विष्णुसंहिता - त्रयोविंशः पटलः
विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.
अथ वक्ष्यामि संक्षेपाद् विश्वार्चां सर्वभूतिदाम् ।
दिग्विभागसमायुक्तां सर्वलोकहिताय वै ॥१॥
विधिवत् स्थापिते देवे यथान्यायं प्रपूजयेत् ।
कर्तव्या विश्वदेवार्चा वृद्ध्यर्थं सर्वदाऽपि वा ॥२॥
मध्ये साङ्गं यजेद् विष्णुं दिग्विदिक्षु ततः सुरान् ।
पूर्वादौ पुरुषं सत्यमच्युतं चानिरूद्धकम् ॥३॥
विश्वरूपं च वैकुण्ठं सर्वं भावनमेव च ।
विद्याधिपतयश्चैते शङ्खचक्रगदाधराः ॥४॥
विष्णुरूपाः सदा पूज्याः सगणास्तु पृथक् पृथक् ।
शक्तयोऽष्टौ भृशादिस्थाः सुरूपाः सर्वकामदाः ॥५॥
प्रज्ञा बुद्धिः स्मृतिः कीर्त्तिः श्रुतिर्मेधा धृतिः क्षमा ।
शङ्खः सुदर्शनहलौ गदामुसलखड्गकाः ॥६॥
धनुः स्रगुत्तमा चाष्टौ दिग्विदिक्षु च तद्बहिः ।
वज्रदण्डत्रिशूलानि पाशोऽस्त्राणि तथैव च ॥७॥
ततः शक्तिश्च शस्त्राणि वैष्णवास्त्रं भृशदिषु ।
अस्त्रावरणमेवं तु शूलं सपरशुं यजेत् ॥८॥
इन्द्रो यमश्च वरुणः सोमोऽग्निर्निर्ऋतिस्तथा ।
वायुरीशान इत्यष्टौ लोकपालास्तु तद्बहिः ॥९॥
आदित्या विश्वदेवाश्च मरुतो विघ्ननायकाः ।
स्कन्दो रुद्राश्च वसवश्चाश्विनौ च भृशादिषु ॥१०॥
बहिर्ग्रहगणाः पूज्याः पितृयक्षगणास्तथा ।
गन्धर्वाः सर्वभूतानि चाम्बिका राक्षसास्तथा ॥११॥
विद्याधराश्च सिद्धाश्च पूज्याः सर्वे स्वनामभिः ।
ततोऽप्सरोलोकमातृकूष्माण्डाश्च पिशाचकाः ॥१२॥
नागाश्च किन्नराः सर्पा व्याधयश्च भृशादिषु ।
नन्दनः कुमुदश्चाथ द्वाःस्थौ दक्षिणवामयोः ॥१३॥
गृहगोपुरमध्येऽर्च्यो ध्वजोऽश्वस्तद्भृशान्तरे ।
रथो गृहेन्द्रमध्ये स्यात् पर्जन्येन्द्रे खगेश्वरः ॥१४॥
पुंशङ्खमध्यगः पूज्यः सुवर्चाः कलशाधिपः ।
पुरप्रासादमध्येऽर्च्यो बलाख्यो मण्डपाधिपः ॥१५॥
भाण्डागारेऽक्षयः पूज्यो जलस्थाने तथा नरः ।
सभास्थानेऽद्भुतो वृद्धिकरश्चाथ महानसे ॥१६॥
उन्मादः पचनागारे तर्पणो भोजनालये ।
कुन्दरः कुसुमागारे निर्गमे विक्षरस्तथा ॥१७॥
बलश्चातिबलश्चोभौ पीठेऽर्च्यौ बलिरक्षकौ ।
विकटश्च विरूपाक्षः पूर्वगोपुरपालकौ ॥१८॥
द्वाःस्थौ दक्षिणवामस्थौ भीमरूपौ गदाधरौ ।
सनातनश्च सनको दक्षिणद्वारपालकौ ॥१९॥
पूजनीयौ प्रयत्नेन खङ्गमुद्गरधारिणौ ।
दण्डपाशधरौ शान्तप्रमोदौ चैव पश्चिमे ॥२०॥
उत्तरे सर्वदः सर्वदमनश्चापतूणिनौ ।
चरको बहिरीशाने विदारोऽग्नौ तु पूतनः ॥२१॥
नैर्ऋते वायुबाह्ये तु राक्षसः पापचारकः ।
बलिपीठाधिपः प्राच्यां देवो नन्दिकरो यमे ॥२२॥
पश्चाद् विभीषणः सौम्ये सुलभस्थानपालकाः ।
येऽनुक्ता मातरोऽनन्तो विष्वक्सेनो ध्वजाधिपाः ॥२३॥
रेवन्तः क्षेत्रपालाश्च ते पूज्यास्तत्र तत्र वै ।
स्थितासीने चतुष्षष्टिः सुप्ते तेऽशीतिरेकिनी ॥२४॥
सामान्यं तु शतं त्रेधा प्राकारान्तर्विभाजनम् ।
अन्तश्चतुष्कं प्रासादं द्विगुणं च प्रकल्पयेत् ॥२५॥
दक्षिणे नन्दनं द्वाःस्थं चतुर्बाहुं गदाधरम् ।
तथैव कुमुदं कुर्याद् वामे पट्टसपाशिनम् ॥२६॥
अङ्गुल्यर्धार्धयुग् वामे कुर्यादालयमासने ।
शते पादप्रविष्टाः स्युः परिवारालयाः पृथक् ॥२७॥
यथैव तु चतुष्षष्टौ संगमस्थाः सुराः पृथक् ।
तथा शतपदे प्रोक्ता गर्भादिपरिकल्पना ॥२८॥
चतुर्थे सङ्गमेऽर्यम्णो विवस्वन्मित्रभूभृताम् ।
पुरुषाद्यालयं कुर्यात् सावित्राद्याद्यसङ्गमे ॥२९॥
विश्वादीनां क्रमादेवं स्थानानि परिकल्पयेत् ।
तृतीये सङ्गमेऽर्यम्णः पञ्चमे तु विवस्वतः ॥३०॥
तृतीये तस्य मित्रस्य पञ्चमेऽस्य तृतीयके ।
भूभृतः पञ्चमे तस्य तृतीयेऽर्यमपञ्मे ॥३१॥
प्रज्ञादीनां क्रमादेवमालयाः परिकीर्तिताः ।
शङ्खादयोऽर्यमादीनां चतुर्णामाद्यसङ्गमे ॥३२॥
मुसलाद्यालयाश्चैवं सावित्राद्याद्यसङ्गमे ।
सङ्गेऽर्यमसवित्रादिद्वादशानां द्वयोर्द्वयोः ॥३३॥
किञ्चित्सूत्रं विमुच्याथ वज्राद्यस्त्राणि कल्पयेत् ।
वज्रदण्डादयोऽस्त्रैः स्वैः स्थाप्या भूतगणैः सह ॥३४॥
भान्विन्द्रसङ्गमाद्यष्टस्थानेष्विन्द्रादिलोकपाः ।
सङ्गे भृशखयोर्गेहक्षतवैतथयोस्तथा ॥३५॥
गन्धर्वभृङ्गयोश्चैव द्वाः स्थसुग्रीवयोस्तथा ।
श्वासशोषणयोर्नागमुख्ययोर्दित्यृकाख्ययोः ॥३६॥
जयपर्जन्ययोश्चान्ये सम्पूज्या देवतागणाः ।
बाह्येऽर्कयमवारीशसोमानां तु ग्रहादयः ॥३७॥
अग्नेः पितॄणां रोगेशो(शाद्)र्बहिः स्युश्चण्डिकादयः ।
खबाह्येऽप्सरसः पूष्णि पितृभद्रविनायकाः ॥३८॥
कूष्माण्डास्तु मृगे द्वार्स्थे पिशाचाः शोषणेऽहयः ।
मुख्ये तु किन्नराः सर्पा व्याधयस्त्वर्गळे शिवे ॥३९॥
सत्ये रङ्गं जलस्थानं पर्जन्ये कारयेद् बुधः ।
चरकस्य विदारस्य पूतनस्य च रक्षसः ॥४०॥
ईशाग्निपितृरोगाणां बाह्ये कोणे स्मृता गृहाः ।
तद्वाह्यतस्तु मर्यादाभित्तिरुच्छ्रितगोपुरा ॥४१॥
बलिपीठं तु कर्तव्यं शास्त्रतो गोपुराद् बहिः ।
शक्रगोपुरमध्ये तु ध्वजस्थानं विधीयते ॥४२॥
तत्राश्वरथतार्क्ष्याणामालयाः परितः क्रमात् ।
शङ्खगोपुरमध्यस्थः कर्तव्यः कलशाधिपः ॥४३॥
तथा पुरप्रसादान्तः स्थितः स्यान्मण्डपाधिपः ।
भल्लाटसङ्गमे चैव भाण्डागारं प्रकल्पयेत् ॥४४॥
महेन्द्र तु सभास्थानं सत्ये स्याद् भोजनालयः ।
पूष्णि पाको मृगे पुष्पं पुष्पदन्तेऽम्बुनिर्गमः ॥४५॥
सत्ये वा स भवेत् कूपः कर्तव्योऽदितिगोचरे ।
असुरे तु बलिस्थानं गन्धो रोगे प्रकीर्तितः ॥४६॥
ईशोऽग्निः पितरो रोग इति देवास्तु कोणगाः ।
अर्गले क्षेत्रपालस्य भृङ्गे वै शास्तुरालयः ॥४७॥
एष पूर्वमुखस्योक्तो विधिर्विश्वार्चने हरेः ।
ध्वजादि विपरीतं स्यात् पश्चिमाभिमुखस्य तु ॥४८॥
असुरे स्यात् तदा रङ्गं सत्ये च बलिमण्डपः ।
महेन्द्रे जलमार्गः स्यादयं शतपदे विधिः ॥४९॥
सङ्गमस्थास्तु चत्वार इतरे सङ्गमेश्वराः ।
एतावांस्तु चतुष्षष्टौ विशेषोऽत्र प्रकीर्तितः ॥५०॥
कुमुदः करवीरश्च द्वारपालौ चतुर्भुजौ ।
पुरतः सङ्गमेऽर्यम्णश्चतुर्थे गरुडालयः ॥५१॥
सुभद्रस्य सुबाहोश्च विजयस्य बलस्य च ।
कुमुदस्य मुनेश्चैव विष्वक्सेनस्य चालयाः ॥५२॥
आग्नेयादिषु कर्तव्या गणेशानां प्रकीर्तिताः ।
सर्वे चतुर्भुजाः कार्या गदाचक्रासिधारिणः ॥५३॥
सुवर्णशङ्खनीलाभ्रकृष्णपिञ्जरगौरकाः ।
श्यामश्च तेऽर्यमादिस्था लोकपालाश्च कीर्तिताः ॥५४॥
प्राकारस्थास्तु कर्तव्याः क्षेत्रपर्यन्तदेवताः ।
भानोस्तु पुरतश्चक्रं ततो गोपुरपीठके ॥५५॥
ततश्चतुर्षु कोणेषु रक्षसां स्थानमुच्यते ।
एकाशीतौ च परितः पदं त्रित्रिकसंख्यया ॥५६॥
गणेश्वरा दिवगीशाश्च कर्तव्याः स्वपदस्थिताः ।
शेषं कुर्याद् यथोद्दिष्टं विष्णोरावरणक्रमम् ॥५७॥
बहिः प्राकारकोणस्थाः कर्तव्या रक्षसां गृहाः ।
गोपुरादि च कर्तव्यं बलिपीठान्वितं तथा ॥५८॥
एवमेव विधानेन कृत्वा विष्णोरिहालयम् ।
सर्वकामानवाप्नोति गच्छेद् विष्णुपदं पुनः ॥५९॥
शङ्खचक्रगदाखड्गमुसलं हलमेव च ।
चापोऽङ्कुशं स्रगेतेषामालयाश्चात्र कीर्तिताः ॥६०॥
पयोहेमखनीलासृक्पद्माभ्राग्नितडित्प्रभाः ।
मूर्ध्नि स्वाङ्कसमायुक्ताः कर्तव्या हरिहेतयः ॥६१॥
पूर्वास्त्वप्रतिचाल्याः स्युरितराश्चास्थिराः शुभाः ।
अन्योन्याभिमुखाः कार्यास्तथान्ये दक्षिणोत्तराः ॥६२॥
स्थानेश्वरस्य देवस्य यत् पूर्वकृतमास्पदम् ।
तस्य प्रतिमुखे कार्यं नान्यास्पदमशत्रुभिः ॥६३॥
अज्ञानादिह यः कुर्यान्नश्येत् स्थानं श्रिया सह ।
अन्योन्याभिमुखे चोभे न कार्ये देवतागृहे ॥६४॥
अन्योन्यपृष्ठसंस्थे च राजराष्ट्रादिनाशने ।
नानुपृष्ठं तथा कुर्यात् कृते चान्यो निषिच्यते ॥६५॥
व्यत्यस्तमेकसूत्रस्थं न कुर्यादेव सर्वथा ।
यतोमुखः प्रधानः स्याद् देवाश्चान्ये ततोमुखाः ॥६६॥
कर्तव्याः परिवारास्तु प्रधानाभिमुखाः सदा ।
एकसूत्रं तथाक्रम्य विपरीतं न कारयेत् ॥६७॥
अन्योन्यं दक्षिणाक्षिभ्यां प्रशस्तं दर्शनं द्वयोः ।
अप्रशस्तं च विज्ञेयं तथा वामाक्षिदर्शनम् ॥६८॥
परिवारविधौ चापि सूत्रमाक्रम्य नाचरेत् ।
अङ्गुलं गोलकं वाऽपि परिहृत्यैव कारयेत् ॥६९॥
आसनं ग्राममध्ये तु पूर्वतोमुखमिष्यते ।
ग्रामस्याभिमुखं त्वेवं स्थानं पूर्वे च पश्चिमे ॥७०॥
शयनं दक्षिणस्यां तु कर्तव्यं पश्चिमामुखम् ।
उत्तरस्यां तु शयनं पूर्वतोमुखमेव च ॥७१॥
क्षेत्रभागवशादेव कर्तव्यं त्वन्यथामुखम् ।
देवाग्रे दक्षिणेनाथ सर्वतो वा जलाशयाः ॥७२॥
न रुद्राभिमुखं कुर्याद् ग्रामं नगरमेव वा ।
नोच्चस्थानगतं चैव दुर्गादिस्थानमिष्यते ॥७३॥
यत्र नीचे स्थितो विष्णुरुच्चैरन्याश्च देवताः ।
विनश्येदचिरादेव तत् स्थानं राष्ट्रमेव वा ॥७४॥
अरण्ये पर्वते तीर्थे नदीतीरे च सङ्गमे ।
क्षेत्रे च श्रद्धया कुर्याद् युक्त्या भूम्यादिसङ्ग्रहम् ॥७५॥
देवभागस्थितं देवं स्वयं तद्भागसंस्थितः ।
अर्चयीत प्रयत्नेन पैशाचासुरवर्जितम् ॥७६॥
ब्रह्मस्थानगतं वाऽपि देवदेवं समर्चयेत् ।
देवभागस्थितस्त्वेव द्रव्यैस्तद्भागसंस्थितैः ॥७७॥
विदिक्सूत्रं परित्यज्य दक्षिणं पार्श्वमाश्रितः ।
अर्चयेत् तं प्रयत्नेन यस्तु सिद्धिमभीप्सति ॥७८॥
जपं सम्पुटविन्यस्तं देवपार्श्वे निधापयेत् ।
अथवा जप्तमात्रं तु दद्याद् भगवते सदा ॥७९॥
ब्रह्मसूत्रं परिहरेत् पूजनाजपकालयोः ।
अविघ्नो भवति ह्येष जपार्चनविधिः सदा ॥८०॥
एवं क्रमेण यो विष्णुमर्चयेद् भक्तिसंयुतः ।
स भोगानीप्सितान् भुक्त्वा विष्णोर्याति सलोकताम् ॥८१॥
एवमिष्टवा यथान्यायं सर्वदेवगणान्वितम् ।
ततः स्वशक्तियोगेन विष्णोः स्नानं समाचरेत् ॥८२॥
सर्वदेवार्चना होमः कर्तव्यश्च स्वनामभिः ।
सर्वेषां समिदाज्यान्नैर्हविषाऽऽज्येन वा पृथक् ॥८३॥
भूतेभ्यश्च बलिं द्याच्छक्त्या विप्रांश्च भोजयेत् ॥८४॥
॥इति विष्णुसंहितायां विश्वार्चनं नाम त्रयोविंशः पटलः॥
N/A
References : N/A
Last Updated : January 01, 2021
TOP