विष्णुसंहिता - एकविंशः पटलः
विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.
अथ वक्ष्यामि संक्षेपाद् यात्रामस्य शुभाशुभाम् ।
तीर्थयात्रा शुभा ज्ञेया साऽशुभा या स्वमन्दिरे ॥१॥
पूर्वेद्युरुत्सवं कृत्वा निशि दद्यान्महाबलिम् ।
विष्णुपारिषदेभ्यश्च प्रमथेभ्यो नमो नमः ॥२॥
मातृभ्यस्तद्गणेभ्यश्च सर्वेभ्यो वै नमोनमः ।
इत्येवं सर्वतो दत्त्वा प्रविश्य प्रार्थ्य पूर्ववत् ॥३॥
पीठे सास्तरणे देवं पुण्याहस्वस्तिवाचनैः ।
कृतकौतुकमाराध्य ततः स्तोत्रादि कीर्तयेत् ॥४॥
स्नातः स्वलङ्कृतः प्रातः कृत्वा यागं पुरोदितम् ।
षड्भिः कनिक्रदत्पूर्वैर्हुत्वा स्वस्त्यादिपञ्चकैः ॥५॥
मूलेनाष्टशतं चैव समिदाज्यचरून् क्रमात् ।
शकुनानि परीक्ष्याथ स्नानयात्रां प्रयोजयेत् ॥६॥
रथं वा कुञ्जरं वाऽस्य यात्रावाहनमानयेत् ।
नानावादित्रकुशलान् बहुंश्च परिचारकान् ॥७॥
छत्रध्वजपताकाश्च भटान् दासांश्च भक्तकान् ।
ब्राह्मणांश्च समानीय मुहूर्ते शोभने गुरुः ॥८॥
पुण्याहं वाचयित्वाऽत्र प्राप्तानुज्ञो द्विजोत्तमैः ।
देवं प्रदक्षिणीकृत्य प्रणिपत्य पुरः स्थितः ॥९॥
पीठे विन्यस्य कर्मार्चां कार्यं विज्ञापयेच्छनैः ।
कर्मार्चा तीर्थयात्रार्थं तवेयं कल्पिता हरे! ॥१०॥
तीर्थयात्रां कुरूष्वास्यां संक्रम्यानुग्रहाय नः ।
ततः संहृत्य तामर्चामुत्पाद्य विधिपूर्वकम् ॥११॥
तस्यामावाहयेद् देवं पञ्चोपनिषदैः क्रमात् ।
आवाहितमनुस्मृत्य दत्त्वाऽर्ध्यं प्रतिपूज्य च ॥१२॥
सदशेन नवेनैव वस्त्रयुग्मेन वेष्टयेत् ।
सोष्णीषः सोत्तरीयश्च कृतन्यासः समाहितः ॥१३॥
दक्षिणेन तमादाय पाणिना वाग्यतः स्वयम् ।
शिष्यैः परिवृतौ गच्छेन्मण्डपं समलंकृतम् ॥१४॥
तत्र मङ्गलवादं तु सर्वमङ्गलसंयुतम् ।
कुर्यादत्र द्विजाः सर्वे वदेयुश्च तथास्त्विति ॥१५॥
मण्डपद्वारमासाद्य दत्त्वाऽर्ध्वं सह मूर्त्तिपैः ।
गेहं प्रदक्षिणीकृत्य ततो गच्छेद् बहिः पुनः ॥१६॥
उदकुम्भं हविश्छत्रं यागोपकरणानि च ।
प्ररोहघटिकाश्चान्ये दारयेयुर्द्विजोत्तमाः ॥१७॥
बहिर्निर्गम्य घोषेण महता वाग्यतः स्वयम् ।
वाहनं गरुडं ध्यात्वा पूजयित्वाऽदिरुह्य तम् ॥१८॥
गच्छेत् तु योजनादर्वाङ् नदीं वाऽन्यजलाशयम् ।
दिङ्मन्त्रेण बहिस्सालं कृत्वा पूर्वं प्रदक्षिणम् ॥१९॥
गच्छेयुर्वाग्यताः सर्वे सोत्तरीयाः स्वलंकृताः ।
पथि घोषं जना वाद्यैर्गीतनृत्तरवैस्तथा ॥२०॥
वाहनैर्विविधैश्चापि कुर्वीरन् देवतुष्टये ।
तोरणाभ्यन्तरे गत्वा मण्डपं तीर्थपार्श्वतः ॥२१॥
वेदिं परिश्रितां कृत्वा पीठे देवं निवेशयेत् ।
दीक्षितैः पाचयित्वाऽत्र पायसं विजने क्वचित् ॥२२॥
दत्त्वा पाद्यादि सर्वेण तमादाय नदीं व्रजेत् ।
वारिणा तीर्थमावाह्य वैष्णवं तत्र पावनम् ॥२३॥
तीर्थे त्रिधा निमज्ज्यास्मिन् मन्त्रेण परमेष्ठिना ।
निवेस्य पीठे दत्त्वाऽर्ध्यं पाद्यमाचमनं तथा ॥२४॥
आपोहिष्ठादिभिः प्रोक्ष्य पञ्चभिश्च समाहितः ।
तमादाय पुनर्मज्जेत् तोये कृत्वाऽघमर्षणम् ॥२५॥
तत्र स्नानं महापुण्यं सर्वपापहरं विदुः ।
पीठे निवेश्य वस्त्रे द्वे परिधाय नवे स्वयम् ॥२६॥
आचम्य तु कृतन्यासः पूजयेद् विधिना पुनः ।
आज्युक्तं निवेद्यं च दत्त्वाऽस्मै विधिपूर्वकम् ॥२७॥
तीर्थेऽस्मिन् वैष्णवे पुण्ये स्नातोऽसि पुरुषोत्तम! ।
अतस्त्वमनुगृह्णीष्व स्वस्थानोपाश्रयेण नः ॥२८॥
इति प्रार्थ्य तमादाय पूर्ववद् वाहनं नयेत् ।
तमारुह्य यथापूर्वं प्रासादमशनैर्नयेत् ॥२९॥
यात्राह्न्येव गृहं प्राप्य बिम्बे संक्रामयेत् ततः ।
दोषोऽन्यथा महानत्र कर्तॄणां भवति ध्रुवम् ॥३०॥
गत्वा गर्भगृहं पीठे निवेश्य सुसमाहितः ।
तोयेन गन्धपुष्पैश्च बुद्ध्याऽऽवाह्य समन्त्रकम् ॥३१॥
मूलबिम्बे यथान्यायां सर्वेण प्रतिरोपयेत् ।
यात्रादावन्ततश्चैवमावाहनविधिः स्मृतः ॥३२॥
सकलीकृतमाराध्य दत्त्वाऽर्ध्यं प्रणिपत्य च ।
निर्गच्छेद् द्वारमावृत्य ब्राह्मणांश्चात्र भोजयेत् ॥३३॥
निशि दद्याद् बलिं चैवं शुभयात्रा मयोदिता ।
अशुभा वास्तुसिद्ध्यर्था कथ्यमानाऽवधार्यताम् ॥३४॥
प्रासादे शिथिले जीर्णे मृद्बिम्बे चित्र एव वा ।
निष्क्रामयेन्नवे गेहे विधिनाऽनेन देवताम् ॥३५॥
पर्जन्ये वा जयन्ते वा दित्यदित्योश्च सम्भवात् ।
प्रागद्वारे पश्चिमद्वारे मृगदौवारिकस्थितम् ॥३६॥
प्रासादाभिमुखद्वारमल्पगेहं नवं शुभम् ।
एकभूमिकमग्रीवं मृद्भिः काष्ठैरथापि वा ॥३७॥
पीठं काष्ठमयं रम्यं सश्वभ्रं कारयेत् ततः ।
कुर्याल्लोहमयं बिम्बं दारवं वाऽस्त्रमापदि ॥३८॥
कृते कालावधौ सम्यक् संक्रामणमिहेष्यते ।
मासादि द्वादशाब्दान्तं कालमत्र प्रचक्षते ॥३९॥
नवं गेहं तु संशोध्य सर्वं कृत्वाऽथ पूर्ववत् ।
राक्षोघ्नमादितः कृत्वा सर्वकर्माण्यतश्चरेत् ॥४०॥
स्थापनोक्तविधानेन मण्डपं कारयेत् पुनः ।
ध्वजतोरणसंयुक्तं मण्डयेदङ्कुरादिभिः ॥४१॥
गव्यैरस्त्रेण सम्प्रोक्ष्य मध्ये स्वस्तिकमालिखेत् ।
व्रीहिभिः स्थण्डिलं कृत्वा तस्मिन् वासोभिरास्तरेत् ॥४२॥
तण्डुलान् निक्षिपेत् तस्मिन् कम्बलादिभिरास्तरेत् ।
कुशैर्वस्त्रैश्च पुष्पैश्च गन्धादिभिरथार्चयेत् ॥४३॥
जलेऽदिवास्य कर्मार्चां प्रक्षाल्य सलिलैः शुभैः ।
मृत्तोयैः पत्रतोयैश्च कषायैर्गव्यपञ्चकैः ॥४४॥
गन्धपुष्पैरलंकृत्य वस्त्रैराच्छाद्य शाययेत् ।
शङ्खभेर्यादिनादेन गन्धपुष्पादिसंयुतम् ॥४५॥
आ सप्तरात्रात् सन्ध्यासु देवताभ्यो बलिं हरेत् ।
शृण्वन्तु देवताः सर्वाः प्रासादमिममाश्रिताः ॥४६॥
यदुच्यमानमस्माभिरनुगृह्णन्तु तेन नः ।
पूर्वैः पूर्वं कृतमिदं देवालयमसारवत् ॥४७॥
प्राप्तं कालवशाद् भूयो वयं तत् कर्तुमुद्यताः ।
कालेनैतावता भूयः प्रासादेऽस्मिन् पुनर्नवे ॥४८॥
प्रापयामो वयं सत्यमित्युक्त्वा घोषयेद् बुधः ।
मासादर्वाक् तु कालश्चेत् तत्र संकोच इष्यते ॥४९॥
प्रासाददेहसंस्थानि सर्वतत्त्वान्यनुक्रमात् ।
देवताश्च तथा हृत्वा परिवारसमायुतम् ॥५०॥
ध्यात्वा संहारमार्गेण यथावद् देशिकोत्तमः ।
तेजोरूपं तु तत् सर्वं मूलबिम्बे नियोजयेत् ॥५१॥
तदूर्ध्वं च तथा कृत्वा संक्रामयितुमारभेत् ।
प्रविश्य गर्भगेहं तु मूर्तिपैः सहितो गुरुः ॥५२॥
पुण्याहं वाचयित्वाऽथ ब्राह्मणैः स्वस्ति वाचयेत् ।
देवस्य महतीं पूजां कृत्वा भक्त्या यथाविधि ॥५३॥
प्रणिपत्य पुरः स्थित्वा कार्यं विज्ञापयेच्छनैः ।
भगवन्! वास्त्वभिनवं बिम्बं च (वा) तव शोभनम् ॥५४॥
कारयिष्यन्ति ते भक्तास्तदनुज्ञातुमर्हसि ।
क्लेशवासस्त्वया देव! रोचनीयोऽल्पके गृहे ॥५५॥
यावन्नवं शुभं कृत्वा पुनः संस्थापयामहे ।
ततो लोहमयं कुम्भं शोधीतं सूत्रवेष्टितम् ॥५६॥
देवस्य पुरतो न्यस्य सपवित्राक्षतादिकम् ।
ततो निर्गम्य तैः सार्धं बिम्बसंस्कारमारभेत् ॥५७॥
संहारसृष्टियोगेन ध्यात्वा तत्त्वान्यनुक्रमात् ।
जननादिक्रमाद्धुत्वा तत्त्वान्यग्नौ यथाविधि ॥५८॥
निर्गत्य पृच्छेदाचार्यः कर्तॄन् कालावधिं पुनः ।
कियन्तं कालमत्रेशः प्रवासवसतिं वसेत् ॥५९॥
मासादूर्ध्वं द्वादशाब्दार्वाक् कालावधिः स्मृतः ।
नार्वाङ् नोर्ध्वं क्लेशवासं वासुदेवोऽनुमन्यते ॥६०॥
इति पृष्टास्तु ते ब्रूयुः कालावधिमसंशयम् ।
विश्राव्य कालनियमं देवता नीयते बहिः ॥६१॥
विज्ञापयेत् ततो देवं प्रविश्य सुसमाहितः ।
कालं कर्तृभिरुद्दिष्टं ततः कुर्यादिमं विधिम् ॥६२॥
यात्राहोमादिसंयुक्तं मुहुर्ते शोभने गुरुः ।
हुत्वा वास्तोष्पतिं सद्यो देवं निष्क्रामयेद् बहिः ॥६३॥
कलशं पूजयित्वाऽग्रे पूरितं वस्त्रवेष्टितम् ।
कुम्भे तस्मिन् विधानेन योगपीठं प्रकल्पयेत् ॥६४॥
सहेमरत्नगन्धाम्भोजाम्बूनदमयाम्बुजम् ।
आवाह्य विधिना तस्मिन् देवदेवं सनातनम् ॥६५॥
पञ्चोपनिषदैर्मन्त्रैर्मन्त्रमूर्तिसमन्वितम् ।
दत्त्वाऽर्व्यं पूजयित्वाऽत्र गन्धपूष्पैः प्रणम्य च ॥६६॥
वस्त्रादिवेष्टितं बिम्बं प्रयत्नात् परिकल्प्य च ।
कलशं धारयन् मूर्ध्ना निर्गच्छेद् वाग्यतो गुरूः ॥६७॥
शङ्खदुन्दुभिनिर्घोषैर्जयशब्दैश्च पुष्कलैः ।
गेहं प्रदक्षिणीकृत्य ब्रह्मघोषसमन्वितम् ॥६८॥
शनैः शनैर्व्रजेद् यत्नाद् वास्त्रालङ्कारभूषितः ।
शाकुनस्वस्तिसूक्ताब्यामतोदेवादिन तथा ॥६९॥
अन्तर्मण्डपमानीय स्थापयेच्छयने हरिम् ।
द्वादशाक्षरमन्त्रेण न्यासं मूलेन कल्पयेत् ॥७०॥
सूक्तेन च स्तुतिं कृत्वा पौरुषेण विचक्षणः ।
विष्णुसूक्तेन मूलेन द्विषट्केनाष्टकेन च ॥७१॥
नामभिःकेशवाद्यैश्च दद्यात् पुष्पाणि भक्तितः ।
शालितण्डुलसम्पूर्णाञ् जलपूर्णानथापि वा ॥७२॥
घटान् प्रागादि विन्यस्य केशवादीन् प्रपूजयेत् ।
प्रणवेनैव तान् सर्वान् देवादाहृत्य विन्यसेत् ॥७३॥
मूर्तिदेव्यो बहिः पूज्या मुद्रा दिक्पाश्च तद्बहिः ।
स्तुत्वाऽनुज्ञाप्य तं देवं प्रथमां शान्तिमभ्यसेत् ॥७४॥
दिक्कुण्डेष्वग्निमाधाय पूर्ववन्मूर्तिधारकाः ।
आधिवासनिकान् होमानारभेरन् यथापुरम् ॥७५॥
हुत्वा देवमनुज्ञाप्य कुर्याच्छान्तिं च देशिकः ।
स्पृष्ट्वा मन्त्रैस्ततो जप्त्वा क्षालयेद् गव्यपञ्चकैः ॥७६॥
व्यस्तैश्चैव समस्तैश्च कषायामलाकाम्बुभिः ।
हेममिश्रजलैः पश्चात् स्नापयेच्छुद्धवारिभिः ॥७७॥
सूक्तैः स्तुत्वाऽर्चयेद् देवं गन्धपुष्पादिभिः क्रमात् ।
कलशान् स्थापयेत् पश्चाद् द्वारदेशेषु सर्वतः ॥७८॥
द्रव्याणि पूजनार्थानि होमार्थानि च संहरेत् ।
तूर्यवादित्रहस्तांश्च कल्पयेत् कुशलान् बहून् ॥७९॥
एतत् सर्वमुपानीय निमित्तान्युपलक्ष्य च ।
स्थानानि देवतानां च कल्पयित्वा यथाक्रमम् ॥८०॥
दुःस्वप्नादिषु जातेषु प्रायश्चित्तानि कारयेत् ।
मूलेन जुहुयादाज्यं सहस्रं शतमेव वा ॥८१॥
पुण्याहजयघोषैश्च मुहूर्ते शोभने गुरुः ।
देवं प्रदक्षिणं कृत्वा लब्धानुज्ञः कृताञ्जलिः ॥८२॥
सम्पूज्य विधिना देवं पुण्याहजयमङ्गलैः ।
प्रणवेन तमुत्थाप्य शाकुनेन तु देशिकः ॥८३॥
स्वस्तिसूक्तेन चानीय प्रविशेत् सप्रदक्षिणम् ।
प्रविश्य तैः समादिष्टं कालं विज्ञाप्य विष्णवे ॥८४॥
स्थापयेत् प्रतिमां तत्र मन्त्रमेतमुदीरयेत् ।
भगवन्नल्पगेहेऽस्मिन् वासः क्लेशोऽपि ते हरे! ॥८५॥
वस्तव्यो भगवंस्तावद् यावद् गेहं समाप्यते ।
कारकस्य परामृद्धिमनुजानन् महोदयाम् ॥८६॥
भक्तानामनुकम्पार्थमिह त्वं स्थातुमर्हसि ।
इत्युक्त्वा किञ्चिदानम्य सिञ्चेत् तद्वारि मूर्धनि ॥८७॥
पञ्चोपनिषदान् मन्त्रान् घ्यात्वा सर्वेण देशिकः ।
सृष्टिन्यासं ततः कुर्यात् पौरुषं सूक्तमुच्चरेत् ॥८८॥
ततो मूर्त्या तु संयोज्य पूजयेत् कल्पवर्त्मना ।
कल्पयेत् परिवारांश्च दिशाहोमान् प्रकल्पयेत् ॥८९॥
दक्षिणां च ततो दद्यादन्नाद्यं चात्र कारयेत् ।
यन्नोक्तं तच्च वै कुर्यात् प्रतिष्ठाविधिना सुधीः ॥९०॥
निष्क्रामादिप्रवेशान्तं कर्ता स्यान्नियतो व
॥इति विष्णुसंहितायां एकविंशः पटलः॥
N/A
References : N/A
Last Updated : January 01, 2021
TOP