विष्णुसंहिता - एकोनत्रिंशः पटलः
विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.
अथ वक्ष्यामि संक्षेपात् समयाचारलक्षणम् ।
दीक्षितानां तु सर्वेषां यद्योगात् सर्वसिद्धयः ॥१॥
ब्राह्मणाद्याश्चतुर्वर्णास्त्रयस्त्वेषां च दीक्षिताः ।
भक्ता जितेन्द्रियाः शान्ताः सर्वे समयिनः स्मृताः ॥२॥
समयी दीक्षितः पश्चाच्चक्रवर्त्यभिषेकवान् ।
गुरुश्चैव तथाचार्यो भगवान् सप्तमः स्मृतः ॥३॥
यागः स्तोमो महायागश्चाध्वरोऽथ सवः क्रतुः ।
हरिस्तोम इति ज्ञेयाः सप्त यागाः समासतः ॥४॥
वसन्ते च तथा ग्रीष्मे शरद्वर्षासु च क्रमात् ।
वर्णिनां विहिता दीक्षा सर्वेषां वोत्तरायणे ॥५॥
सकृद् द्विस्त्रिश्चतुर्दीक्षा सप्तकृत्वश्च वर्णिनाम् ।
तथा द्वादशकृत्वश्च कार्या वा प्रतिवत्सरम् ॥६॥
पुष्पातवशान्नाम पूर्वमेव तु गृह्यते ।
तच्छर्मवर्मगुप्तान्तं दासान्तं चेह वर्णिनाम् ॥७॥
केवलं समयीत्यादि द्रष्टव्यं केशावादिवत् ।
स्त्रीणां तु केशवाद्याख्या देव्यन्तास्त्रिषु कीर्तिताः ॥८॥
शूद्राणां दासदास्यन्ताः सर्वेषां यागभेदतः ।
सर्वेऽपि दीक्षिताः सम्यक् सदा गुरुपरायणाः ॥९॥
वर्णाश्रमगतान् धर्मान् रक्षेयुः समयांस्तथा ।
गुरुदेवद्विजाग्नीनां सर्वदा परिचर्यया ॥१०॥
व्रतोपवासनियमैर्भक्त्या चेच्छेयुरुन्नतिम् ।
नानिष्ट्वा देवमश्नीयान्नचादीक्षितवेश्मनि ॥११॥
निर्माल्यं न श्पृशेद् दद्याल्लङ्घयेत् वाऽशनं कुतः ।
सर्वेषामेव देवानां निर्माल्यमशुचि स्मृतम् ॥१२॥
विष्णुभुक्तं तु पुष्पादि शुचीत्याददते परे ।
कांस्यपात्रे न भोक्तव्यं न वन्द्या चान्यदेवता ॥१३॥
अदीक्षिताद्ययोग्येषु सिद्धान्तं न प्रकाशयेत् ।
नोदक्ययाऽभिभाषेत न चण्डालैर्नचान्त्यजैः ॥१४॥
न कुदेशे वसेन्नित्यं न च पाषण्डिभिः सह ।
तिर्यक् पुण्ड्रं न कुर्वीत नो द्विट्कारं न सङ्करम् ॥१५॥
शर्ङ्गाष्ठं लशुनं शिग्रु धान्याम्लं चाविकं पयः ।
पिण्याकं कोरदूषं च छत्राकं वर्जयेत् सदा ॥१६॥
आसनं शयनं यानं नातिष्ठेच्चक्ररूपकम् ।
प्रतिमासन्निधौ नान्यप्रतिमास्तुतिमाचरेत् ॥१७॥
शृणुयान्न परीवादं नच कालं वृथा नयेत् ।
चक्राङ्को विष्णुनामाङ्कपुत्रभृत्यपशुर्भवेत् ॥१८॥
चत्रैव तु शिरः कृत्वा स्वपेद् यत्र रविर्गतः ।
नाग्निगोगुरुविप्रार्चाधान्येष्वङ्घ्री प्रसारयेत् ॥१९॥
मत्स्यकूर्मवराहाणां नच मांसानि भक्षयेत् ।
विप्राग्निवैष्णवाश्वत्थान् गाश्च कुर्यात् प्रदक्षिणम् ॥२०॥
विष्णोर्गृहाणि सर्वाणि दृष्ट्वा भक्त्याऽभिवादयेत् ।
न बाहुभ्यां तरेत् सिन्धुं न गवा नान्यवाससा ॥२१॥
न नग्नो वा विशेत् तोयं न धावेद् वर्षसंभवे ।
ऊर्ध्वपुण्ड्रास्तु ये मर्त्यास्तान् सर्वाच्छक्तिऽर्चयेत् ॥२२॥
अग्रभिक्षां सदा दद्याद् ग्रासमुष्टिं गवां तथा ।
नाद्यात् पर्युषितं चान्नं नागतं परगेहतः ॥२३॥
शिरस्पृष्टेन तैलेन नाङ्गं किञ्चिदुपस्पृशेत् ।
नानन्तर्धाय चासीत नान्यभक्तं प्रपूजयेत् ॥२४॥
प्रत्यक्षलवणं नाद्यान्निर्यासामेध्यजानि वा ।
वैष्णवैर्दीक्षितैर्विप्रैर्विवादं न समाचरेत् ॥२५॥
अन्त्यजं वा श्वपाकं वा नावमन्येत वैष्णवम् ।
विष्ण्वर्थान्येव कर्माणि सर्वाणि मनसा स्मरेत् ॥२६॥
अपि प्राणपरित्यागं कुर्याद् विष्णुनिमित्ततः ।
कृतेन कर्मणा येन भगवान् भुवनेश्वरः ॥२७॥
प्रसीदति हि तत् कार्यं कर्मेदं वैष्णवैः सदा ।
सत्पथे मनसि न्यस्ते वाणी तिष्ठति सत्पथे ॥२८॥
इन्द्रियाणि च सर्वाणि तस्मात् तच्छिक्ष्यमादितः ।
उपकारः परो धर्मः सर्वेषामिति निश्चयः ॥२९॥
तस्मात् सर्वप्रयत्नेन सर्वेषां हितमाचरेत् ।
दानानि कीर्तिभूयांसि मध्यमानि फलेष्वतः ॥३०॥
रहस्यदानं कर्तव्यं पात्रकालादियोगतः ।
पात्रे सर्वाणि देयानि दातव्यानि मनस्विना ॥३१॥
देवमेव समुद्दिश्य यशस्तत्रानुषङ्गिकम् ।
जितेन्द्रियस्य भक्तस्य मानसो धर्म उत्तमः ॥३२॥
कायिकः प्राकृतस्योक्ते मध्यमस्य तु वाचिकः ।
क्रियारूपः स्मृतो धर्मो ज्ञानरूपं तु तत्परम् ॥३३॥
ज्ञानेन मोक्षमाप्नोति ज्ञानार्था चेष्यते क्रिया ।
केवलं त्विह विज्ञानं धर्मस्यानुग्रहादृते ॥३४॥
नालं चेतो भवाविष्टं प्रसादयितुमञ्जसा ।
तदिष्ट्वाऽनन्तरायार्थं प्राप्य ज्ञानमनुग्रहात् ॥३५॥
ततः साध्यो भवेन्मोक्षस्तद्भक्तैरेव नापरैः ।
प्रासादे स्थापितं देवं सर्वदा न प्रकाशयेत् ॥३६॥
अन्यत्रार्चनवेलायां पूजनान्ते प्रकाशयेत् ।
अशिचिद्रव्यसंसर्गं जनसम्मर्दमेव च ॥३७॥
प्रासादे वर्जयेन्नित्यं लोकोपकरणानि च ।
वैदिका वैष्णवा मन्त्राः शान्तिकाः पौष्टिकास्तथा ॥३८॥
यथायोगं प्रयोक्तव्यास्तन्त्रमन्त्रास्तदन्तरे ।
ऋक्षु ये पावना मन्त्रा यजुष्वपि च सामसु ॥३९॥
अथर्वणेषु चादेया देवपूजादिकर्मसु ।
ये मन्त्राः परमं देवं साक्षाल्लक्षेण(क्ष्येण) वाऽऽश्रिताः ॥४०॥
साङ्गाः पृथगुपादेयास्तान् विचार्यात्र योजयेत् ।
नहि तेभ्यः परं किञ्चिद् वाङ्मयं भुवि विद्यते ॥४१॥
कामदं च पवित्रं च ये मन्त्रा वैदिकाः स्मृताः ।
तैरेव कृतसंस्कारे वंशे जातः स्वयं पुनः ॥४२॥
तानुपेक्ष्यापरान् मन्त्रान् नानुवर्तितुमर्हति ।
कर्मकाण्डप्रधानास्तु वैदिका विधयः स्थिताः ॥४३॥
कामकामैर्वियोक्तव्यास्तां तामाश्रित्य देवताम् ।
मन्त्रास्ते वैदिकाः सिद्धाः संभूय पृथगेव वा ॥४४॥
कर्मसिद्धौ प्रवर्तन्ते प्रायो नानाफलाश्रयाः ।
तेऽन्वीक्ष्यान्वीक्ष्य संग्राह्या वैष्णवैर्वदवादिभिः ॥४५॥
तत्पूजायामिदं तन्त्रं भवत्येव निबन्धनम् ।
तज्ज्ञात्वा वैदिकान् मन्त्रान्यानुद्धृत्य च स्वयम् ॥४६॥
इदं च तन्त्रमालम्ब्य पूजयेत् पुरुषोत्तमम् ।
यो जपस्तुत्युपस्थानं तैः कृत्वाऽनुस्मरन् हरिम् ॥४७॥
पठेन्मन्त्रान् यथान्यायं स मुख्यो विष्णुयाजकः ।
जपयज्ञं विशेषेण ये तु कुर्वन्ति वैदिकैः ॥४८॥
काले पूजां च कुर्वन्ति तेषु संप्रीयते हरिः ।
ध्यात्वाऽर्कमण्डले विष्णुं वेदमन्त्रैरभिष्टुतम् ॥४९॥
धार्यमाणे ततैवाग्नौ जुहुयात् कार्यसिद्धये ।
तत्र यत् केवलं ध्यानं वेदान्तोक्तमनाश्रयम् ॥५०॥
न तत्रेन्द्रियदौर्बल्यात् कर्मस्थस्याधिकारिता ।
यथा गिरितटाग्रस्थवनस्पतिफलेच्छया ॥५१॥
उपाये वर्ततेऽश्रान्तस्तथाऽसौ यत्नमाचरेत् ।
सर्वत्र क्रमवान् यत्नः कार्यो नेच्छैव केवला ॥५२॥
तत् कायवाङ्मनोयोगैः क्रमादिच्छेत् परां गतिम् ।
निराकारे तु या भक्त्या पूजेष्टा ध्यानमेव वा ॥५३॥
रमणीयमिवाभाति तदनर्थस्य कारणम् ।
स्थूलभावप्रसङ्गीनि जन्मनाऽस्येन्द्रियाणि हि ॥५४॥
सूक्ष्मार्थं न प्रपद्यन्ते चिराच्च किमुताचिरात् ।
नच रूपं विना देवो ध्यातुं केनापि शक्यते ॥५५॥
सर्वरूपनिवृत्ता हि बुद्धिः कुत्रास्य तिष्ठति ।
निवृत्ता ग्लायते बुद्धिर्निद्रया वा परीयते ॥५६॥
तस्माद् विद्वानुपासीत बुद्ध्या साकारमेव तम् ।
अस्ति तस्य परोक्षं तदिति किञ्चिदनुस्मरेत् ॥५७॥
सर्वथाऽऽकारमुद्दिष्टं न परित्यज्य पण्डितः ।
परं देवमुपासीत मुक्तये वा फलाय वा ॥५८॥
मन्त्रैरावर्त्यमानैस्तु विष्णुपादसमाश्रयैः ।
स्वरूपं लक्ष्यते बुद्धौ तत्प्रसादेन नान्यथा ॥५९॥
भक्त्यर्थाः सर्वमन्त्राः स्युः स्तोत्राणि ध्यानमर्चनम् ।
सा यस्य हृदये तीव्रा स भक्तो नान्य इष्यते ॥६०॥
प्रियाणि देवदत्तानि कर्मजान्यप्रियाणि च ।
यः पश्येत् सततं बुद्ध्या स भक्तो नेतरो जनः ॥६१॥
तस्य योगमयं विद्यादाकारं सार्ववस्तुकम् ।
नित्यं भक्तानुकम्पार्थं ध्येयो मन्त्रमयस्तु सः ॥६२॥
यदा निवृत्तकर्मासौ निर्वाणे रमते बुधः ।
तदा सूक्ष्मशरीरं तं पूजयेत् पुरुषोत्तमम् ॥६३॥
शक्तयोऽस्यायुधाकारा विज्ञेया बाहवो दिशः ।
द्यौर्मूर्धा पृथिवी पादौ दृष्टिरर्को मनः शशी ॥६४॥
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुः पूज्यो नित्यं मनीषिभिः ॥६५॥
यदा यदा प्रसन्ना धीर्ध्यायेत् सूक्ष्मं तदा तदा ।
सीदन्ति संशयेनैव यतयोऽप्यत्र विक्लवाः ॥६६॥
आगमार्थं दृढं कुर्यात् सर्वविद्याभिरात्मवान् ।
विवेकेन च शुद्धेन नागमस्यैव संप्लवम् ॥६७॥
स्वगृह्ये धर्मशास्त्रे च यदुक्तं तत् सदाचरेत् ।
तन्त्रोक्तमविरुद्धे च कुलवर्णाश्रमानुगम् ॥६८॥
स्रीशूद्राणां तु सर्वेषां नौपनायनिकक्रिया ।
दीक्षोपनयनं तेषां तान्त्रिकश्च मनाग्विधिः ॥६९॥
तान्त्रिकास्तन्त्रमन्त्राः स्युर्विधयश्च तदाश्रयाः ।
मूलमन्त्रैश्च गायत्र्या वैदिकैश्च त्रिधा क्रिया ॥७०॥
विट्छूद्रयोर्नृपे विप्रे सर्वं वा विप्र इत्यते ।
होमादिषु स्वमन्त्राः स्युरनुलोमास्तु वा सदा ॥७१॥
चतुर्वर्णोद्भवाः सर्वे प्रतिलोमानुलोमजाः ।
तत्रानुलोमजाः श्रेष्ठा वर्ज्यास्तु प्रतिलोमजाः ॥७२॥
प्रतिलोमेषु सर्वेषु सूत एकस्तु गृह्यते ।
नार्हन्त्येवेतरे दीक्षां वर्णाश्रमबहिष्कृताः ॥७३॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।
चतुर्धाऽऽश्रमिणो भिन्नाः पुनश्चारभेदतः ॥७४॥
तत्राद्यो ब्रह्मचारी च लिङ्गी शिष्य उपासकः ।
अक्षारलवणाशी यो भैक्षाहारो मिताशनः ॥७५॥
स्थण्डिलाजिनशायी च ब्रह्मचारी स उच्यते ।
एवं कर्माणि यः कुर्याच्चक्रादिकृतलक्षणः ॥७६॥
देवताराधने सक्तः स लिङ्गीति प्रकीर्तितः ।
भैक्षमात्रेण जीवन् यः पठेच्छुश्रूषुरर्चकः ॥७७॥
नान्यकार्यपरो नित्यं स शिष्यः परिकीर्तितः ।
त्रिसन्ध्यं पूजयन् देवं नान्यकार्यपरश्च यः ॥७८॥
त्रिः स्नात्वाऽनुचरेन्नित्यं गुरुं स स्यादुपासकः ।
व्रती गृहस्थ एवाढ्य आचार्यो गृहिणस्त्विमे ॥७९॥
चत्वार इह सम्प्रोक्तास्तथैवाचारभेदतः ।
व्रतोपवासी नक्ताशी नियतार्चो जितेन्द्रियः ॥८०॥
ऋतुगामी मिताहारो व्रती मूलपरः सदा ।
यज्ञाध्ययनदेवार्चाशिष्यादिभरणोद्यतः ॥८१॥
गृहस्य इति विज्ञेयः स्वदारव्रतिको नरः ।
सर्वातिथ्यपरो नित्यं कामभोजी सुखान्वितः ॥८२॥
देवोत्सवपरो भक्तः पर्वयाज्याढ्य उच्यते ।
याजनाध्यापने युक्तो यागे वैदिकतान्त्रिके ॥८३॥
नित्ययाजी जितकोध आचार्योऽनुग्रहोन्मुखः ।
तथा वैखानसस्तन्त्री गुरुर्निष्कल एव च ॥८४॥
वानप्रस्थश्चतुर्धैव तन्त्रेऽस्मिन् परिकीर्तितः ।
अक्षारलवणाशी यो व्याख्याता पुत्रदारवान् ॥८५॥
स्थण्डिलाजिनशायी च ध्यायन् वैखानसः सदा ।
वन्यवृत्तिस्रिसन्ध्यार्ची जपहोमपरायणः ॥८६॥
वल्कलाजिनवस्तन्त्री दर्भशायी जपन् सदा ।
त्रिः स्नायी नियतावासश्चीरी मूलफलाशनः ॥८७॥
तीर्थस्नातोऽर्चयन् ध्यायन् द्विषट्कजपवान् गुरुः ।
यदृच्छालाभसन्तुष्टो नक्तभोजी दृढव्रतः ॥८८॥
चीरी विमत्सरो मौनी निष्कलोऽह्नस्त्रिरर्चयन् ।
हंसः परमहंसश्च भगवान् प्रभुरित्यपि ॥८९॥
चतुर्विधः समाख्यातस्तन्त्रेऽस्मिन् दीक्षितो यतिः ।
शङ्खचक्रधरो नित्यमेकदण्ड्येकभैक्षभुक् ॥९०॥
सदार्ची कर्मविद् ध्यानी हंसो जपपरः सदा ।
अद्वैतनिरतो दण्डी ज्ञानध्यानपरायणः ॥९१॥
शान्तोऽशिखोपवीतश्च भैक्षाहारो व्रतस्थितः ।
यतिः परमहंसः स्यात् तन्त्रकर्मणि निष्ठितः ॥९२॥
शङ्खचक्रबृसीशिक्यकमण्डलुपवित्रवान् ।
त्रिदण्डी पात्रवान् भिक्षुर्भगवान् योगपट्टभृत् ॥९३॥
एतान्येव वहन् नित्यं छत्रं प्रतिकृतिं तथा ।
चक्रयागेन देवेशमर्चयन् नियतात्मवान् ॥९४॥
त्रिसन्ध्याराधने युक्तः सत्त्वस्थो जपवान् प्रभुः ।
विषुवायनयोर्जन्मद्वादशीश्रवणेषु च ॥९५॥
अष्टम्यां च नवम्यां च पञ्चम्यां न स्त्रियं व्रजेत् ।
मूलेन परिषिच्यान्नं स्पृष्ट्वा पीत्वा जलं तथा ॥९६॥
ध्यात्वाऽन्तः पुरुषं मौनी दीप्तवैश्वानरं तथा ।
प्रणवेनाहुतीः पञ्च कुर्यात् पञ्चात्मने ततः ॥९७॥
वक्त्रमात्रं ग्रसेत् पिण्डं न हसेन्नोद्विजेत वा ।
त्यजेत् सर्वत्र चापल्यं भोक्तव्यं शब्दवर्जितम् ॥९८॥
श्वोदक्यान्त्यजपाषण्डिकाकदेवलुकुक्कुटान् ।
कारुकान् वा तदा पश्यन् स्नायात् त्यक्त्वाऽन्नमज्जसा ॥९९॥
पञ्चोपनिषदो जप्त्वा प्रोक्षयेत् प्रणवेन च ।
विष्णुश्चाथ महाविष्णुः सदाविष्णुरिमे त्रयः ॥१००॥
सवनेषु क्रमात् पूज्या जपध्यानादिभिः सदा ।
प्रातस्तु विष्णुगायत्री मध्याह्ने द्वादशाक्षरम् ॥१०१॥
सायमष्टाक्षरं नित्यं मूलं वा सर्वदा जपेत् ।
उत्थायानु गरुं स्नात्वा ध्यात्वा देवं प्रपूजयेत् ॥१०२॥
निर्गच्छेत् सव्यपादेन प्रविशेच्चालयं पुनः ।
गुरोरनुज्ञया भैक्षं चरेत् पात्रेण शं वदन् ॥१०३॥
गुरवे दर्शयित्वा तु विन्यसेत् तदनुज्ञया ।
आचम्य मूलमन्त्रेण हुत्वाऽग्नौ समिधः शुचिः ॥१०४॥
आसने सुखमासीनः पादौ विन्यस्य भूतले ।
पात्रं च वामहस्तेन स्पृशन् प्राणाहुतीश्चरेत् ॥१०५॥
यद्युत्तिष्ठेदनाचान्तो भुक्तवानासनाद् द्विजः ।
स्नानं सद्यस्तु कर्तव्यं तस्मात् तत्रैव चाचमेत् ॥१०६॥
सन्ध्यामुपास्य भूयोऽपि हुत्वा च समिधस्तथा ।
अर्चयित्वा हरिं भिक्षां चरेत् पूर्ववदेव च ॥१०७॥
एवं प्रातश्च सायं च गुरोर्वचनमास्थितः ।
गुरोरनुज्ञया पश्चाद् गृहस्थाश्रममाश्रितः ॥१०८॥
स्नात्वा तमर्चयेन्नित्यं ततः कर्माणि चाचरेत् ॥१०९॥
॥इति विष्णुसंहितायामेकोनत्रिंशः पटलः॥
N/A
References : N/A
Last Updated : January 01, 2021
TOP