संस्कृत सूची|संस्कृत साहित्य|संहिता|विष्णुसंहिता| पञ्चदशः पटलः विष्णुसंहिता प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः विष्णुसंहिता - पञ्चदशः पटलः विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत. Tags : samhitasanskritvishnuविष्णुसंस्कृतसंहिता पञ्चदशः पटलः Translation - भाषांतर अथ वक्ष्यामि संक्षेपात् प्रतिष्ठापञ्कं क्रमात् ।परमेष्ठ्यादिभिर्मन्त्रैः कर्तव्यं तु विशेषतः ॥१॥स्थापनास्तापना चैव तथा संस्थापना पुनः ।प्रस्थापना च पञ्चोक्ताः प्रतिष्ठापनया सह ॥२॥स्थितासीनशयानानां यानगस्य चलस्य च ।या क्रिया पञ्चधा प्रोक्ता सा प्रतिष्ठेति कीर्तिता ॥३॥स्थाने सौम्या भवेन्मूर्तिः सौम्याग्नैयी तथासने ।आग्नेऽयी शयनेऽन्यत्र यथाकामं तु कल्पयेत् ॥४॥सात्त्विकी राजसी चापि तामसी च यथाक्रमात् ।सिता रक्ताऽसिता मूर्तिः श्यामा सर्वत्र वा भवेत् ॥५॥स्थिता तु दैविकी मूर्त्तिः परस्य परमात्मनः ।किञ्चिन्मानुषसंयुक्ता त्वासीनाऽन्या समोच्यते ॥६॥स्थाने तु व्यापको विष्णुर्व्याप्यव्यापक आसने ।व्याप्यस्तु शयने ज्ञेयः सवनत्रयदेवताः ॥७॥पार्श्वयोर्ब्रह्मरुद्राभ्यामर्केन्दुभ्यां तदन्तिके ।पृष्ठे श्रिया सरस्वत्या शान्त्या रत्या च पार्श्वयोः ॥८॥वराहहयशीर्षाभ्यां तत्पृष्ठे दशभिः स्थिः ।पार्श्वेऽजभृगुदक्षैश्च रुद्राग्निमनुभिस्तथा ॥९॥सनत्कुमारस्कन्दाभ्यां श्रीस्थानस्थितसिद्धिभिः ।आसीनश्चामख्यग्रकराभिर्द्वादशावृतः ॥१०॥प्रद्युम्नेनानिरुद्धेन नाभिपद्मस्थितेन च ।पञ्चभिः शयितोऽग्रस्थमार्कण्डेयमहीयुतः ॥११॥त्रिधोक्तानां तु सर्वेषामेषामन्यतमान् क्रमात् ।यानगस्य परीवारान् यथाकामं प्रकल्पयेत् ॥१२॥तथा धनुर्गदाचक्रशङ्खासिशरलाङ्गलैः ।खेटकेन च पद्मेन वृतः साधारणैर्भते ॥१३॥चतुर्भुजः स्थितो देव आसीनोऽष्टभुजो भवेत् ।शयानस्येच्छया योज्या भुजाः सर्वत्र वेच्छया ॥१४॥पञ्चोपनिषदस्त्वेताः सुसूक्ष्मा देवशक्तयः ।पञ्चतन्मात्रशब्देन कीर्त्तिता वेदवादिभिः ॥१५॥पञ्चैताः संहता यस्माच्छक्तयः सर्वहेतवः ।पञ्चभिर्युक्त एवाभिः स सर्गादौ प्रवर्तते ॥१६॥निग्रहानुग्रहौ चापि करोतीशः स्वतोऽक्रियः ।स्थापनादिषु सर्वत्र पूर्णैश्वर्यस्तु नान्यथा ॥१७॥गुणप्रधानतो भेदात् संहतास्वेव शक्तिषु ।विभागः पञ्चधा ज्ञेयो नैकशः पृथगास्थितेः ॥१८॥विचित्रकार्यकरणसम्बन्धो भोगकारणम् ।इत्यन्ये शक्तयश्चास्य सकार्यकरणास्तथा ॥१९॥अतः प्रतिष्ठानिपुणैराचार्यैस्तन्त्रपारगैः ।संहतास्ताः प्रयोक्तव्या बिम्बैश्वर्यप्रसिद्धये ॥२०॥स्थापनादिविभागः स्याद् बिम्बविन्यासजोऽप्यतः ।प्राधान्यख्यापनार्थैव भेदोक्तिरिति तद्विदः ॥२१॥पञ्चशक्तिमये सूक्ष्मे देहे साधारणे पुनः ।मूर्त्तयस्तस्य मूलाङ्गविशेषाद् बहुधा स्मृताः ॥२२॥वृत्तायते च प्रासादे चतुरश्रायते तु वा ।स्थाप्यं शयनमन्यत्र स्थितासीनयियासवः ॥२३॥यत्र वा तत्र वा काले प्रतिष्ठा मुक्तये कृता ।उत्तरे त्वयने कार्या शुक्लपक्षे च मुक्तये ॥२४॥पुनर्वस्वश्विनीश्रोणपुष्यहस्तोत्तरत्रये ।रेवतीरोहिणीस्वातीभरणीषु च शस्यते ॥२५॥प्रतिपच्च द्वितीया च पञ्चमी च त्रयोदशी ।दशमी पौर्णमासी च द्वादशी तिथयस्त्विमाः ॥२६॥सोमो बृहस्पतिश्चैव भार्गवोऽथ बुधस्तथा ।एते सौम्यग्रहा योज्या वारोदयनिरीक्षणैः ॥२७॥सप्तमान्नवमाद् वाऽपि प्रागेव स्याच्छुभेऽहनि ।पञ्चमाद् वाऽङ्कुरारोपस्त्रिकालोक्षार्चनान्वितः ॥२८॥त्रिविधं पात्रमुद्दिष्टं मङ्गलाङ्कुररोपणे ।पालिका घटिका चैव शरावश्चेति भेदतः ॥२९॥विष्णुब्रह्मशिवाधीशा निर्दोषाः सर्वकर्मसु ।प्रत्येकं द्वादश ग्राह्याः पालिकाः षोडशैव वा ॥३०॥पञ्चविंशाङ्गुलोच्चास्तास्तद्वक्त्रं षोडशाङ्गुलम् ।षडङ्गुलं चतुष्कोच्चं पीठं तत्सन्धिरङ्गुलम् ॥३१॥घटिकामानमङ्गुल्यः षोडश द्वादशैव वा ।पञ्च वक्त्राणि दिक्षूर्ध्वं मितानि चतुरङ्गुलैः ॥३२॥पालिकापीठवत् पीठं नालं तु चतुरङ्गुलम् ।तालास्योच्चं शरावं तु चतुरङ्गुलपीठकम् ॥३३॥त्रिषङ्क्त्तीकृत्य पात्राणि सुगुप्ते स्थान उत्तरे ।अग्न्यादीशानपर्यन्तं स्थापयित्वा प्रयत्नतः ॥३४॥मृद्वालुकाकरीषैस्तु पूरितान्युत्तरोत्तरम् ।दूर्वादिभिरलंकृत्य धान्यकूर्चस्थितानि च ॥३५॥यवमुद्गतिलव्रीहिमाषशिम्बकुलुस्थकान् ।प्रियङ्गुसर्षपश्यामराजमाषाढकीयुतान् ॥३६॥द्वादशाक्षरमन्त्रेण क्षालयेच्च शुभानिमान् ।पुण्याहं वाचयित्वाऽऽदौ ब्राह्मणैः स्वस्ति वांच्य च ॥३७॥अष्टाक्षरेण बीजानि क्रमात् तेषु विनिक्षिपेत् ।प्रादक्षिण्येन पूर्वोक्तक्रमादवहितो गुरुः ॥३८॥जितं ते पुण्डरीकाक्ष! नमस्ते विश्वभावन! ।सुब्रह्मण्य! नमस्तेऽस्तु नमः पुरुष! पूर्वज! ॥३९॥त्रितारकनमोऽन्तेन तेनैवं सवनत्रये ।कूर्चपाणिः क्रमात् सिञ्चेद् गन्धहारिद्रवारिणा ॥४०॥देवतानामभिस्तानि गन्धपुष्पैश्च पूजयेत् ।पात्राणां देवताः प्रोक्ता बीजानामधुना शृणु ॥४१॥यवसर्षमुद्गेषु ब्रह्मा रुद्रो हरिः क्रमात् ।वायुः पूज्यस्तु निष्पावे स्कन्दश्चैव प्रियङ्गुके ॥४२॥माषेष्विन्द्रः कुलुस्थेऽग्निः शालिष्वर्को यमस्तिले ।वरुणो राजमाषे श्रीराढक्यां श्यामगः शशी ॥४३॥मण्डलेषु सकूर्चेषु पूजयित्वाऽष्टदिक्क्रमात् ।रात्रीशेभ्यो बलिं दद्यात् पार्षदान्तं जलान्वितम् ॥४४॥पललं रजनीचूर्णं सलाजं दधिसक्तुकम् ।भूतक्रूरबलिं दद्यात् पूर्वं भूतप्रहर्षणम् ॥४५॥द्वितीयं पैतृकं चैव दद्यात् सतिलतण्डुलम् ।धानोडुम्बिकलाजैस्तु ततो यक्षबलिं हरेत् ॥४६॥नालिकेरपयस्सक्तुशालिपिष्टविमिश्रितम् ।चतुर्थं निशि वै दद्यात् ततो नागबलिं बुधः ॥४७॥पञ्चमं तु बलिं दद्यात् ब्राह्मं पद्माक्षतैर्युतम् ।चरुमाऽपूपयुक्तेन षष्ठं शैवबलिं हरेत् ॥४८॥गुलान्नं वैष्णवं चैव सप्तमं तदनन्तरम् ।पायसं कृसरं दद्यादष्टमं नवमं तथा ॥४९॥शुद्धवासाः शुचिर्भूत्वा नियतात्मा हविष्यभुक् ।प्रतिरात्रं बलिं दद्यात् ततः स्नानं समाचरेत् ॥५०॥प्रातः कर्मदिने दत्त्वा पश्चात् कर्मणि योजयेत् ।प्रविशेत् गुरुरेवात्र नान्यः कोऽपि कथञ्चन ॥५१॥उच्छिष्टाद्यशुभं सर्वं वर्जयेच्च प्रयत्नतः ।अदत्त्वा तु बलिं तत्र न कुर्यात् पालिकाक्रियाम् ॥५२॥बल्यदाने तु नैष्फल्यात् सर्वथाऽङ्कुररोपणम् ।बलिना सह कर्तव्यं प्रयत्नाद् दिशिकोत्तमैः ॥५३॥मण्डपे स्तम्भमूलेषु धान्ययुक्तेषु विन्यसेत् ।कर्मारम्भेषु पात्राणि सम्यग्रूढाङ्कुराणि तु ॥५४॥श्यामेषु द्रव्यनाशः स्याद् रक्तेषु कलहो ध्रुवम् ।तिर्यग्गतेषु रोगः स्यादप्ररूढे मृतिर्भवेत् ॥५५॥शुभं पीतेषु शुक्लेषु समेषूर्ध्वेष्वृजुष्वपि॥तस्मात् सर्वप्रयत्नेन सदा रक्ष्याण्यतन्द्रितैः ॥५६॥यदाऽङ्कुराणि रोहन्ति तदाप्रभृति नित्यशः ।मार्जनं ग्रामवीथीनां कृत्वाऽऽसिच्य समन्ततः ॥५७॥नास्तिकोन्मत्तपाषण्डिपतितादीक्षिताशुचीन् ।ततो निर्वास्य यत्नेन यागद्रव्याणि संहरेत् ॥५८॥प्रासादस्याग्रतः कृत्वा मण्डपं चतुरश्रकम् ।चतुर्द्वारं वितानादिशोभितं सुपरिच्छदम् ॥५९॥तोरणान्यथ चत्वारि पञ्चहस्तोच्छ्रितानि च ।ध्वजानष्टौ पताकाश्च नवमं तार्क्ष्यलक्षणम् ॥६०॥प्रासादविस्तरोत्सेधान् दशद्वारायतं ध्वजम् ।घटा हैमादयो ग्राह्या मार्त्तिका वा नवाः शुभाः ॥६१॥लोहजं च महत् पात्रं कुम्भं द्रोणवहं तथा ।प्रस्थोद्वहानि चत्वारि चरुस्थालीश्च शोभनाः ॥६२॥आज्यस्थालीं प्रणीतां च समिद्दर्भकुशांस्तथा ।सौवर्मराजते चान्ये पात्रे द्वे प्रसृतोद्वहे ॥६३॥अर्घ्याद्यर्थानि चान्यानि लौहान्यब्जनिभानि च ।आयुधानि तथान्यानि जातिहेममयानि च ॥६४॥कूर्मं गरुडमब्जं तु रत्नानि विविधानि च ।लोहान् धातूंश्च बीजानि दर्वीस्रुवजुहूस्रुचः ॥६५॥मृत्तिकाघटिकाः सूत्ररजांसि कुसुमानि च ।गन्धगुग्गुलुतैलानि दधिक्षीरगुलं मधु ॥६६॥गव्यं घृतं च होमार्थं गोमयं मूत्रमेव च ।कम्बलाजिनखट्वाश्च शयनं च नवं शुभम् ॥६७॥उपधानद्वयोपेतं सकपोलस्थलद्वयम् ।शुक्लास्तरणसंयुक्तं वस्त्राणि विविधानि च ॥६८॥सवत्सां कपिलां चौकां हेमशृङ्गीं पयस्विनीम् ।सुरभीश्च चतस्रोऽन्या दोहनानि शुभानि च ॥६९॥कषायार्थस्त्वचश्चैव होमद्रव्याणि सर्वशः ।भूषणानि च रम्याणी चक्रिकापल्लवांस्तथा ॥७०॥दूर्वाद्योषधिजातानि फलानि मधुराणि च ।मूलान्युद्वर्त्तनादीनि हैमं यज्ञोपवीतकम् ॥७१॥मङ्गलानि शुभान्यष्टौ कुण्डिकां वर्धनीं तथा ।शुष्केन्धनानि दीपांश्च सूत्रं धान्यानि तण्डुलान् ॥७२॥चतुर्विधं तथा वाद्यं गायकान् नर्त्तकांस्तथा ।विप्रान् वेदविदः शान्तान् वैष्णवांस्तु विशेषतः ॥७३॥शब्दन्यायनिमित्तज्ञान् प्रयोग्ज्ञांश्च वैदिकान् ।मुहूर्त्तज्ञांश्च कालज्ञान् व्रतिनो मन्त्रपाठकान् ॥७४॥यतींश्च विमलज्ञानांस्तक्षकांश्च विशेषतः ।उक्तानुक्तं च यत् सर्वं कार्ये दृष्ट्वा तदाहरेत् ॥७५॥यागोपकरणं सर्वं स्थानादि च विशेषतः ।सर्वं भोगेन दुष्टं स्यात् तस्मात् सर्वं नवं शुभम् ॥७६॥मलक्षालनमात्रेण शुद्धिर्भवति लौकिकी ।देवपूजासु शास्त्रोक्तं स्नानं स्यात् कायशोधनम् ॥७७॥लोकसंव्यवहारेषु धर्मशास्रान्तरेषु च ।विहिताः शुद्धयो ग्राह्या विष्णुभक्तेन धीमता ॥७८॥खननादीनि दुष्टायाः शोधनानि विदुर्भुवः ।शुद्धामपि तु यागार्थं गोमयेनोपलेपयेत् ॥७९॥तद् धेनुजं नवं भूस्थं क्षीराद्यपि सुगालितम् ।घृतं विलीनमुत्पूतं सुगन्धीष्टं विशेषतः ॥८०॥गां लिप्त्वाऽस्त्रेण संविध्य हस्तं प्रक्षाल्य सम्मृशेत् ।प्रोक्ष्याक्षतैः ससिद्धार्थैः किरेत् तत् स्थानशोधनम् ॥८१॥तोयेन साम्लकल्केन ताम्रं हैमं तु वारिणा ।राजतं गृहधूमेन पलालाङ्गारकेण वा ॥८२॥लोजतं भस्मना शुध्येच्छङ्खादि लवणेन च ।मृदाऽद्भिः फलपात्राणि दारवाणि तु तक्षणात् ॥८३॥पार्थिवानि तु दाहेन नवान्येवाददीत वा ।लेपगन्धापनोदेन शुद्धिः सर्वस्य कीर्त्तिवा ॥८४॥सकूर्चे गन्धपुष्पाढ्ये जले ताराभिमन्त्रिते ।ध्यात्वा मन्त्रमयं ज्योतिः प्रोक्षणं द्रव्यशोधनम् ॥८५॥अक्षाराकलुषं शुद्धं भूरि नद्यादिसम्भवम् ।सुरसं दुर्जनास्पृष्टमम्भः स्यात् सर्वकर्मसु ॥८६॥लौही पात्रवदर्चाऽपि शोध्या चूर्णैस्तु शैलजा ।शोधनं दारवस्यैवं चित्रस्य मलहानतः ॥८७॥मार्जनं मणिजानां तु धातुजानां तु शैलवत् ।एवं संशोध्य संहृत्य सृष्ट्वाऽङ्गैः सकलीकृतम् ॥८८॥शुध्यत्यस्थावरं बेरं स्थावरं स्नपनादिभिः ।मार्जनादेव शुध्यन्ति क्षालनाद् वा कुशादयः ॥८९॥सदर्भासन आसीनः पूजास्थानादधः सुधीः ।दर्भपाणिः सकूर्चेन वारिणा मन्त्रतेजसा ॥९०॥प्रोक्षणाच्छोधयेत् सर्वमात्मानं दारणादिभिः ।न्यासश्च प्रणवो दर्भाः प्रशस्ता मन्त्रशोधने ॥९१॥आवृत्तिगणनं मुद्रा ध्यानं च परिकीर्तितम् ।सत्यप्रियहितैर्वाचो ज्ञानं तुष्टिश्च चेतसः ॥९२॥सर्वेषामपि विज्ञेया भक्तिरेका विशोदिनी ।स्थलजं करवीरादि जलजं कमलादि च ॥९३॥अवर्जितं नवं पुष्पं सुगन्धि विनिवेदयेत् ।यत्किञ्चित् पीतवर्णं तु सितं वा शुचिनाऽऽहृदतम् ॥९४॥अवस्त्राहृतमम्लानं पुष्पं स्याद् ग्राह्यमापादि ।सच्छिद्रं मुकुलं जीर्णं पतितं पात्रवर्जितम् ॥९५॥भुक्तसेषमगन्धं च केशकीटादिमिश्रितम् ।पुष्पमापद्यपि त्याज्यमर्कपत्रगतं तथा ॥९६॥प्रतिषिद्धानि पुष्पाणि सुस्नातोऽपि यदि स्पृशेत् ।स्नायात् पुनरशक्तश्चेदुपस्पृश्यार्चयेत् प्रभुम् ॥९७॥स्वयं पत्न्यथवा पुत्रः शिष्यो वा पुष्पमाहरेत् ।शुद्धपाणिः सुपात्रस्थं पिधायानातपे न्यसेत् ॥९८॥रात्रिपुष्पैर्यजेद् रात्रौ दिवापुष्पैर्दिवा तथा ।आपत्काले यथायोगं प्राप्तकालं तु शस्यते ॥९९॥निर्गन्धमपि मन्दारपीतकोरण्डकादि यत् ।प्रशस्तं तदपि ग्राह्यं गिरिकर्ण्यादिवर्जितम् ॥१००॥दूर्वापामार्गभद्राणां तृलसीगन्धपूर्णयोः ।तमालाश्वत्थबिल्वानां शम्याः कुशपलाशयोः ॥१०१॥पत्राणि धातकीब्राह्मीभृङ्गाणामपि पुष्पवत् ।यवप्रियङ्गुनिष्पावमुद्गमाषचणाङ्कुरान् ॥१०२॥सुसंभृतानलूनाग्रान् पुष्पालाभे प्रकल्पयेत् ।पुष्पं स्वारामजं मुख्यं मध्यमं वन्यमाहृतम् ॥१०३॥अधमं क्रीतमर्चायां फलं दातुः प्रतिग्रहे ।पृथग्वा सह वा पिष्टैः सितास्रेन्दुरुगायसैः ॥१०४॥कृत्रिमैर्वाऽर्चयद् गन्धैः प्राण्यङ्गरहितैः शुभैः ।सालसर्जपुराणां वा दारुसेव्येन्द्वयोरुजाम् ॥१०५॥धूपमाज्यादिसंयुक्तं शुभे पात्रे निवेदयेत् ।तैलेनाज्येन वा दीपं दारुस्रेहेन वाऽऽपदि ॥१०६॥सूत्रवर्त्तियुतं तद्यादमुखानिलदीपितम् ।त्रिः क्षालितैरनुत्स्विन्नैरमलैः शालितण्डुलैः ॥१०७॥शृतं घृतोपदंशादियुतमन्नं निवेदयेत् ।कालपक्वान्यदुष्टानि फलानि मधुराणि च ॥१०८॥अलाभे केवलैः पुष्पैर्जलैर्वा मनसाऽर्चयेत् ॥१०९॥॥इति विष्णुसंहितायां पञ्चदशः पटलः॥ N/A References : N/A Last Updated : January 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP