विष्णुसंहिता - विंशः पटलः

विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.


अथ वक्ष्यामि संक्षेपादुत्सवस्य विधिं परम् ।
स्थापितोऽपि विना येन प्रसीदति न केशवः ॥१॥
अब्दमर्धं त्रिमासं वा मासं पक्षमसम्भवे ।
नवाहं वाऽपि सप्ताहं पञ्चाहं नेष्यते परम् ॥२॥
माघे वा मार्गशीर्षे वा चैत्रे वैशाख एव वा ।
पौषे वा फाल्गुने कुर्यादुत्सवं बहुविस्तरम् ॥३॥
प्रत्यब्दं नियतं कुर्याच्छक्त्या सर्वार्थसाधनम् ।
पुण्याहेनोत्सवारम्भे ध्वजस्थापनमाचरेत् ॥४॥
सप्ताह्निकचतुष्कादौ मङ्गलङ्कुररोपणम् ।
श्रवणान्तं तु संकल्प्य तीर्थस्नानावसानिकम् ॥५॥
कारयेदुत्सवं भक्त्या विष्णोर्विष्णुपरायणः ।
स्थापयेदुत्सवारम्भे ध्वजं गरुडलक्षणम् ॥६॥
दिक्षु चाष्टौ यथान्यायं पताकादीन् समुज्ज्वलान् ।
ध्वजोत्थाने कृते किञ्चिन्न विघ्नैरभिभूयते ॥७॥
कलशेन समं कार्यं ध्वजस्यारोहणं तदा ।
पूर्ववन्मण्डपं कृत्वा वेदिं च सुपरिश्रिताम् ॥८॥
अग्नेश्च जननं कुम्भमूर्त्तिपानां च कल्पनम् ।
ध्वजदण्डः समः कार्यो दृढो व्रणविवर्जितः ॥९॥
कर्मान्तरानियुक्तश्च न शुष्कः पतितः स्वयम् ।
पुष्यादियोगे सङ्ग्राह्यः सुलग्ने शकुनैः शुभैः ॥१०॥
ब्राह्मणैः स्वस्तिवाच्यादौ शुचिः स्नातः स्वलङ्कृतः ।
तथाविधैर्द्विजैर्युक्तो जयशब्दादिसंयुतः ॥११॥
मध्वाज्याक्तकुठारेण पूर्वोत्तरमुखो गुरुः ।
छित्वा वंशमुपानीय कलशैः स्नापयेच्छुभैः ॥१२॥
मृत्कषायौषधीतीर्थैर्गन्धपुष्पैश्च पूजयेत् ।
पताका च शुभा कार्या सिता तदवलम्बिनी ॥१३॥
स्याद् देवागारशिखरत्रिभागसमलम्बिनी ।
दर्भैरावेष्टिता घण्टा चामरादर्शसंयुता ॥१४॥
सम्मुखं लेखयेत् तत्र विनाताकुलनन्दनम् ।
आजानुनाभिकण्ठाग्रं सितपीतारुणासितम् ॥१५॥
दुर्निरीक्षं सुरैर्दैत्यैर्ज्वालान्वितविलोचनम् ।
अनन्ताद्यष्टनागेन्द्रधरं नीलाग्रनासिकम् ॥१६॥
सहस्रादित्यसंकाशं मनसाऽऽवाह्य विन्यसेत् ।
पूजयेद् गन्धपुष्पैश्च मन्त्रेणानेन मन्त्रवित् ॥१७॥
तारादिः पक्षिराजाय हुतान्तोऽष्टाक्षरस्तु यः ।
सम्बुद्धिरूप एव स्यादावाहनविसर्गयोः ॥१८॥
चन्दनस्रग्बलिध्यानैः शयनेऽभ्यर्च्य वासयेत् ।
होमं च विधिवत् कुर्याद् वर्गाद्यैः कादिशान्तगैः ॥१९॥
हुतान्तैः प्रणवाद्यैश्च तिलान् व्रीहिसमन्वितान् ।
चतुर्भिरक्षरैर्दिक्षु चवर्गानन्तरैर्विना ॥२०॥
अष्टोत्तरसहस्रं तु वैनतेयपदान्वितैः ।
आज्याक्तं होमयेत् सर्वं निवेद्यं च चतुर्विधम् ॥२१॥
बलिं च परितो दद्याद् भूतानां ध्वजवासिनाम् ।
अनेककोटिसंख्यानां भूतानां चापि पार्षदाम् ॥२२॥
प्रभातेऽभ्यर्चयित्वैवं ब्राह्मणांश्चैव तर्पयेत् ।
ध्वजवाहनभूतोऽसौ विष्णोर्विष्णुपराक्रमः ॥२३॥
सुपर्णः प्रीयतां मह्यं विनताकुलनन्दनः ।
इत्युच्चार्य ततो गच्छेद् देवतायतनं प्रति ॥२४॥
ध्वजमादाय तैः सार्धं देवमूर्त्तिधरैर्द्विजैः ।
वेदतूर्यादिनिर्घोषैः सुलग्ने स्तापयेद् ध्वजम् ॥२५॥
मुक्तागारुडहेमानि गर्त्ते विन्यस्य रोहयेत् ।
ओन्नमोऽष्टकुलानागभूषणाय नागशोणितलिप्ताङ्गाय सप्तपातालवासिजनविक्षोभणकराय महाशैलसञ्चालनायारुणकनीयसे पुरुषोत्तमवाहनाय विनतानन्दकराय त्रैलोक्यविक्षोभणाय देवदानवगन्धर्वोरगमथनायामृतमथनाय मातुरर्थे नागमोहनाय हन हन विघ्नान् नाशय स्वाहा ।
अनेन स्तितिमन्त्रेण स्तुत्वा तं विहगेश्वरम् ॥२६॥
सान्निध्यं कल्पयेत् तस्य पक्षिराजस्य सर्वदा ।
ततः प्रभृति तत्स्थानं नोपसर्पन्ति राक्षसाः ॥२७॥
पिशाचा दन्दशूकाश्च तस्मात् कार्योध्वजोच्छ्रयः ।
स्नपनं चात्रकर्तव्यं प्रासादस्य तथैव च ॥२८॥
कलशं पूरयेच्छुभ्रं फलैर्नानाविधैः शुभैः ।
सर्वधान्यैस्तथा शुक्लैः कुसुमैश्च सुगन्धिभिः ॥२९॥
तत्त्वानां तु यथा न्यासस्तदुक्तं प्रथमं तव ।
यजमानोऽनुगैः सार्धं ध्वजमन्दिरयोः पुनः ॥३०॥
प्रदक्षिणं त्रिधा कृत्वा गच्छेदवभृथं ततः ।
शुभं तीर्थं प्रविश्यात्र गङ्गामावाहयेत् पुनः ॥३१॥
देवि! विष्णुपदे! शुद्धे! सर्वपापव्यपोहिन! ।
नन्दिनीत्येव ते नाम नलिनी मालिनीति च ॥३२॥
दक्षापत्या च विहगी सर्वभूतप्रियेति च ।
शरणं त्वां प्रपन्नोऽस्मि पापान्यमोचय मा चिरम् ॥३३॥
ध्यात्वा जपन्निमं मन्त्रं वारि विक्षोभ्य पाणिना ।
मज्जेद् येऽन्येऽत्र मज्जन्ति सर्वे तु स्युरकल्मषाः ॥३४॥
मूलाङ्गैस्तर्पयेत् तत्र मुनीन् देवान् ऋषींस्तथा ।
पार्षदांश्च भवेत् तृप्तिस्तेषां द्वादशवार्षिकी ॥३५॥
दीक्षान्ते च प्रतिष्ठान्ते कुर्यादवभृथं तथा ।
सर्वतीर्थसमं पुण्यं भवत्येव न संशयः ॥३६॥
ध्वजानन्यांस्तथा स्थाप्य दिशापालाङ्कचिह्नितान् ।
स्वमन्त्रैः पूजयेद् दिक्षु सर्वेभ्यश्च बलिं हरेत् ॥३७॥
ग्रामवीथीश्च सम्मृज्य प्रोक्ष्य गन्धोदकैस्ततः ।
समन्ताद् विकिरेत् पुष्पैः शोभनैश्च सुगन्धिभिः ॥३८॥
ग्रामपर्यन्तदेशे च ग्रामान्तश्चत्वरेषु च ।
चैत्यारामेषु गोष्ठेषु देवतायतनेषु च ॥३९॥
तोरणैश्च पताकाभिर्मण्डलैश्चोपशोभयेत् ।
कदलीनालिकेरेक्षुपूगपुष्पफलद्रुमैः ॥४०॥
दीपप्रासादयन्त्रैश्च कुर्याच्छोभां समन्ततः ।
सवनेषु बलिं दद्याद् गन्धपुष्पादिसंयुतम् ॥४१॥
पूजयित्वा यथान्यायमुत्सवेषु विशेषतः ।
संस्नाप्य शुद्धतोयैश्च पयोदध्याज्यगन्धकैः ॥४२॥
गव्यैश्च नालिकेराद्भिर्लिप्त्वा गन्धैः सुयोजितैः ।
हृद्यैः सुधूपितैश्चित्रैः परिधाप्य नवैंशुकैः ॥४३॥
पुष्पैर्मनोहरैः पुण्यैर्विविधैश्च विशेषतः ।
मालास्रग्भिः समन्ताच्च सन्धूप्यायः पुरादिभिः ॥४४॥
सरत्नहेमभूषाभिर्भक्त्या दीपैश्च पूजयेत् ।
स्वादुभिः सोपदंशैश्च प्रभूतैराज्यसंयुतैः ॥४५॥
चतुर्विधैर्दधिक्षीरगुलाद्यैश्च निवेद्यकैः ।
गीतसङ्गीतवादित्रबहुलं भक्तहर्षणम् ॥४६॥
विविधान्नाद्यभूयिष्ठमुत्सवं कारयेत् ततः ।
कृत्वा नित्यबलिं दद्यात् तत्रोत्सवबलिं पुनः ॥४७॥
विशेषेण च कर्तव्यं सर्वमङ्गलसंयुतम् ।
स्त्रियो द्विजाश्च हृष्टाश्च भक्ताश्च जयपाठकाः ॥४८॥
देवस्य परितो गत्वा मुच्यन्तेऽखिलपातकैः ।
नृत्तगीतादिभिश्चात्र विशालं कुर्युरुत्सवम् ॥४९॥
शनैः प्रदक्षिणं गच्छेद् बलिं दद्याच्च देशिकः ।
यावन्त्युत्सवक्लृप्तानि दिनान्येवं समाचरेत् ॥५०॥
गन्धपुष्पाक्षतैः स्रग्भिः फलैश्च विविधैः शुभैः ।
किरेयुः कौतुकं भक्ताः कालचक्रमथापि वा ॥५१॥
एवं त्रिधा परिभ्रम्य षडहानि यथाविधि ।
सप्तमेऽह्वि ततः कुर्यात् पुष्पयागं हरिप्रियम् ॥५२॥
पूर्वेद्युर्भूशयो भूत्वा नियतात्मा हविष्यभुक् ।
उपोष्य निशि देवस्य कुर्यात् कौतुकबन्धनम् ॥५३॥
कर्मार्चां तु समाराध्य मण्डपे समलङ्कृते ।
प्ररोहघटिकाभिस्तु शरावैर्दिग्विदिग्गतैः ॥५४॥
वैष्णवैः कारयित्वा तु घृतारोपणमादितः ।
जयमङ्गलघोषैस्तु प्रदर्श्यादर्शमङ्गलम् ॥५५॥
जितं त इति बध्नीयात् कौतुकं दक्षिणे करे ।
आचार्यस्यापि कर्तव्यं तदा कौतुकबन्धनम् ॥५६॥
चामरैस्तालवृन्तैश्च वीजयेन्मङ्गलान्वितम् ।
शयने सन्निवेश्यार्चामनिर्वाणप्रदीपकैः ॥५७॥
रात्रिशेषं समासीत सन्धूप्यायः पुरादिभिः ।
प्रातः स्नात्वाऽर्चयित्वा च कृत्वा मङ्गलवाचनम् ॥५८॥
ग्रामप्रदक्षिणं चात्र पिष्टचूर्णानि कारयेत् ।
उलूखले नवे शुद्धे दूर्वादिभिरलंकृते ॥५९॥
वैष्णवीभिस्तु दासीभिर्द्विजैर्वा सुशुभानि तु ।
लिप्त्वाऽऽज्येन तु तामर्चां मूलबिम्बमथापि वा ॥६०॥
हेमचूर्णादिभिः सम्यक् परिमृज्य समन्ततः ।
हरिद्रमुद्गसम्मिश्रैर्भक्तानां मूर्ध्नि विन्यसेत् ॥६१॥
गन्धचूर्णैश्च विमृजेत् प्रतिमां तद्वदेव तु ।
स्नापयेद् वेदिकामध्ये पूरितैस्तीर्थवारिभिः ॥६२॥
गन्धतोयैश्च दातव्यं भक्तानां मूर्ध्नि तज्जलम् ।
दत्त्वा सुवर्णचूर्णं च पूजयेद् विधिना पुनः ॥६३॥
स्नात्वाऽऽचम्य पुनर्वेद्यां शोधितायां समन्ततः ।
चतुस्तोरणयुक्तायां विकिरेत् सर्षपाक्षतैः ॥६४॥
कलशैरङ्कुरैर्दीपैर्दर्पणाद्यैश्च भूषयेत् ।
दामानि लम्बयेत् तत्र मुक्तादामानि चाभितः ॥६५॥
कुम्भेशवर्धनीभ्यां तु कृत्वाऽऽदौ भूपरिग्रहम् ।
पूर्ववत् सूत्रयित्वाऽत्र कारयेत् पुष्पमण्डलम् ॥६६॥
पञ्चवर्णैः शुभैः पुष्पैरम्लानैश्च सुगन्धिभिः ।
मन्दारपीतकोरण्डैः पद्मबिल्वदलैरपि ॥६७॥
जपादिवर्जितैः शुद्धैर्यथावर्मविभागतः ।
मध्ये सकर्णिकं पदम्मष्टपत्रं सुशोभनम् ॥६८॥
षङ्भिर्द्वादशभिर्वाऽपि दलैर्युक्तं प्रकल्पयेत् ।
पीतैस्तु कर्णिका कार्या रक्तवर्णैस्तु केसराः ॥६९॥
हरितैः सन्धयश्चात्र शुक्लैरेव दलानि तु ।
भद्रकं वा लिखेत् तत्र चक्राब्जं वा यथारुचि ॥७०॥
बहिरावरणे चाष्टौ पद्मान्यष्टदलानि तु ।
मूर्त्तीनां चाथ देवीनां तथा पुष्पमयान्यथ ॥७१॥
मुद्राणां लोकपालानां तथैवावरणद्वये ।
आदिपद्मार्धमानेन मूर्त्तिपद्मानि कल्पयेत् ॥७२॥
तदर्धेन तु मुद्राणामिन्द्रादीनां प्रकल्पयेत् ।
तावता वैनतेयस्य विष्वक्सेनस्य चैव हि ॥७३॥
पश्चिमं वाहयेद् द्वारं वीथीश्च परितो भवेत् ।
पुष्पदन्तप्रदेशे स्यात् सञ्चारो मूर्त्तिदारिणाम् ॥७४॥
एवं पुष्पमयान्येव कुर्यात् पद्मानि सर्वशः ।
द्वारादिकं बहिः सर्वं यथाशोबं प्रकल्पयेत् ॥७५॥
योगपीठं तु सम्पूज्य सगात्रं सपरिच्छदम् ।
प्रतिमामादिपद्मस्य कर्णिकायां निवेशयेत् ॥७६॥
पूजयेत् पूर्ववद् देवं न्यासं कृत्वा यथाविधि ।
मूर्त्तिशक्त्यस्त्रलोकेशाः पूज्याः पद्मेषु तेषु च ॥७७॥
गन्धैः पुष्पैश्च धूपैश्च दीपैरन्नैश्च शोभनैः ।
पूजयित्वा यथान्यायमग्निकार्यं समारभेत् ॥७८॥
चतस्रः पालिकाः पूर्वमग्नेः कृत्वा चतुर्दिशम् ।
चतुरश्च चरून् कृत्वा यथावित्तानुसारतः ॥७९॥
पूर्ववत् संस्कृते वह्नौ चतुर्धैकं विभज्य वा ।
कृत्वोपस्तरणादीनि प्रथमं तु निवेदयेत् ॥८०॥
द्वितीयं जुहुयादग्नौ घृताक्तं प्राग्वदेव तु ।
तृतीयं परिवारेभ्यो दत्त्वाऽन्ते बलिमेव च ॥८१॥
चतुर्थं प्राशयेत साज्यं शेषं कृत्वा तु पूर्ववत् ।
हिरण्यं दक्षिणां दद्याद् ब्राह्मणांश्चैव भोजयेत् ॥८२॥
नृत्तगीतादिभिः स्तोत्रैर्वेदनादैश्च पुष्कलैः ।
पूजनैर्वैष्णवानां च प्रीणयेदखिलेश्वरम् ॥८३॥
द्वादश्यां श्रवणेऽप्येवं कुर्याद् यागं विचक्षणः ।
सप्तमे सप्तमे कुर्याद् विष्णुयागमतन्द्रितः ॥८४॥
संवत्सरं तथा कृत्वा विष्णुलोके महीयते ।
अयने विषुवे चैव सोमसूर्यग्रहे तथा ॥८५॥
संक्रमे विष्णुपञ्चम्यां कृत्वेष्टं प्राप्नुयात् फलम् ।
प्रथमे दिवसे रात्रौ कुर्याद् ग्रामप्रदक्षिणम् ॥८६॥
अह्नि प्रदक्षिणं कुर्याच्छेषेषु दिवसेषु च ।
बलिं च सर्वतो दद्याद् भूतेभ्योऽन्तर्बहिस्तथा ॥८७॥
परिभ्रमणकाले च मण्डलेषु बलिं हरेत् ।
कौतुकस्य पुरस्तात् तु गन्तव्यं बलिदायिभिः ॥८८॥
गन्धपुष्पादिसंयुक्तं जलदानसमन्वितम् ।
बलिविक्षेपणं कुर्याद् बलिमुद्रां च दर्शयेत् ॥८९॥
कुमुदादिध्वजेशानां पञ्चाशद्गणनायकाः ।
भवन्ति शतशस्तेषां तथैव च सहस्रशः ॥९०॥

॥इति विष्णुसंहितायां विंशः पटलः॥

N/A

References : N/A
Last Updated : January 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP