संस्कृत सूची|संस्कृत साहित्य|संहिता|विष्णुसंहिता| चतुर्दशः पटलः विष्णुसंहिता प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः विष्णुसंहिता - चतुर्दशः पटलः विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत. Tags : samhitasanskritvishnuविष्णुसंस्कृतसंहिता चतुर्दशः पटलः Translation - भाषांतर अथ वक्ष्यामि संक्षेपात् प्रतिमालक्षणं परम् ।योनिसंस्थानभेदं च साधकानां हिताय वै ॥१॥रत्नलोहशिलाधातुमृत्काष्ठालेख्यभेदतः ।प्रतिमा सप्तधा ज्ञेया निर्दोषा रत्नलोहजा ॥२॥बहुदोषा शिला सा तु पुण्यशैलोद्भवेष्यते ।वारुण्यैन्द्री तथाऽऽग्नेयी वायवी भूश्चतुर्विधा ॥३॥आद्ययोर्या शिला सैषा निर्दोषाऽपि तु नान्ययोः ।निमग्ना भुवि या रम्या स्निग्धाऽर्ककिरणोज्झिता ॥४॥एकवर्णा सुवर्णा च सवर्णा चातिशोभना ।श्वेतब्जाभा मृगे ग्राह्या सौम्या विप्रस्य सा शिला ॥५॥ऐन्द्री रक्ता कुलस्थाभा ज्येष्ठायां क्षत्रियस्य तु ।फल्गुन्यां भगदेवत्या पीता वा हरिता विशः ॥६॥कृष्णा मुद्गनिभाऽश्विन्यां शूद्रस्यैवाश्विदेवता ।विशाला नातिबहला छिद्रवन्मधुरस्वरा ॥७॥रम्भादलाकृतिः स्त्री स्याच्छीतला च मनोरमा ।गम्भीरनिनदा गुर्वी सदृढा विस्फुलिङ्गिनी ॥८॥अश्वत्थवटपत्राभा विशाला बहला पुमान् ।नपुंसकं द्वयाकारा तद्धीना या सपर्पटा ॥९॥निबिडावयवा स्निग्धा धीरशब्दा सुशीतला ।सुगन्धरसूरुपाढ्या युवतिः सा सुशोभना ॥१०॥बाला शस्त्रासहा मृद्वी पिच्छिला पल्लवास्थिरा ।चण्डाली शुल्किनी वा स्याद् यस्यां न रमते मनः ॥११॥सा हि मण्डूकखण्डा च वृद्धा रूक्षाऽतिझर्झरा ।बहुवर्णाऽतिनीला च धूम्रा च स्थूलरोमिका ॥१२॥हीनस्वना च निन्द्याङ्गी सोष्णा चण्डालिका स्मृता ।वल्मीकवृक्षसंलग्ना वह्निवातातपाहता ॥१३॥चितिचैत्यसमीपस्था बाह्यालीढाऽन्त्यसेविता ।ग्रहजुष्टा विवर्णा च चत्वरान्तर्जलोषिता ॥१४॥कल्पिताऽन्यत्र शिष्टा च संस्कृता येन केनचित् ।सगर्भमण्डलच्छिद्रसन्धिकीलकजालका ॥१५॥स्फोटावर्तसिराग्रन्थिभेदयुक्ता च वर्जिता ।हीनरेखोत्तमा हीना हीना रेखोत्तमोत्तमा ॥१६॥शिलासवर्मा रेखाः स्युः सुवर्णाश्चातिशोभनाः ।इन्द्रायुधपताकोर्मिकलशाभा मनोरमा ॥१७॥सदा वृद्धिकरी ज्ञेया गोब्राह्मणहितावहा ।श्रीवत्सशङ्खचक्राब्जनन्द्यावर्तप्रदक्षिणा ॥१८॥तोरणच्छत्रवस्त्रोक्षकन्यास्रक्कुसुमोपमा ।प्रासादस्वस्तिकाश्वेभवर्धनी शफरोपमा ॥१९॥रथेक्षणाङ्गुलीकूर्मचामराङ्कुशकेसरी ।