विष्णुसंहिता - षष्ठः पटलः

विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.


अथ वक्ष्यामि संक्षेपात् स्नानाचामादि पूजनम् ।
येन सम्यक्कृतेनेह साधकः सिद्धिमाप्नुयात् ॥१॥
तीर्थे नद्यां तटाके वा सुधीर्गत्वा कुशादिमान् ।
मृदमस्त्रेण सङ्गृह्य सर्वदोषविवर्जिताम् ॥२॥
अस्त्रेण क्षालिते तीर्थे संस्थाप्य विभजेत् त्रिधा ।
अस्त्रेण च हृदा प्रोक्ष्य भागांस्तान् कवचेन च ॥३॥
प्रदक्षिणं परिक्रम्य नमस्कृत्वाऽथ तज्जलम् ।
पूर्वांशेन मलस्नानं कृत्वा मज्जेत् त्रिरोमिति ॥४॥
द्वितीयेनालभेत् पश्चादाचम्य विधिपूर्वकम् ।
तृतीयं दिक्षु सर्वासु क्षिपेद् विघ्नोपशान्तये ॥५॥
प्रतिस्रोतः पुनर्मज्जेत् तीर्थं ध्यात्वा तु वैष्णवम् ।
तीर्थं पुनः समासाद्य विधिनाऽऽचम्य वाग्यतः ॥६॥
मन्त्रन्यासं क्रमात् कृत्वा प्रोक्ष्य मूलादिभिस्तथा ।
ततश्चाचम्य कुर्वीत प्राणायामत्रयं क्रमात् ॥७॥
मूलमन्त्रेण साङ्गेन व्यस्तेन सुसमाहितः ।
नाभ्याश्लिष्टेन तोयेन ततस्तेनाधमर्षणम् ॥८॥
समस्तेन समुद्दिष्टं सर्वपापहरं तथा ।
कृत्वाऽभिषेकमुत्तीर्य परिधाय सिताम्बरम् ॥९॥
आचान्तो न्यस्य सम्प्रोक्ष्य कुशाग्रैः पूर्ववत् क्रमात् ।
उपविश्य शुचौ देशे प्राणायामत्रयं चरेत् ॥१०॥
परतत्त्वेन कृत्वैवं नमस्कृत्य च मार्जयेत् ।
उपस्थानं ततः कुर्यात् परतत्त्वेन देशिकः ॥११॥
ध्यात्वा ज्योतिर्मयं विष्णुं मण्डलस्थं जलार्घ्यदः ।
स्थित्वाऽष्टोत्तरजप्तेन मूलमन्त्रशतेन तु ॥१२॥
गायत्र्या चैव वैष्णव्या प्रणवाद्यन्तरुद्धया ।
उपविश्य शुचौ देशे ततस्तर्पणमारभेत् ॥१३॥
विष्ण्वादिदेवताश्चर्षीन् मनुष्यां पितॄंस्तथा ।
तर्पयेत् तानशेषेण पश्चात् तीर्थं तु संहरेत् ॥१४॥
मूलमन्त्रं जपन् गच्छेद् वाग्यतश्चिन्तयन् हरिम् ।
आजानु पादौ प्रक्षाल्य हस्तावाकोर्परं पुनः ॥१५॥
त्रिः पिबेदं ब्रह्मतीर्थेन द्विरून्मृज्य मुखं पुनः ।
वामहस्तं च पादौ च प्रोक्ष्याङ्गानि पुनः स्पृशेत् ॥१६॥
वेदास्त्रयस्त्रिभिः पानैः पितरश्च पितामहाः ।
क्रमशस्तृप्तिमायान्ति तथैव प्रपितामहाः ॥१७॥
मार्जने प्रथमे ब्रह्मा द्वितीये दक्ष एव च ।
तत्राथर्वेतिहासाश्च तृप्तिमायान्ति संस्मृताः ॥१८॥
चक्षुषोः स्पृष्टयोस्तृप्तिं चन्द्रादित्यौ प्रयास्यतः ।
अङ्गुष्ठेऽनामिकां कृत्वा तर्जनीं पवनो नसोः ॥१९॥
कनिष्ठां कर्णयोर्दस्रौ बाह्वोरङ्गुष्ठकेन च ।
शक्रशैलाश्च तृप्यन्ति नाभौ विष्णुश्च मध्यया ॥२०॥
महाविष्णुः सदा विष्णुश्चतुर्भिर्हृदि केऽखिलैः ।
एतदाचमनं प्रोक्तं दीक्षितस्य विसेषतः ॥२१॥
यागस्थानं समासाद्य देवं संस्मृत्य वाग्यतः ।
अस्त्रेम गृहमालोक्य वेदिं स्थण्डिलमेव च ॥२२॥
ततः प्रदक्षिणीकृत्य नमस्कृत्य समाहितः ।
कृत्वोपवीतवद्वस्त्रमुत्तरं प्राङ्मुखः शुचिः ॥२३॥
नारसिंहेन दिग्बन्धं कृत्वा पद्मासनस्थितः ।
परतत्त्वं समुच्चार्य कृत्वा ब्रह्माञ्जलिं शुभम् ॥२४॥
प्राणायामत्रयं कुर्याद् धारणात्रयसंयुतम् ।
नाभिमण्डलमध्ये यं धूम्रं चण्डानिलात्मकम् ॥२५॥
विश्लेषयदघं देहात् सर्वगात्रोपशोषकम् ।
धारयेद्‌धृदये चाग्निं तारेणार्कादुपाहृतम् ॥२६॥
ज्वालाभिस्तिर्यगूर्ध्वाधो दहन्तं काष्ठवत् तनुम् ।
शिखान्ते जीवमायोज्य बीजेन सुसमाहितः ॥२७॥
गत्वा सुषुम्नारन्ध्रेण ततोऽर्कस्योपरिस्थितात् ।
चन्द्रादमृतमानीय स्वतनुं भस्मसात्कृताम् ॥२८॥
प्लावयित्वा नवं देहं पार्थिवैः परमाणुभिः ।
जलबुद्बुदमध्यस्थं प्राजापत्यं तु कल्पयेत् ॥२९॥
आत्मानं योजयित्वाऽत्र सर्वज्ञं गतकल्मषम् ।
अस्त्रशोधितयोर्मूलं करयोर्व्यापकं न्यसेत् ॥३०॥
दक्षिणेऽङ्गुष्ठमारभ्य बीजानि क्रमशो न्यसेत् ।
ताराद्यन्तानि वामेऽपि तलान्तमुभयत्र तु ॥३१॥
अङ्गानि च तयोर्न्यस्य सर्वाङ्गे व्यापकं न्यसेत् ।
प्रथमं मूर्न्धि विन्यस्य ललाटे च द्वितीयकम् ॥३२॥
तृतीयं हृदये चैव चतुर्थं नाभिमण्डले ।
पञ्चमं तु न्यसेदूर्वोः पादावस्थं तु षष्ठकम् ॥३३॥
सृष्टिन्यासोऽयमासीने कर्तव्यः काम्यसिद्धये ।
स्थिते कुर्यात् स्थितिन्यासं नाभ्यादि हृदयान्तकम् ॥३४॥
शयिते संहृतिन्यासं पादादि प्रतिलोमतः ।
स्थितिन्यासो गृहस्थस्य सृष्ट्याख्यो ब्रह्मचारिणः ॥३५॥
मुमुक्षोः संहृतिन्यास एवं न्यासस्रिधा स्मृतः ।
एवं न्यासविधिं कृत्वा ताराद्यन्तैः षडक्षरैः ॥३६॥
हृदयादीनि चाङ्गानि स्वस्थानेषु नियोजयेत् ।
जप्त्वा मन्त्रं ततोऽस्त्रेण संविध्य शकलं त्यजेत् ॥३७॥
पुष्पमस्त्रेण च क्षिप्त्वा सम्भारानुपकल्पयेत् ।
अस्त्रक्षालितपात्रस्थे गन्धपुष्पान्विते जले ॥३८॥
मन्त्रं न्यस्याष्टकृत्वस्तु प्रणवेनाभिमन्त्रयेत् ।
ततस्तु प्रोक्षणं कुर्यादस्त्रमन्त्रेण सर्वतः ॥३९॥
फट्कारान्तेन मेधावी ततः पीठं प्रकल्पयेत् ।
मण्डले स्थण्डिलेऽर्चायां पूजयेद्‌धृदि वा बुधः ॥४०॥
स्थण्डिलाद्यर्चनात् सिद्धो हृत्पद्मे मनसाऽर्चयेत् ।
धर्माधर्मादिपादेषमनन्तमयमासनभ् ॥४१॥
त्रिगुणाकलितं मायाविद्यासितसितास्तरम् ।
विपुलं स्थण्डिलेभ्यर्च्य गन्धपुष्पैर्यथाक्रमम् ॥४२॥
तस्योपरि तथा पद्मं प्रणवेन समाहितः ।
तदंशैः सूर्यसोमाग्निमण्डलात्मत्रयं पुनः ॥४३॥
उपर्युपरि सङ्कल्प्य पत्रकेसरकर्णिकाः ।
विमलोत्कर्षिणी ज्ञाना क्रिया योगा यथाक्रमम् ॥४४॥
प्रह्वी सत्या तथेशा च केसरेष्वष्ट शक्तयः ।
मध्यतोऽनुग्रहा चान्ते पूज्याः सर्वार्थसिद्धये ॥४५॥
हृद्येवं योगपीठस्थं ध्यात्वा विष्णुमतन्द्रितः ।
क्षालिते तैजसे पात्रे गन्धपुष्पयुतोदके ॥४६॥
प्रणवेन स्मरेद् विष्णुमव्यक्तस्योपरिस्थितम् ।
विष्णुमूर्तिं ततो ध्यात्वा सर्वतेजोमयं विभुम् ॥४७॥
कर्णिकोपरि सञचिन्त्य निरुध्य सकलीकृतम् ।
पूजयेत् साङ्गमव्यग्रे भक्त्याऽर्घ्यादिभिरच्युतम् ॥४८॥
पूर्वेण हृदयं न्यस्य दक्षिणेन शिरस्तथा ।
पश्चिमेन शिखां चैव कवचं चोत्तरेण तु ॥४९॥
आग्नेयादिषु काणेषु पूजयेदस्त्रमुत्तमम् ।
वासुदेवादिकान् न्यस्य दिक्षु शक्तीश्च कोणतः ॥५०॥
तद्बहिः शङ्खचक्राब्जगदा दिक्षु निवेशयेत् ।
कोणेषु च ततः शार्ङ्गखेटखङ्गशरान् न्यसेत् ॥५१॥
इन्द्रमग्निं यमं चैव निर्ऋतिं वरुणं तथा ।
वायुं सोमं तथेशानं स्वासु दिक्षु क्रमान्न्यसेत् ॥५२॥
वज्रं शक्तिं च दण्डं च खड्गं पाशं ध्वजं तथा ।
गदां त्रिशूलं च बहिस्तेषामस्त्राणि कल्पयेत् ॥५३॥
अग्रतो वैनतेयं तु तृतीयावरणाद् बहिः ।
विष्वक्सेनं तथैशान्यां द्वितीयावरणाद् बहिः ॥५४॥
सर्वेषामपि चैतेषां प्रत्येकम पद्ममासनम् ।
नामभिः कल्पयेद् विद्वानर्ध्यं देवाय भक्तितः ॥५५॥
पाद्यमाचमनीयं च स्रानमालेपनं तथा ।
वस्त्रालङ्कारपुष्पाणि धूपदीपनिवेद्यकम् ॥५६॥
तत्सर्वं विष्णुगायत्र्या दातव्यं तु यथाक्रमम् ।
दत्त्वा देवाय भूषान्तं स्नानाद्यङ्गेषु कल्पयेत् ॥५७॥
गायत्र्या च ततः पुष्पं देवायान्येभ्य एव च ।
व्यस्तेन मूलमन्त्रेण समस्तेन च तैः सह ॥५८॥
यागोऽयं तस्य विज्ञेयः सदाऽन्येऽर्च्याः स्वनामभिः ।
परतत्त्वेन व्याप्यान्ते पूजयेत् तं सनातनम् ॥५९॥
धूपं दीपं निवेद्यं च दत्त्वाऽस्मै विधिपूर्वकम् ।
यथासम्भवतोऽन्येषां निवेद्यमुपकल्पयेत् ॥६०॥
अग्नौ च कल्पयेत् साङ्गं योगपीठस्थमुज्ज्वलम् ।
परिस्तरणपर्युक्षापवित्रकरणादि यत् ॥६१॥
प्रणवेनैव सर्वं तत् कृत्वाऽथाज्येन होमयेत् ।
दशांशमङ्गमूर्त्तीनामन्येषामेकशः क्रमात् ॥६२॥
नमः परिषदेभ्यश्चेत्यष्टदिक्षु बलिं हरेत् ।
आचम्य सकलीकृत्य जप्त्वा स्तुत्वा प्रणम्य च ॥६३॥
अर्घ्यं दत्त्वा क्षमस्वेति संहृत्य हृदि योजयेत् ।
ध्यायेज्ज्योतिर्मयं देवं शङ्खचक्रगदाधरम् ॥६४॥
पीतवस्त्रमुदाराङ्गं सर्वाभरणभूषितम् ।
शुद्धस्फटिकसङ्काशं वासुदेवं चतुर्भुजम् ॥६५॥
शङ्खचक्रगदापाणिं धृतश्रीवत्सकौस्तुभम् ।
तथा सङ्कर्षणं ध्यायेज्जातरूपसमप्रभम् ॥६६॥
दूर्वामरकतप्रख्यं प्रद्युम्नं च तथा स्मरेत् ।
नीलाम्बुदप्रतीकाशमनिरुद्धं तथैव च ॥६७॥
शान्तस्फटिकसङ्काशां श्रियं पद्मरजःप्रभाम् ।
सरस्वतीं तथारूपां रतिं श्यामां तु चिन्तयेत् ॥६८॥
शुक्लवर्णं तथा शङ्खं चक्रमग्निसमप्रभम् ।
गदां चैव हरिद्राभां सुवर्णाभं तु पङ्कजम् ॥६९॥
गदां स्त्रीलक्षणैर्युक्तां सर्वसंहारकारिणीम् ।
खड्गमाकाशसंकाशं ध्यायेच्चक्रसमाकृतिम् ॥७०॥
शार्ङ्गं च तत्समं पीतमधोभागे गदासमम् ।
शरं च धनुराकारं खेटकं खङ्गसन्निभम् ॥७१॥
चक्रमुग्रं प्रभूताक्षं नाभ्यरप्रथिनेमिकम् ।
लेलिहानं दुरालोकं भ्रमद्वह्निस्फुलिङ्गमुक् ॥७२॥
चतुर्बाहुं द्विबाहुं वा दंष्ट्रिणं पिङ्गमूर्धजम् ।
लम्बोदरं तथा शङ्खं ह्रस्वकुञ्चितमूर्धजम् ॥७३॥
इन्द्रः श्यामो यमः पीतो वरुणः श्याम एव च ।
शङ्खामलरुचिः सोमो वह्निः शोणस्तु कीर्तितः ॥७४॥
सदंष्ट्रो निर्ऋतिः श्यामो वायुर्धूम्रः प्रशस्यते ।
ईशानस्तु भवेद् रक्त एवं ध्यायेत् क्रमादिमान् ॥७५॥
इन्द्रकारं भवेद् वज्रं चित्रशास्त्रोदितं तु वा ।
एवमस्त्राणि दिक्पानामन्येषां च प्रकल्पयेत् ॥७६॥
अग्निवर्मश्चतुर्बाहुस्तार्क्ष्यो लूनाग्रनासिकः ।
ग्रसन्निव दृशा ध्येयो महापक्षो महाबलः ॥७७॥
विष्वक्सेनोऽभ्रवर्णस्तु शङ्खचक्रगदाधरः ।
पञ्चमूर्धा चतुर्बाहुरनन्तः पृष्ठतो हरेः ॥७८॥
ध्येयोऽन्ये पार्षदास्तस्य ज्ञातव्याश्चागमान्तरे ।
योऽनेन विधिना विष्णुं पूजयेद् भक्तिमान् नरः ॥७९॥
तस्य हस्तगताः कामा इहामुत्र च योगिनः ॥८०॥

॥इति विष्णुसंहितायां षष्ठः पटलः॥

N/A

References : N/A
Last Updated : December 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP