संस्कृत सूची|संस्कृत साहित्य|संहिता|विष्णुसंहिता| द्वितीयः पटलः विष्णुसंहिता प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः विष्णुसंहिता - द्वितीयः पटलः विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत. Tags : samhitasanskritvishnuविष्णुसंस्कृतसंहिता द्वितीयः पटलः Translation - भाषांतर अथ वक्ष्यामि संक्षेपात् तन्त्रव्याख्यानमादितः ।येन सम्यक्कृतेनेह सिद्धिर्भवति शाश्वती ॥१॥दीक्षाभिषेकवान् भक्तो ब्राह्मणः समयस्थितः ।परानुग्रहवान् वाग्ग्मी सिद्धः सिद्धान्तपारगः ॥२॥वादजल्पवितण्डाभिः परतन्त्रविघातकृत् ।सर्वलक्षणसम्पन्नः सत्यवादी दृढव्रतः ॥३॥निर्दोषो योगविद् दान्तः कर्मज्ञः कालवित्तमः ।व्याचक्षीतोपसन्नेभ्यः स्वशिष्येभ्यो विशेषतः ॥४॥दीक्षितेभ्यो विनीतेभ्यो भक्तेभ्यश्चापि यत्नतः ।द्विजेभ्योऽधीतवेदेभ्यः श्रद्दधानेभ्य एव च ॥५॥अभिवाद्य गुरुं शिष्यः सुखासीनः प्रयत्नवान् ।पठेत् प्रणवपूर्वं तु शृणुयाच्च पूनर्गुरोः ॥६॥अभ्यसेच्च द्विजैरेव तादृशैर्दीक्षितैः सह ।ज्ञात्वेवमभिषिक्तस्तु परेभ्यः प्रतिपादयेत् ॥७॥दीक्षयेच्च ततः शिष्यान् कुर्याच् स्थापनादिकम् ।दीक्षितोऽपि न शूद्रस्तु पठेच्च शृणुयात् तथा ॥८॥गुरुदत्तं जपेन्मन्त्रमर्चयेत् स्थण्डिले च सः ।व्याख्यास्थापितदेवार्चाहोमेष्वस्य न कर्तृता ॥९॥दीक्षितस्यापि किन्त्वेष कामं विप्रैस्तु कारयेत् ।सर्वेऽर्था येन तन्यन्ते त्रायन्ते च भयाज्जनाः ॥१०॥इति तन्त्रस्य तन्त्रत्वं तन्त्रज्ञाः परिचक्षते ।वेदमूलतया तन्त्रमाप्तमूलतयाऽथवा ॥११॥पुराणवत् प्रमाणं स्यात् तथा मन्वादिवाक्यवत् ।दृष्टानुमोपमाशाब्दैरर्थापत्त्या च पञ्चधा ॥१२॥सर्वेऽप्यर्थाः प्रतीयन्ते यदि नाभासता भवेत् ।दृष्टमक्षोद्भवं ज्ञानं शब्दादिविषया मतिः ॥१३॥प्रमाणं विषयाक्षादिदोषैराभासता स्मृता ।ततः सामान्यतो दृष्टं पूर्ववच्छेषवत् त्रिधा ॥१४॥अनुमानं भवेद् भाविभूतार्थज्ञानसाधनम् ।उपमा यत्र सादृश्यादुपमेयार्थदर्शनम् ॥१५॥याऽर्थादापद्यते सेयमर्थापत्तिरिहेष्यते ।वेदतन्त्रादिभेदेन शाब्दं तु बहुधा स्मृतम् ॥१६॥स्वयंप्रकाश एकेषामात्माऽन्यैरनुमीयते ।प्रकृतिश्च विकृत्योभावागमैर्विधैरपि ॥१७॥निष्कलः सकलैर्भावैः सृष्टैः स्रष्टाऽनुमीयते ।ज्ञात्वैवं सृज्यते सर्वमिति सर्वज्ञ एव सः ॥१८॥आप्तप्रोक्ततया तन्त्रं प्रमाणमिति ये विदुः ।वेदप्रामाण्यमप्याहुराप्तमूलतयैव ते ॥१९॥तच्छैववैष्णवब्राह्मसौरकौमारभेदतः ।पञ्चधा भिद्यते तन्त्रं वक्तॄणां च विशेषतः ॥२०॥विष्णोर्धर्मप्रवक्तृत्वात् तत्प्रोक्तं मनुवाक्यवत् ।ब्रह्मविष्णू हि धर्माणां प्रवक्तारौ बुधैः स्मुतौ ॥२१॥यथा तु वेदवृक्षस्य शाखाभेदा ह्मनेकशः ।तथा भेदाः समाख्याताः पञ्चरात्रस्य सूरिभिः ॥२२॥क्रियापाठविशेषैस्तु भिद्यन्ते ते पृथक् पृथक् ।तन्मूलानि च तन्त्राणि मुनिभिर्देवमानुषैः ॥२३॥बहुधा सम्प्रणीतानि तेनेदं बहुधा स्मृतम् ।तथा बहुविधेऽप्यस्मिन् पञ्चरात्रेऽतिविस्तरे ॥२४॥अभेदेन स्थितं तत्त्वमेकमेव तु नान्यथा ।गोचरं कुलमित्युक्तमनुष्ठानविशेषतः ॥२५॥तदेव ज्ञापकं तेषां देशिकत्वे न संशयः ।वैखानसाः सात्त्वताश्च विख्येकान्तिकमूलकाः ॥२६॥गोचरास्तु समाख्याता वासुदेवाद्यजाश्रयाः ।भिद्यन्ते पञ्चधैते तु गोचराः पारमार्थिकाः ॥२७॥अर्चनं सर्वकालं तु देवदेवस्य नित्यशः ।अयाचितोपपन्नेन कुटुम्बस्य च पोषणम् ॥२८॥वृत्तिभेदः क्रिया चेति यत्र वैखानसं कुलम् ।एककालं द्विकालं वा विष्णोराराधनं स्फुटम् ॥२९॥क्षत्रवृत्त्योपपन्नेन कुटुम्बस्य च पोषणम् ।नावर्तनं च सङ्ग्रामे सर्वशास्त्रेषु कौशलम् ॥३०॥एतैस्तु लक्षणैर्युक्ताः सात्त्वतास्ते प्रकीर्तिताः ।कृषिवाणिज्यगोरक्षा द्विकालं विष्णुपूजनम् ॥३१॥एतच्च दृश्यते यत्र शिखिनस्ते प्रकीर्तिताः ।शुश्रूषणं द्विजातीनां भैक्षवृत्त्या च वर्तनम् ॥३२॥सकृच्चाराधनं येषां ते ततैकान्तिकाः स्मृताः ।एककालं द्विकालं वा त्रिकालमथवा पुनः ॥३३॥अर्चनं देवदेवस्य मनोवाक्कायकर्मभिः ।अयाचितोपपन्नेन वर्तनं येषु दृश्यते ॥३४॥स्वशिष्याद् वर्तनं वाऽपि ते ज्ञेया मूलसंज्ञकाः ।प्रत्येकं पञ्चभिर्भेदैस्तान्यासन् पञ्चविंशतिः ॥३५॥तन्त्राणि पुनरेतेषामपर्यन्तः प्रविस्तरः ।भक्ताश्च भगवद्भक्ता दासाः पारिषदास्तथा ॥३६॥इति भागवतान्तोऽन्यो विभागश्चेह कीर्तितः ।भक्ता वर्णरताः शान्ता वैष्णवा ये त्वदीक्षिताः ॥३७॥दीक्षिता भगवद्भक्ता दासा वै नेष्ठिकाः स्मृताः ।पार्षदास्तत्क्रियैकस्थास्तन्निवेदितवृत्तयः ॥३८॥नित्यमातोद्यवाद्यैस्तु पूजका ब्रह्मचारिणः ।विप्रा भागवता ज्ञेयाः सर्वोत्कृष्टतमास्तु ते ॥३९॥समयी पुत्रकश्चैव साधको देशिको गुरुः ।इति दीक्षितभेदोऽन्यो विहितश्चेह विष्णुना ॥४०॥मण्डलं विधिनाऽऽलिख्य साङ्गमूर्तिं यथाविधि ।दर्शयेत् यमिहाचार्यः समयी नाम स स्मृतः ॥४१॥मण्डले देवमाराध्य साङ्गमूर्तिं यथाविधि ।दर्शयेत् स्वयमाचार्यः पुत्रको नाम स स्मृतः ॥४२॥प्रदर्श्य मण्डलं हुत्वा मन्त्रानग्नौ यथाविधि ।दीक्षयेद् यं गुरुः शिष्यं साधकः स तु मन्त्रभाक् ॥४३॥मण्डलाराघनाहोमविधानैरखिलैः क्रमात् ।दीक्षयेद् यं गुरुः शिष्यं स तन्त्रज्ञस्तु देशिकः ॥४४॥दीक्षितः समायाचारशीलवान् सर्वतन्त्रवित् ।अभिषिक्तस्तु विज्ञेयो गुरुर्ध्यानार्चनादिकृत् ॥४५॥वर्णेषु विप्रा विप्रेषु वैष्णवास्तेषु दीक्षिताः ।तेषु मन्त्रविदस्तेषु तन्त्रज्ञास्तेषु पूजकाः ॥४६॥तेषु च ग्रन्थवन्तोऽत्र पाठकास्तेषु तद्विदः ।तेषु सिद्धाश्च तेष्वेवमक्षिषिक्तो विशिष्यते ॥४७॥ततोऽनुग्रहकर्ताऽस्माद् व्याख्याताऽस्मात् स्वयं हरिः ।सङ्ग्रहादेवमाख्याता मया ते तन्त्रगोचराः ॥४८॥सेव्यास्तत् प्रेप्सुभिर्नित्यं विष्णोर्यत् परमं पदम् ।रात्रयो गोचराः पञ्च शब्दादिविषयात्मिकाः ॥४९॥महाभूतात्मका वाऽत्र पञ्चरात्रमिदं ततः ।अवाप्य तु परं तेजो यत्रैताः पञ्च रात्रयः ॥५०॥नश्यन्ति पञ्चरात्रं तत् सर्वाज्ञानविनाशनम् ।अध्येतव्यमतः श्रव्यमनुष्ठेयार्थमादरात् ॥५१॥प्रमाणप्रवरं तन्त्रं पञ्चरात्राख्यमीदृशम् ।एताभ्यः पञ्चरात्रिभ्यो व्यतिरिक्तं निरञ्जनम् ॥५२॥यदा पश्येत् परं तत्वं तदा मुक्तः स नान्यथा ।स एव देशिको ज्ञेयः संसारर्णवतारकः ॥५३॥स एव भगवान् विष्णुर्नाफलस्तदनुग्रहः ।॥इति विष्णुसंहितायां द्वितीयः पटलः॥ N/A References : N/A Last Updated : December 29, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP