विष्णुसंहिता - अष्टमः पटलः
विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.
अथ वक्ष्यामि संक्षेपादग्निसंस्कारमुत्तमम् ।
प्राच्यां कुण्डमुदीच्यां वा स्थण्डिलं वाऽप्यसम्भवे ॥१॥
द्विहस्तमेकहस्तं वा चतुरश्रं त्रिमेखलम् ।
द्विमेखलं वा कुण्डं स्यादेकमेखलमेव वा ॥२॥
एककुण्डस्य मानार्धं खातमन्यत्र तत्समम् ।
द्वादशाष्टचतुर्भिः स्यादङ्गुलैर्मेखलोन्नतिः ॥३॥
सात्तविकी राजसी चात्र तामसी मेखलाः स्मृताः ।
चतुरङ्गुलविस्ताराः सर्वास्ता हस्तमात्रके ॥४॥
द्विगुणे द्विगुणा ज्ञेया योनिः पश्चिमतो भवेत् ।
चतुर्दशाङुला पश्चात् तन्नालं चतुरङ्गुलम् ॥५॥
अष्टाङ्गुलं भवेद् वृत्तं निर्वाहस्तु षडङ्गुलः ।
गजोष्ठसदृशोऽश्वत्थपत्राग्राकार एव वा ॥६॥
प्राजापत्या गजोष्ठाग्रा योनिरन्या तु वैष्णवी ।
कुण्डस्था वैष्णवी शक्तिः प्रकृतिस्त्रिगुणात्मिका ॥७॥
सा योनिः सर्वभूतानां सिद्धीनां च विशेषतः ।
प्राच्यां शिरः समाख्यातं बाहू दक्षिणसौम्ययोः ॥८॥
उदरं कुण्डमित्युक्तं योनिः पादौ च पश्चिमे ।
पदान्येकोनपञ्चाशत् कुण्डे सप्तविभाजिते ॥९॥
आदिहान्तां क्रमात् तेषु पदेषु परिकल्पयेत् ।
प्रणवं पूर्वमुद्दिश्य मेखलात्रितयेंऽशकान् ॥१०॥
व्यापिनं पुरुषं नादं स्मरेद् व्याप्तां च मातृकाम् ।
विसर्गं योनिमध्ये च ध्यात्वाऽग्नीषोमबिन्दुकम् ॥११॥
गर्भरूपा तु सा योनिर्मातृकेयं तदुद्भवा ।
पितृमर्त्यसुरांशस्थां प्रादक्षिण्येन पूजयेत् ॥१२॥
हकारं मध्यकोष्ठेऽन्त्यं विष्णुं जीवात्मकं तथा ।
गर्त्ताकारोदरा सेयं प्रकृतिर्गर्भभागिनी ॥१३॥
ज्ञातव्या साधकेनैवं परां सिद्धिमभीप्सता ।
गायत्री कुण्डरूपेयं चतुर्विंशतिधा स्थिता ॥१४॥
तारात्मकः पुमान् विष्णुरधिष्ठाताऽत्र कीर्तितः ।
नाभिगुह्यान्तरं विद्यादग्निस्थानं तु देहिनाम् ॥१५॥
तत्रैवाधीयते गर्भस्तत्र होमश्च सिद्धये ।
चतुर्विंशाङ्गुलं कुण्डं गायत्रीसंख्यया स्मृतम् ॥१६॥
चतुर्विंशतितत्त्वानि द्विहस्ते द्व्यङ्गुलानि तु ।
स्वराः पञ्चदशाधस्ताद् योनिः पञ्चदशाङ्गुला ॥१७॥
षोडशः सविसर्गोऽत्र नाभ्यन्ते संव्यवस्थितः ।
सैव शक्तिः परा विष्णोः परमामृतवाहिनी ॥१८॥
अग्नीषोमात्मिका दिव्या सर्वं ज्ञेयं च तन्मयम् ।
साग्निरूपेण संहारं सोमरूपेण चोदयम् ॥१९॥
करोति बिन्दुयुग्मस्था नित्यमेषा मदिच्छया ।
ब्रह्मलोकं स्थिता भित्त्वा गता मूर्ध्ना ममालयम् ॥२०॥
पितृयानं च वामे स्याद् देवयानं च दक्षिणे ।
मध्यमे ब्रह्मणो मार्गो मुक्तये सैवमीरिता ॥२१॥
साऽग्निरूपा व्रजत्यूर्ध्वं सोमरूपा व्रजत्यधः ।
वामदक्षिणतो हित्वा स्थिता व्याप्य जगत्त्रयम् ॥२२॥
इडा च पिङ्गला नाड्यौ वामदक्षिणपार्श्वयोः ।
सुषुम्नोर्ध्वगता नाडी मोक्षमार्गस्तु स स्मृतः ॥२३॥
तत्र चित्तं समाधाय धर्मधर्मविवर्जितम् ।
सर्वरोगविनिर्मुक्तो लयमायात्यसंशयम् ॥२४॥
एवं कुण्डशरीरं तु ज्ञातव्यं मातृकामयम् ।
लीयते विश्वमत्रेति कुण्डं तद्विश्वकुण्डनात् ॥२५॥
तस्मात् कुण्डेऽत्र होतव्यं विधिदृष्टेन वर्त्मना ।
सुसंस्कृते यथा क्षेत्रे फलं प्राप्नोति कर्षकः ॥२६॥
हुतभुक् च तथा ज्ञेयः संस्कृतः फलदो नृणाम् ।
यथैवाज्यस्य संस्कारः कर्तव्योऽग्नेस्तथैव च ॥२७॥
होतव्यं संस्कृते तस्मादग्नौ नासंस्कृते बुधैः ।
शिष्यस्यैव तु संस्कारो वह्नेराज्यस्य वाऽत्र यः ॥२८॥
नाग्न्यर्थस्तत्त्वतस्तस्मादिष्टो यागेषु सर्वथा ।
मथितं मणिजं वाऽथ श्रोत्रियागारजं तु वा ॥२९॥
शरावेणाग्निमानीय तमस्त्रेण तु शोधयेत् ।
संहारमुद्रया तस्य जीवमात्मनि योजयेत् ॥३०॥
शय्यां तु चिन्तयित्वाऽऽदौ धर्माधर्मादिसंयुताम् ।
वरास्तरणसंछन्नां धूपामोदाधिवासिताम् ॥३१॥
सुगन्धकुसुमाकीर्णां नानाद्रव्यैश्च शोभिताम् ।
ध्यायेल्लक्ष्मीं च वाग्रूपां भूषितां नवयौवनाम् ॥३२॥
साभिलाषामृतुस्नातां फुल्लपङ्गजधारिणीम् ।
एवं च चिन्तयेत् सौम्यं सदा प्रहसिताननम् ॥३३॥
रत्यर्थिनं समासक्तदृष्टिं देवीमुखाम्बुजे ।
एवंरूपावुभौ ध्यात्वा गन्धपुष्पैः प्रपूजयेत् ॥३४॥
देवस्य सुक्लमध्यस्थमग्निबीजं तु चिन्तयेत् ।
गर्भाशयप्रविष्टं तु तद्रक्तेन समन्वितम् ॥३५॥
देवं विसर्जयेत् पश्चात् गर्भाधाने कृते तथा ।
कुण्डभूतां ततो देवीं वह्निभूतं च तं स्मरेत् ॥३६॥
तत्पुंसवनसीमन्तजातनामाशनक्रियाः ।
हृदयादिभिरंष्टाष्ट हुत्वाऽऽज्यं कल्पयेत् क्रमात् ॥३७॥
वैषडन्तेन मन्त्रेण प्लुतान्तेन यथाविधि ।
पृथक् पूर्णाहुतिं दद्याद् गन्धपुष्पैश्च पूजयेत् ॥३८॥
प्रणवस्तु स्रुवो ज्ञेयो मातृका स्रुगिति द्वयम् ।
पुरुषप्रकृतित्वेन विज्ञातव्यं विचक्षणैः ॥३९॥
रत्निमात्रं स्रुवं कुर्याद् वर्तुलं द्व्यङ्गुलं मुखम् ।
गोष्पदं तु यथा मग्नमल्पपङ्के तथा भवेत् ॥४०॥
वर्तुलानन्तरग्रन्थिविष्कम्भेणाङ्गुलो भवेत् ।
दण्डस्तु वर्तुलाकारो ग्रन्थिवक्रादिवर्जितः ॥४१॥
क्रमात् तनूकृताग्रोऽधो नाडी स्याच्चतुरङ्गुला ।
स्वयं निपतितः शुष्को दग्धो भग्नश्च दन्तिना ॥४२॥
दुष्टदेशभवो वक्रः स्फुटितश्च सकोटरः ।
सक्षतः कृमिजुष्टोऽन्यवृक्षजश्चान्यतोमुखः ॥४३॥
स्रुवः स्यादभिचाराय स्रुग्वा तस्मान्न कारयेत् ।
क्षीरवृक्षोद्भवः शान्त्यै खादिरः सर्वकामदः ॥४४॥
ब्रह्मवर्चसकृद् ब्राह्मो जुहूर्ब्राह्मी सदा भवेत् ।
ऋग्वेदाद्यास्त्रयो वेदा ब्रह्माद्याश्चैव देवताः ॥४५॥
भूरादयोऽग्नयोऽवस्थाः सवनान्यक्षराणि च ।
प्रणवांशक्रमाद्दण्डग्रन्थिवृत्तेषु कल्पयेत् ॥४६॥
बाहुमात्रां स्रुचं सप्तषट्पञ्चाङ्गुलविस्तराम् ।
कारयेन्मध्यतो वृत्तं त्रिभागेन च खातयेत् ॥४७॥
तिर्यगूर्ध्वं समं तस्य बहिरर्धं तु शोधयेत् ।
अङ्गुलस्य चतुर्थाशं शैषार्धेऽर्धं तथाऽन्ततः ॥४८॥
खातस्य मेखलां रम्यां शेषार्धेन तु कारयेत् ।
कलाध्यर्धाङ्गुलायामं कण्ठं त्र्यंशैकविस्तृतम् ॥४९॥
चतुरङ्गुलविस्तारं मुखं पञ्चाङ्गुलं तथा ।
समायामं तु कर्तव्यं शुभं हंसमुखाकृति ॥५०॥
धाराकुल्या च तन्मध्ये वृत्तगर्तप्रवेशिनी ।
कण्ठे कनीयसी नाहं सुषिरं तस्य कल्पयेत् ॥५१॥
धारा स्यात्तदधोभागे दण्डमूले च युक्तितः ।
शेषं दण्डं सुवृत्तं च क्रमेणाग्रं तनूकृतम् ॥५२॥
प्रादक्षिण्याद् बिलस्यान्तर्न्यस्तव्याः षोडश स्वराः ।
दण्डेऽन्ये कोणतोऽन्तःस्था बिलपार्श्वाग्रगाः परे ॥५३॥
तया पूर्णाऽत्र दातव्या स्रुवसम्पुटगुप्तया ।
स्रुवेण केवलेनापि होमस्तत्सहितेन च ॥५४॥
स्रुचा नो स्रुवया? तारः केवलोऽपि हि सिद्धिदः ।
सृष्ट्यर्थोऽयं स्रुवस्तस्मात् तेनासीनस्तु होमयेत् ॥५५॥
स्थित्यर्थं स्रुक् तया पूर्णां तिष्ठन्नेव तु दापयेत् ।
गायत्री तु जुहूर्ब्राह्मी स्याच्चतुर्विशद्ङ्गुला ॥५६॥
दण्डाग्रेऽस्यां मुखाग्रेऽन्तर्गण्डयोराज्यवर्त्मनि ।
हृदयादीनि नेत्रान्तान्यङ्गानि परिकल्पयेत् ॥५७॥
तारोपस्तीर्णया नित्यं तया पक्वं तु होमयेत् ।
प्राणापानस्वरूपौ च स्रुक्स्रुवौ कथितावुभौ ॥५८॥
कर्तव्यौ नाभिसंलग्नौ प्राणस्थानं तु तद्विदुः ।
धूमस्तु नासिका ज्ञेया पार्श्वयोः कर्णचक्षुषी ॥५९॥
पूर्वापरं ललाटास्यं वह्निस्थानमिदं भवेत् ।
कृत्वोल्लेखादि गायत्र्या परिधायार्चितेऽनले ॥६०॥
पूर्ववत् पङ्कजं ध्यात्वा सर्वतत्त्वान्यनुक्रमात् ।
मध्ये जनार्दनं ध्यायेत् सूर्यकोटिसमप्रभम् ॥६१॥
आहुतीनां सहस्रेण तर्पयेत् तं शतेन वा ।
दश पूर्णाहुतीस्तत्र मूलमन्त्रेण होमयेत् ॥६२॥
दशांशेनेतरांश्चैव तर्पयेच्चरूणैव वा ।
नैत्यके तु विधिर्ह्येष कर्तव्यो दीक्षितैर्द्विजैः ॥६३॥
शोषदाहामृतप्लावकाठिन्यपरिकल्पनैः ।
तत्तद्बीजकृतैः शोध्यं वह्नेरायतनं सदा ॥६४॥
यत्परिस्तीर्यते दर्भैर्यत्प्रणीता निधीयते ।
यद्ब्रह्मा कल्प्यते चात्र सर्वं तद्विघ्नशान्तये ॥६५॥
स्निग्धे प्रदक्षिणवर्ते सुसमिद्धे हुताशने ।
विधूमे लेलिहाने च होतव्यं कर्मसिद्धये ॥६६॥
अल्पतेजाश्च रूक्षश्च शुक्लः कृष्णश्च योऽनलः ।
भूलेही विष्फुलिङ्गी च दुर्गन्धश्च न शस्यते ॥६७॥
रूपादिभेदतः काळी कराळी च मनोजवा ।
लोहिता चार्धधूम्रा च ज्वाला चाथ स्फुलिङगिनी ॥६८॥
विश्वरूपेति सप्तैता जिह्वा ज्ञेया हविर्भुजः ।
ताभिरस्य मुखं पूर्णं विदीर्ण सप्तजिह्वकम् ॥६९॥
लेलिह्यमानमुज्ज्वालं सदा ध्येयं जुहूषता ।
कर्षार्धं जुहुयादाज्यमन्नं ग्रासार्धमात्रकम् ॥७०॥
शुक्तिमात्राहुतीर्दध्नः क्षीरस्य मधुनस्तथा ।
यवतण्डुलशालीनां प्रसृतिः पृथुकस्य च ॥७१॥
लाजानां मुष्टिमात्रं तु फलानां स्वप्रमामतः ।
भक्ष्याणामभयामात्रं मूलानां खण्डनत्रयम् ॥७२॥
दूर्वाणां च त्रयं साग्रं सक्तूनां कर्षमात्रकम् ।
तिलानां सर्षपाणां च मुद्गानां चैव पञ्चकम् ॥७३॥
एकैकं चैव होतव्यं पुष्पाणां समिधां तथा ।
चतुर्गृहीतमापूर्य स्रुवेणाज्यं महास्रुचा ॥७४॥
पुर्णाहुतिस्तु दातव्या नित्यमच्छिन्नधारया ।
अरत्निमात्रमिध्माख्यं समित्पूगं घृताप्लुतम् ॥७५॥
पालाशं युगपन्नित्यं होतव्यमविकम्पितम् ।
स्रुवेणाज्यमुपस्तीर्य जुह्वां पिण्डद्वयं चरोः ॥७६॥
घृताभिघारितं पक्वं यत् साद्यन्तस्रुवाहुति ।
एवमेकैकपिण्डं तु पुनर्द्विरभिघारितम् ॥७७॥
प्रधानाहुतिहोमान्ते होतव्यं स्विष्टकृद् भवेत् ।
अन्यत् सर्वं घृताभ्यक्तं दक्षिणस्य करस्य तु ॥७८॥
जुहुयाद्देवतीर्थेन कनिष्ठामूलवर्तिना ।
स्रुवेणैव द्रवद्रव्यं दधिक्षीरादि सर्वदा ॥७९॥
होतव्यं विधिना सर्वमन्यथा दोषमाप्नुयात् ।
पूर्वं त्रिः क्षालितैः शालितण्डुलैरमलैश्चरुम् ॥८०॥
यन्त्रेणाग्नावदिश्रित्य श्रपयेद् व्यजनानिलैः ।
संस्कृत्य विधिना चाज्यं दर्भैः सम्मृज्य च स्रुवम् ॥८१॥
निधाय परिधीनद्भिः परिषिच्याग्निमर्चयेत् ।
इध्माघाराज्यभागेषु हुतेष्वाहूय देवताम् ॥८२॥
पक्वमन्यच्च होतव्यं समिदादि यथाक्रमम् ।
आघारवत् क्रमो ह्येष कर्तव्यः सिद्धिमीप्सता ॥८३॥
आधायाग्निं परिस्तीर्य संस्कृत्याभ्यर्च्य च क्रमात् ।
होतव्यमखिलैर्द्रव्यैरयमापूर्विको विधिः ॥८४॥
होमशेषं समाप्याथ विधिनोद्वास्य देवताम् ।
स्वशक्त्या दक्षिणां दद्यादेवं सिद्ध्यन्ति सिद्धयः ॥८५॥
सामान्येन समाख्यातमग्निकार्यमिदं मया ।
विसेषतस्तु कर्तव्यं तत्र तत्रैव वक्ष्यते ॥८६॥
॥इति विष्णुसंहितायामग्निकार्योऽष्टमः पटलः॥
N/A
References : N/A
Last Updated : December 29, 2020
TOP