विष्णुसंहिता - सप्तमः पटलः

विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.


अथ वक्ष्यामि संक्षेपान्मुद्राणां लक्षणं परम् ।
न्यासादिषु प्रयुज्यन्ते यता मुद्राः सुगोपिताः ॥१॥
अञ्जलिः प्रथमा मुद्रा क्षिप्रं देवप्रसादनी ।
वन्दनी हृदयासक्ता किञ्चिद् दक्षिणतो नता ॥२॥
ऊर्ध्वाङ्गुष्ठो वाममुष्टिर्दक्षिणोऽङ्गुष्ठबन्धनः ।
वामस्य तस्य चाङ्गुष्ठो भवत्यूर्ध्वमुखः स्थितः ॥३॥
तिस्रः साधारणा मुद्रा मूर्तीनामिह किर्तिताः ।
पद्मासनगतो मूर्ध्नि कुर्यादञ्जलिबन्धनम् ॥४॥
मुद्रा ब्रह्माञ्जलिर्नाम देवसान्निध्यकारिणी ।
अनया बद्धया चैव नित्यं तुष्यन्ति देवताः ॥५॥
तस्मात् तु सर्वदेवानां मुद्रामेनां प्रदर्शयेत् ।
सम्मुखौ प्रसृतौ कृत्वा किञ्चिदाकुञ्चिताङ्गुली ॥६॥
अङ्गुष्ठाभ्यां लिखेदन्तर्मुंद्रैषाऽऽवाहिनी स्मृता ।
कृत्वा नताङ्गुली हस्तावूर्ध्वङ्गुष्ठौ तु चालयेत् ॥७॥
सान्निद्यमुद्रिका ज्ञेया न्यस्तवत् स्थापनी भवेत् ।
उभावन्तर्गताङ्गुष्ठै मुष्टी कुर्यान्निरोधिनी ॥८॥
संहतौ तु करौ कृत्वा मध्येऽङ्गुष्ठौ निपीडयेत् ।
प्रसार्य चाङ्गुलीः सर्वा मुद्रेयं परमेष्ठिनः ॥९॥
एकैकस्य क्रमादन्या अङ्गलीश्च नियोजयेत् ।
पुरुषादिक्रमेणैव सर्वमुद्राः प्रकल्पयेत् ॥१०॥
सप्तजन्मकृतं पापं यच्च पातकपञ्चकम् ।
मुद्रापञ्चकविज्ञानान्नश्यत्येव न संशयः ॥११॥
वामहस्तेन मुष्टिं तु कृत्वाऽङ्गुष्ठं समुच्छ्रितम् ।
हृदि संयोजयेदेतां गृहीत्वेतरमुष्टिना ॥१२॥
योनिमुद्रा त्वियं प्रोक्ता वैष्णवी भुक्तिमुक्तिदा ।
दर्शयेद् देवदेवस्य बद्‌ध्वा पद्मासनं पुरः ॥१३॥
दृष्ट्वैवं दर्शितां सद्यः प्रणामं यान्ति देवताः ।
यक्षविद्याधराद्याश्च भ्रमन्ति भयमोहिताः ॥१४॥
वामहस्तमथोत्तानं कृत्वोत्तानं च दक्षिणम् ।
संश्लिष्य भ्रामयेत् पश्चाद् ग्रथित्वा चाङ्गुलीः क्रमात् ॥१५॥
कोटिमुद्रा त्वियं प्रोक्ता देवदेवस्य च प्रिया ।
अनामामध्ययोर्मध्ये निवेश्याङ्गुष्ठमायतम् ॥१६॥
दक्षिणस्य तु हस्तस्य मुद्रेयं हृदये स्मृता ।
निर्वर्त्य मुष्टिमाहन्यादङ्गुष्ठाग्रेण तर्जनीम् ॥१७॥
स्थापयेत् तु ललाटान्ते मुद्रेयं शिरसि स्मृता ।
वर्तयित्वा दृढां मुष्टिं कुर्यादङ्गुष्ठमूर्ध्वगम् ॥१८॥
स्थापयेत् तां शिखादेशे शिखामुद्रा प्रकीर्तिता ।
सम्प्रवेश्यान्तरङ्गुष्ठौ वेष्टयित्वा समन्ततः ॥१९॥
संहरेत् तत्प्रदेशिन्यौ मुद्रेयं कवचे स्मृता ।
अग्रहस्तं परावृत्य बद्‌ध्वा नाराचमुष्टिवत् ॥२०॥
विसृजेत् तिर्यगायम्य मुद्रास्त्रस्येयमीरिता ।
भ्रूमध्ये स्थापयेद् बद्‌ध्वा शिखामुद्रामधोमुखीम् ॥२१॥
नेत्रमुद्रेयमाख्याता षडेतास्त्वङ्गमुद्रिकाः ।
आत्मरक्षणमेताभिः कर्तव्यं साधकैः सदा ॥२२॥
कृत्वाऽङ्गुष्ठौ समावूर्ध्वं बध्वा हस्तौ परस्परम् ।
योगसम्पुटमुद्रेयं ध्याने सर्वत्र युज्यते ॥२३॥
तथैवाच्छिद्रवत् कृत्वा कुर्यान्मूर्धन्यधोमुखीम् ।
अभिषेके प्रयोक्तव्या मुद्रेयं पावनी परा ॥२४॥
मणिबन्धसमौ हस्तावूर्ध्वं शाखाः प्रसारिताः ।
अन्तः प्रवेशिताङ्गुष्ठौ पद्ममुद्रासने स्मृता ॥२५॥
मणिबन्धसमौ हस्तौ तिर्यक् सम्भ्राम्य चक्रवत् ।
पर्यायेण प्रयोक्तव्या चक्रमुद्रा महोदया ॥२६॥
मुष्टिं कृत्वा तु हस्ताभ्यामङ्गुष्ठौ विनतावुभौ ।
युक्त्वा सम्भ्राम्य निर्मुक्तौ गदाख्या विघ्ननाशिनी ॥२७॥
निबध्य दक्षिणाङ्गुष्ठं वामहस्तस्थमुष्टिगम् ।
कृत्वा चाङ्गुष्ठतर्जन्यौ संयुक्ते प्रसृते समे ॥२८॥
तिस्रस्तु दक्षिणस्यान्या बध्नीयुर्मुष्टिमूर्ध्वतः ।
शङ्खमुद्रेयमुद्दिष्टा द्रव्याणां स्थापने परा ॥२९॥
धनुषस्तु धनुर्मुष्टिः शरमुष्टिः शरस्य च ।
खङ्गस्य कोशविश्लेषो मुद्रा खेटस्य मण्डलम् ॥३०॥
उभे कनिष्ठिके बद्‌ध्वा प्रदेशिन्यावुभे तथा ।
हस्तावुभौ परावृत्तावङ्गुष्ठौ सहितावधः ॥३१॥
मध्यमानामिके युक्ते चालयेत् पक्षयुग्मवत् ।
बद्धा गरुडमुद्रेयं वाहनादौ बलावहा ॥३२॥
विरलोर्ध्वाङ्गुलिं हस्तं कृत्वाऽऽयामेन दर्शयेत् ।
मुद्रानन्तस्य विज्ञेया शयनादौ प्रयुज्यते ॥३३॥
कृत्वोत्तानावुभौ हस्तौ सम्पुटाग्रौ प्रसारितौ ।
कुर्वीत प्रार्थनामुद्रां सान्निध्यादिषु सर्वदा ॥३४॥
श्रीवत्सकौस्तुभार्थः स्यादुरःस्पर्शो द्विपार्श्वगः ।
ऊर्ध्वमुद्रां प्रयुज्यादावुत्तानीकृत्य तां पुनः ॥३५॥
मुञ्चेद् वामकनिष्ठादिक्रमान्मूर्तिचतुष्टये ।
किञ्चिदाकुञ्चिताग्रास्तु योजयित्वाऽङ्गुलीः शनैः ॥३६॥
तर्जन्यौ मध्यमापृष्ठे योजयित्वा विचक्षणः ।
अङ्गुष्ठाभ्यां लिखेदन्तः शक्तीनां योनिसंज्ञिता ॥३७॥
वामहस्तेन सङ्गृह्य करं तिर्यक्प्रसारितम् ।
संहतं चालयेदेषा ध्वजमुद्रा प्रकीर्तिता ॥३८॥
मध्यानामान्तरेऽङ्गुष्ठो निर्गतो मध्यमानता ।
दक्षिणस्य तु मुष्टौ स्यान्मुद्रा वैनायकी स्मृता ॥३९॥
ऊर्ध्वाङ्गुष्ठो भवेन्मुष्टिर्लिङ्गमुद्रा शिवे स्मृता ।
तर्जयेद् वामतर्जन्या नासाग्रासन्नया जगत् ॥४०॥
विष्वक्सेनस्य सा मुद्रा जीर्णोद्धारादिषु स्मृता ।
मानसो रूपसङ्कल्पो मुद्रा मोक्षार्थिनां स्मृता ॥४१॥
इतरेषां तु हस्ताभ्यां प्रयोगः शस्यते बुधैः ।
नान्यसन्दर्शने मुद्रा नानिमित्तं च बन्धयेत् ॥४२॥
गुह्यमेतद्धि तन्त्रेषु तस्माद् रहसि योजयेत् ।
मुदं कुर्वन्ति देवानां राक्षसान् द्रावयन्ति च ॥४३॥
इत्येवं सर्वमुद्राणां मुद्रात्वं तान्त्रिका विदुः ।
पटान्ते बन्धयेन्मुद्रा नचापि कथयेद् बुधः ॥४४॥
कथनाज्जायते स्रंसस्तस्माद् गोप्याः सदा बुधैः ।
आनन्त्यादखिला मुद्रा वक्तुं ब्रह्मन्! न शक्यते ॥४५॥
देवतानां बहुत्वाच्च मुद्रोद्देशो मयेरितः ।
प्रणामप्रार्थनाद्यास्तु मुद्राः सर्वदिवौकसाम् ॥४६॥
अच्युतस्यापि पूजायामज्ञानां कल्पयेदिमाः ।
अलाभे सर्वमुद्राणामञ्जलिर्हिदि मूर्ध्नि वा ॥४७॥
सामान्यमुद्रा विज्ञेया सर्वेषां च दिवौकसाम् ।
मन्त्रश्च प्रणवो योज्यः सिद्धिरेवं भविष्यति ॥४८॥
पूर्वं कृत्वा करन्यासं मुद्राबन्धः शुभो भवेत् ।
अन्यथा विफलाः सर्वा भविष्यन्ति न संशयः ॥४९॥
वृथाऽन्यदर्शने वाऽपि प्रयुक्ता विफलास्तथा ।
कुप्यन्ति देवताश्चास्य सिद्धिमाशु हरन्ति च ॥५०॥
गुप्तं मुद्रागणं यस्तु यथाकालं प्रदर्शयेत् ।
कामाः सर्वेऽस्य सिध्यन्ति प्रीयन्ते चास्य देवताः ॥५१॥
सामान्याख्या विशेषाख्यास्तथाङ्गाख्याश्च कीर्तिताः ।
तथैव परिवाराख्या मुद्रा ह्येताश्चतुर्विधाः ॥५२॥
मध्यमानामिके विद्वानङ्गुष्ठाभ्यां तु पीडयेत् ।
कनिष्ठा तर्जनीयोज्या श्रीवत्सस्य प्रदर्शयेत् ॥५३॥
अनामा पृष्ठसंलग्ना दक्षिणस्य कनिष्ठिका ।
कनिष्ठया तु सङ्गृह्य तर्जन्याऽनामिकां तथा ॥५४॥
गृहीत्वाऽनामिकां मध्यामङ्गुष्ठं चोछ्रितं कुरु ।
तस्मिन्नङ्गुष्ठके श्लिष्टा वामहस्तस्य तर्जनी ॥५५॥
मध्यमे मध्यमां कृत्वा चाङुष्ठं मणिबन्धने ।
कौस्तुभस्य त्वियं मुद्रा दर्शनीया च साधकैः ॥५६॥
सम्मुखावुच्छ्रितौ हस्तौ व्योममध्ये विमोचयेत् ।
तर्जन्यङ्गुष्ठकौ श्लिष्य मालामुद्रां प्रदर्शयेत् ॥५७॥
एवं चतुर्विधा मुद्रा गोप्या यत्नेन सर्वदा ।
प्रयोज्याश्च यथाकालं साधकैः सिद्धिकाङ्क्षिभिः ॥५८॥

॥इति विष्णुसंहितायां सप्तमः पटलः॥

N/A

References : N/A
Last Updated : December 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP