यवस्थिता ॥६५॥
पुरीततं हृदब्जस्य कल्पयेत् प्रतिवारणम् ।
तद्बाह्यतः पुराकारो वैराजो देव उच्यते ॥६६॥
पीताच्छारुणकृष्णेषु श्यामे च क्ष्मादयः स्थिताः ।
वसवोऽब्जदलाग्रस्था रुद्रादित्याश्च केसराः ॥६७॥
मरुतो दलसन्धिस्था रेणवो ग्रहतारकाः ।
दलान्तराग्ररेखासु सरितः सागरास्तथा ॥६८॥
मेरुस्तु कर्णिकान्तस्थो बीजेषु मुनयः स्थिताः ।
सूर्येन्द्वग्निगतो विष्णुस्तानतीत्य स्थितस्त्विषा ॥६९॥
तस्त्वरूपं परं नित्यं यः पश्यति स पश्यति ।
आत्मानमन्तरात्मानं परमात्मानमित्यपि ॥७०॥
तस्य तुर्यं परं रूपं यः पश्यति स एव सः ।
यक्षाद्याः कण्टका नाले रोमाण्यप्सरसः स्मृताः ॥७१॥
सूत्रं प्रजापतिः पत्रमूले प्राणादिवायवः ।
चक्रमण्डलमध्यस्थ आत्मा सर्वेश्वरो हरिः ॥७२॥
निष्कलस्तु समाख्यातः परमे व्योम्नि संस्थितः ।
एवं यो वेत्ति देवं तं मण्डलान्तर्गतं तथा ॥७३॥
स हित्वा वैष्णवीं मायामाप्नुयात् परमं पदम् ।
अविधानेऽपि यो देवं मण्डलान्तः स्थितं यजेत् ॥७४॥
पश्येद् वा तेन देवेशः साक्षाद् दृष्टो भवेद् ध्रुवम् ।
मण्डलेऽत्र भवेन्नित्यं सान्निध्यं सर्वरूपिणः ॥७५॥
तस्मात् तीर्थादिपुण्येभ्यो विशिष्टं मण्डलेऽर्चनम् ।
॥इति विष्णुसंहितायां नवमः पटलः॥
N/A
References : N/A
Last Updated : December 29, 2020
TOP