रत्नाभरणगोवृक्षपत्रचन्द्रार्कतारकाः ॥२०॥पवित्रकुण्डिकादर्शमृगहंसादयः शुभाः ।एकद्विबहुविच्छेदे पुत्रेशगृहिणीक्षयः ॥२१॥वक्रस्थूलकृशा रूक्षाश्छिन्नाग्राश्च न शोभनाः ।सङ्कीर्णा बहुवर्मा च यस्यां नेष्टा च सा शिला ॥२२॥अ वृद्धिकृदि शत्रुघ्नमु संवृतमशोभनम् ।सन्ध्यक्षरेषु वृद्धिः स्यात् कादिमान्तेषु सम्पदः ॥२३॥या योगवाहेषूच्चाटो रादौ भीपुष्टिशान्तयः ।सिद्धिरूष्मसु मोक्षोऽन्त्ये तिर्यग्रेखास्त्वशोभनाः ॥२४॥सगर्भोद्धाट्यमाना या भिद्यते शिथिलध्वनिः ।मण्डलादियुतोष्णा वा विवर्णा वाऽपि तां त्यजेत् ॥२५॥शिलायां क्षालितायां तु यदि किञ्चिन्न लक्ष्यते ।मध्यमा सा शिला ज्ञेया हीना युक्ता शुभाशुभैः ॥२६॥ध्वनिर्घण्टानिभो यत्र स्फुलिङ्गाश्छेदने सदा ।दृश्यन्ते तच्छिरस्तस्याः पृष्ठमूर्ध्वमधोमुखम् ॥२७॥द्विजो वा शिल्पिना कन्या यद् ब्रूयादधिवासिता ।तच्छिरः स्यात् ततो वक्रं कल्पयेदविकल्पितम् ॥२८॥प्राक्पश्चिमशिरा ग्राह्या प्राक्प्रत्यग्द्वारवेश्मनोः ।अलाभे याम्यसौम्याग्रा कोणाग्रा तु न शस्यते ॥२९॥स्थण्डिले देवमिष्ट्वाऽऽदौ ब्राह्मणैः स्वस्ति वाचयेत् ।सुदिने प्राश्य दध्यन्नं रक्षामङ्गलपूर्वकम् ॥३०॥शस्त्राण्यस्त्रेण सम्पूज्य शोभनान्यभिधाय च ।शस्त्राण्यस्त्रेण सम्पूज्य प्राङ्मुखो वाऽप्युदङ्मुखः ॥३१॥मङ्गलानि च सन्दृश्य निमित्तानि परीक्ष्य च ।प्रतिमार्थं तु निर्गच्छेदाचार्यः शिल्पिभिः सह ॥३२॥विद्याराज्ञीं सदा ध्यायन्नग्रतोऽर्घ्यकरः स्थितः ।निमित्तैः शोभनैर्गच्छेत् कृत्वैवं पुनरन्यथा ॥३३॥निर्गतस्तु शिलां पश्येत् तदाप्रभृति नित्यशः ।प्रतिमां कारयेत् कर्ता तत्कर्मान्तं हविष्यभुक् ॥३४॥सोमेशेन्द्रेषु न स्याच्चेत् तादृशी शोभना शिला ।सिद्धं शिलाकरं गच्छेत् कृत्वा दिग्यजनं पुनः ॥३५॥दिशो विलोक्य चास्त्रेण रक्षामङ्गलपूर्वकम् ।तत्राधिवासनं कुर्यादाचार्यः प्रयतो निशि ॥३६॥शिलाया मण्डपं कृत्वा परिश्रित्य समन्ततः ।चतुर्दिक्षु पताकाभिश्चतुर्वर्णाभिरन्वितम् ॥३७॥इष्ट्वा हरिं च दिग्देवान् भूतक्रूरबलिं हरेत् ।देवाग्रे दर्भशय्यायामुपोष्य नियतेन्द्रियः ॥३८॥आचार्यः सुस्थितो विष्णुं ध्यात्वा मन्त्रमुदीरयेत् ।नमः सकललोकाय विष्णवे प्रभविष्णवे ॥३९॥विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः ।तेनाष्टशतजप्तेन ततः सव्प्नं स पश्यति ॥४०॥शोभनं स्याच्छुभे स्वप्ने कर्तव्या शान्तिरन्यथा ।शोभनां तु शिलां ज्ञात्वा वर्णं लिङ्गं शिरस्तथा ॥४१॥उद्बुध्यस्वेति मन्त्रेण लाञ्छयेत् तत्र तत्र तु ।आचार्योऽस्त्रेण कृत्वैवं शिल्पिभिर्ग्राहयेत् ततः ॥४२॥देवमिष्ट्वा बलिं दत्त्वा कृत्वाऽथ स्वस्तिवाचनम् ।शिलां रथे समारोप्य प्रयत्नादानयेत् ततः ॥४३॥रथशिल्पिविकारादौ शतमस्त्रेण होमयेत् ।ध्वजादिघोषैः पर्येत्य शालायामुत्तरे न्यसेत् ॥४४॥संकल्प्य प्रतिमामेकां शिलायां वृक्ष एव वा ।नान्यां तु प्रतिमां कुर्यात् कृता भवति निष्फला ॥४५॥स्वयमुत्पादिता मुख्या क्रीता द्रव्यैस्तु मध्यमा ।विदितावयवैः शुद्धा या ह्रदादिषु साऽधमा ॥४६॥शिलायामिव संस्कारः कर्तव्यो दारुकर्मणि ।दारुचन्दनशम्याकमधूकासनबिल्वकाः ॥४७॥सरलः स्पन्दनः सालः स्तबकः स्तम्भकस्तिमिः ।वरणस्तिन्दुकाशोकपर्णीपनसशिंशपाः ॥४८॥अन्येऽपि याज्ञिका वृक्षाः सारवन्तश्च शोभनाः ।ऋजुः स्निग्धः समोऽशाखः शुभदेशोद्भवो घनः ॥४९॥अगर्भव्रणरन्ध्रादिर्दृढमूलः शुभो मतः ।दक्षिणप्रवणः शुष्को दग्धः पक्षिग्रहाश्रयः ॥५०॥पतितश्चैत्यवल्मीकचितादिस्थश्च नेष्यते ।अधोभागं तु संशोध्य दर्भानास्तीर्य सर्वतः ॥५१॥गायत्रीपरिपूतेन सर्वतः प्रोक्ष्य वारिणा ।हुत्वाऽनेनैव मन्त्रेण क्षीरवृक्षसमिच्छतम् ॥५२॥यत्परं वैष्णवं तत्त्वं यच्च भागवतं पुनः ।तत्सर्वमेकसंलीनमस्मिन् देहे विबुध्यताम् ॥५३॥धर्मं पुण्यं तथा सत्यं सर्वमेकत्र वर्तताम् ।वृक्ष! लोकस्य शान्त्यर्थं गच्छ देवालयं शुभम् ॥५४॥देवत्वं यास्यसे तत्र दाहच्छेदविवर्जितम् ।जलपुष्पप्रदानेन सधूपैर्बलिभिस्तथा ॥५५॥लोकास्त्वां पूजयिष्यन्ति ततो यास्यसि निर्वृतिम् ।गन्धपुष्पैश्च संपूज्य बलिं दत्त्वा च पूर्ववत् ॥५६॥स्वप्नं दृष्ट्वा द्विजायोक्त्वा शोभनान्यभिधाय च ।पूर्वोत्तरमुखो मन्त्री जप्त्वेदंविष्णुरित्यृचम् ॥५७॥मध्वाज्याक्तकुठारेण स्मृत्वाऽस्त्रं छेत्तुमारभेत् ।दिवा वारेभिरेत्येवं पातं तस्य समुद्धरेत् ॥५८॥सोमेन्द्रेशेषु तत्पातः सुभोऽन्यत्र न शस्यते ।भग्नेऽस्मिन् कारयेच्छान्तिं महाव्याहृतिहोमतः ॥५९॥अग्नआयाहिमन्त्रेण पतितं सोधयेद् द्रुमम् ।चतुरश्रं ततः कृत्वा रथेनाश्मवदानयेत् ॥६०॥मृत्तिकाऽप्येवमानेया सवर्णा दोषवर्जिता ।पुण्यादायतनाद् रम्यादुद्धृतासीति चाहृता ॥६१॥अपक्वं पार्थिवं शस्तं पक्वमत्र विगर्हितम् ।कपिलाज्यातसीतैलकषायैश्चूर्णसंयुताम् ॥६२॥श्रीवेष्टकादिसंयुक्तां पेषयित्वा पुनः पुनः ।मासपक्षोषितां कृत्वा कारयेत् प्रतिमां ततः ॥६३॥संस्कृतं प्रतिमाशूलमधिवास्याग्रमण्डपे ।रत्नन्यासं पुरा कृत्वा मुहूर्ते स्तापयेद् गुरुः ॥६४॥लोहे सिक्थमयीमर्चां कारयित्वा मृदावृताम् ।सुवर्णादीनि संशोध्य विद्राव्याङ्गारवत् पुनः ॥६५॥कुशलैः कारयेद् यत्नात् सम्पूर्णां सर्वतोघनाम् ।पुष्टिदाऽर्चा तु सौवर्मी राजती किर्त्तिदा स्मृता ॥६६॥ताम्रजा धनपुत्रार्था मणिजा सुखदा भवेत् ।दारुजा श्रीकरी ज्ञेया मृन्मयी सर्वकामदा ॥६७॥एकबेरं शिलालोहरत्नधातुमयं भवेत् ।बहुबेरं तु मृद्दारुकृतमालेख्यमेव च ॥६८॥प्रासाद एव तु स्थाप्या या शिलादारुमृन्मयी ।प्रतिमाऽन्या गृहे पूज्या प्रासादे च यथाविधि ॥६९॥अङ्गुष्ठादिवितस्त्यन्तं गृहे संस्थाप्य पूजयेत् ।प्रासादे चोर्ध्वमाहस्तात् परं प्रासाद एव तु ॥७०॥जङ्गमं पूजयेन्नित्यमावाहनविसर्गतः ।नावाहनविसर्गाभ्यामेकबेरं प्रतिष्ठितम् ॥७१॥कर्मार्चां लोहजां कृत्वा पादमात्रां शुभाननाम् ।मूलानुरूपसंस्थानां शोधयित्वा यथाविधि ॥७२॥तस्यामावाह्य सम्पूज्य लेप्यादौ विसृजेत् पुनः ।द्वारोच्चेऽष्टांशहीने स्यात् त्रिभक्तेऽर्चा द्विभागिका ॥७३॥नवांशोने समस्ते वा पादोना वाऽपि तत्समा ।उत्तमं पार्थिवे मानं दारवे मध्यमं भवेत् ॥७४॥मणिजे चाधमं ज्ञेयमिच्छयाऽन्यत्र कल्पयेत् ।उत्तमा दशतालार्चा नवताला तु मध्यमा ॥७५॥अष्टतालाधमा ज्ञेया देव्यः स्युश्चाष्टतालिकाः ।दशधा नवधा चेष्टं मानं कृत्त्वैकमंशकम् ॥७६॥भङ्क्त्त्वा द्वादशदा ज्ञेयं स्वाङ्गुलं येन मीयते ।ग्रीवाहृन्नाभिमेढ्रान्तं मुखमानेन कल्पयेत् ॥७७॥तद् भङ्क्त्त्वा मूर्ध्नि कण्ठाङ्घ्रिजानुदेशे समं न्यसेत् ।जङ्घोरू द्विगुणौ कार्यौ बाहू चाजानुलम्बिनौ ॥७८॥किञ्चिदूनाः प्रमाणेन ज्ञेयाश्चैवोपबाहवः ।किरीटमधिकं कुर्यात् पद्मं नालं च मानतः ॥७९॥तिर्यक् षोडशसूत्राणि सप्तोर्ध्वानि च कल्पयेत् ।तिर्यगूर्ध्वगतैः सूत्रैर्मुखे द्वादशधा कृते ॥८०॥केशपञ्चमसूत्रस्थं मद्यैकान्तरितं द्वयोः ।पदयोरक्षिणी कार्ये पदमानेन विस्तृते ॥८१॥तयोर्मध्ये शुभा नासा कार्याक्षिद्विगुणायता ।तारे सृक्वान्तसूत्रस्थे कंबीरौ पुटसंमितौ ॥८२॥कुर्याद् भ्रूसूत्रगौ कर्णौ नेत्रे नेत्रान्तरायते ।तारके तत्र्त्रिभागस्थे ज्योतिषी तत्र्त्रिभागतः ॥८३॥नेत्रवन्नासिकाग्रोच्चं निम्नं मूलं तदर्धतः ।निष्पावाभौ निम्नपुटौ भ्रूमद्यं नेत्रमध्यवत् ॥८४॥अधरस्तत्समोऽन्योष्ठगोजिकामानमर्धतः ।कर्णायामस्तु नासावद् विस्तारश्च तदग्रवत् ॥८५॥तुटुकौ नेत्रसूत्रस्थौ तद्विस्तारेण सम्मितौ ।ललाटकण्ठविस्तारो नासिकाद्विगुणो मतः ॥८६॥चिबुको कर्णमूलात् तु नासिका द्विगुणायता ।स्तनान्तरं मुखं विद्याद् द्विगुणं चैव कक्षयोः ॥८७॥कण्ठाद् द्विगुण एवेष्टो नाभिदेशे तु विस्तरः ।कटौ नेत्राधिक्स्त्र्यंशं स्तनकक्षान्तरं विदुः ॥८८॥तावत् कक्षांसमध्यं च कारयेत् स्कन्धमुन्नतम् ।कटिवत् सन्धिकक्षान्तं प्रकोष्ठं नासिकादिकम् ॥८९॥तत्र मध्यमयोर्मानं नासिकाधरयोगतः ।कल्पयेदर्धपर्वोने तथा तर्जन्यनामिके ॥९०॥तयोरप्यर्धपर्वोने तथाङ्गुष्ठकनिष्ठिके ।तले नेत्राधिकायामे मद्यमायामविस्तरे ॥९१॥तत्राङ्गुष्ठप्रदेशिन्योर्नेत्रसम्मितमन्तरम् ।अन्तरं मध्यमातुल्यं कनिष्ठामणिबन्धयोः ॥९२॥मणिबन्धस्तु नासावत् ततोऽङ्गुष्ठान्तरं तथा ।द्विगुणो बाहुविस्तारो नेत्रोनं चैव कोर्परे ॥९३॥सर्वत्र त्रिगुणोऽनाहो बाहू गोपुच्छवच्छुभौ ।मद्यमापर्वणी पूर्वे समे शेषं तदर्धकम् ॥९४॥अष्टांशोनानि पर्वाणि ततो देशिन्यनामयोः ।पादोनानि कनीयस्य योक्तव्यान्यनुरूपतः ॥९५॥तर्जनीमध्यमापर्वसमे चाङ्गुष्ठपर्वणी ।सर्वाङ्गुलीषु कार्याः स्युरग्रपर्वार्धतो नखाः ॥९६॥नाहोऽङ्गुष्ठस्य नासावदष्टांशोनस्ततोऽन्ययोः ।त्ततश्चैवं कनिष्ठाया वृत्ते भुजसमे स्फिजौ ॥९७॥ऊरू मुखवदक्ष्यूनं जानु जङ्घा मुखार्धतः ।मुखायततलौ पादौ पुरस्ताज्जङ्घया समौ ॥९८॥कूर्मोन्नतौ क्रमादुच्चौ तत्राङ्गुष्ठौ तदर्धकौ ।प्रदेशिन्यौ च तत्तुल्ये हीनाः शेषा नखान्नखम् ॥९९॥अनङ्गुष्ठास्रिपर्वाणो नखा रक्तार्धचन्द्रवत् ।नाहोऽङ्गुष्ठेऽन्यमध्यावत् तर्जन्यङ्गुष्ठदैर्घ्यवत् ॥१००॥अष्टांशोनाः क्रमादन्याः कारयेदनुरूपतः ।कर्णपाशौ च केशाश्च भूषावस्त्रायुधानि च ॥१०१॥सन्निवेशाश्च योक्तव्या यथाशेभं विजानता ।विशालधवलाताम्रे पक्ष्मले चैव लोचने ॥१०२॥साधारणीव दृष्टिः स्यात् पश्यतां नाधऊर्ध्वगा ।पटे वा लेखयित्वैवं तं पटं साधकः स्वयम् ॥१०३॥एकान्ते तु प्रतिष्ठाप्य पूजयेन्नित्यमादरात् ।बिम्बोच्चार्धं तु पीठोच्चमायामो बिम्बमानतः ॥१०४॥केशान्तमुखमानो वा प्दमतुल्यो जलाश्रयः ।नाधिकं पीठमिष्टं तु जङ्गमस्य षडङ्गुलात् ॥१०५॥अङ्गुलाभ्यां नच न्यूनं लोहजस्यैकयोनिकम् ।शैलमन्यत्र विज्ञेयं रत्नजानां तु लोहजम् ॥१०६॥॥इति विष्णुसंहितायां चतुर्दशः पटलः॥ N/A References : N/A Last Updated : January 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP