संस्कृत सूची|संस्कृत साहित्य|संहिता|विष्णुसंहिता| पञ्चविंशः पटलः विष्णुसंहिता प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः विष्णुसंहिता - पञ्चविंशः पटलः विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत. Tags : samhitasanskritvishnuविष्णुसंस्कृतसंहिता पञ्चविंशः पटलः Translation - भाषांतर अथ वक्ष्यामि संक्षेपादुत्पातेषु च निष्कृतिम् ।संशोधनक्रमं चैव स्थानप्रतिमयोः क्रमात् ॥१॥उत्पतन्ति पुरस्तादित्युत्पाता भयशंसिनः ।दिव्यान्तरिक्षभौमास्ते ज्ञेयास्तन्त्रेषु कीर्तिताः ॥२॥प्रासादगर्भपीठार्चाः शरीरत्वेन शाङ्गिणः ।कल्पिताः सर्वदा रक्ष्या विप्रैरुत्पातशङ्कया ॥३॥उत्पातेषूपजातेषु न कार्या पूजना हरेः ।अस्पृश्याः प्रतिमापीठप्रासादाः साङ्गदेवताः ॥४॥अकृतायां तु निष्कृत्यां स्पष्टाः कुप्यन्ति देवताः ।पूजिता वा ततो यत्नान्निष्कृतिं कारयेद् द्रुतम् ॥५॥वितानाग्निनिभं विष्णोर्विम्बमुत्पातदूषितम् ।अकृतायां तु निष्कृत्यामपूज्यं सर्वथा बुधैः ॥६॥विलम्बने तु निष्कृत्या विनश्येद् देवसन्निधिः ।तत्स्थाः प्रेता भयं कुर्युर्व्याधिशोकादिभिर्नृणाम् ॥७॥पतनं चलनं स्वेदो हसनं चैव रोदनम् ।उत्पाटनं हृतिश्चोरैर्दाहः प्रध्वंसनं बलात् ॥८॥पीठप्रासादकेत्वस्त्रतोरणानां च पार्षदाम् ।भङ्गश्छत्राकवल्मीककृमिकीटादिसम्भवः ॥९॥श्वचोरव्रात्यपाषण्डिदेवलादिप्रवेशनम् ।अर्चनं चाप्यमन्त्रज्ञैरन्थभक्तैरदीक्षितैः ॥१०॥क्षुद्रान्यमन्त्रसंयोगः कालजीर्तिर्दिगाश्रयः ।उषितैर्नीरसैर्दुष्टैः प्रतिषिद्धैश्च पूजनम् ॥११॥अनाराधश्च निर्दोषः कालेपेक्षा प्रमादतः ।कलहो मरणं जन्म रक्तश्लेष्माश्रुपातनम् ॥१२॥एते चान्ये च विज्ञेया उत्पाता बहुदोषदाः ।तस्मात् सर्वप्रयत्नेन कर्तव्यमविलम्बितम् ॥१३॥प्रायश्चित्तं यथोत्साहमन्यथा सर्वनाशनम् ।महद् बहुषु चोग्रेषु निमित्तेषु विशेषतः ॥१४॥निमित्तेष्वल्पमल्पेषु सद्यो वा यत्र निष्कृतिः ।बिम्बपीठगृहालिन्दप्राङ्कणेषु यथातथम् ॥१५॥खननादिविधिं कुर्याद् यथादोषबलाबलम् ।खननं हरणं दाहः पूरणं गोनिवासनम् ॥१६॥विप्रोच्छिष्टं च गव्यं च सप्तैताः स्थानशुद्धयः ।खादिरस्फ्येन चास्त्रेण खात्वा हस्तादिमानतः ॥१७॥सदोषानखिलान् पात्रैर्हृत्वा पांसून् बहिः क्षिपेत् ।कुशदर्भादिभिर्दग्ध्वा तद्भस्मादि पुनर्हरेत् ॥१८॥सुमृद्भिः खातमापूर्य हस्तिपादैस्तु याज्ञिकैः ।गोमूत्रसिक्तमाकोट्य विप्रपादोदकैस्तथा ॥१९॥गां निवास्याशयेद् विप्रान् पायसं वैष्णवान् बहून् ।तदुच्छिष्टे हृते सिञ्चेद् गव्यैश्च विकिरैः किरेत् ॥२०॥स्थानशुद्धिरियं प्रोक्ता बिम्बशोधनमुच्यते ।क्षालनप्लावनस्नामार्जनानि यथाक्रमम् ॥२१॥धारावगाहनं पश्चादभिषैकोऽत्र सप्तमः ।क्षालनं दर्भमृत्त्वग्भिस्तूष्णीं तोयैश्च शोधनम् ॥२२॥गन्धपुष्पाक्षतोपैतैरमन्त्रैः प्लावनं जलैः ।सकूर्चैर्द्रव्ययुक्तैस्तैर्मन्त्रवत् स्नानमम्बुभिः ॥२३॥पात्रे यथोक्तमापूर्य तोयं मन्त्रैः प्रपूज्य च ।कूर्चाग्रैः प्रोक्षयेद् बिम्बं मन्त्रैस्तदिह मार्जनम् ॥२४॥संस्थाप्य धान्यकूर्चस्थमैशान्यां लोहसम्भवम् ।वारुणं पात्रमापूर्य सकूर्चं सलिलैः शुभैः ॥२५॥मत्स्यौ कूर्मौ च सौवर्णौ राजतौ चात्र निक्षिपेत् ।समृणालां सपुष्पां च पद्मिनीं क्षालितां तथा ॥२६॥वरुणं तत्र सम्पूज्य तीर्थं चावाह्य वैष्णवम् ।पालाशादित्रिपादस्थं दारापात्रं तु लोहजम् ॥२७॥सहेमच्छिद्रमापूर्य सकूर्चं प्रतिमोपरि ।धाराऽच्छिद्रा च कर्तव्या याममात्रं दिने दिने ॥२८॥समन्त्रं वारुणात् पात्रात् तोयं हृत्वाऽत्र पूरयेत् ।पञ्चोपनिषदो जप्या वाग्यतैर्दर्भपाणिभिः ॥२९॥स्पृशद्भिः पात्रमव्यग्रैर्ध्यायद्भिर्विष्णुमव्ययम् ।पौरुषं पावमानं च सूक्तमन्यच्च वैष्णवम् ॥३०॥संहिता वाऽखिलाऽन्येषां कार्योऽत्राद्यन्तयोर्जपः ।धारान्ते पूजयेद् देवमुद्वास्य वरुणं पुनः ॥३१॥न चाल्यं वारुणं पात्रं त्रिरात्रं यत्र जप्यते ।हृत्वाऽम्भः पुनरापूर्य पूर्ववत् सर्वमाचरेत् ॥३२॥गन्धतौयैः पयोभिर्वा धाराऽऽज्येनापि चोत्तमा ।कार्याऽत्रापि च कर्तव्यं तथा वरुमपूजनम् ॥३३॥सञ्च्छाद्यार्चां सुवासोभिर्दर्भैरथ समन्ततः ।संस्थाप्य याज्ञिकैः काष्ठैः कृतं पात्रं प्रमामतः ॥३४॥गव्यैर्व्यस्तैः समस्तैश्च गन्धोदान्तैर्यथाक्रमम् ।दिने दिने यथान्यायं कर्तव्यमवगाहनम् ॥३५॥पञ्च कुम्भांस्तु संस्थाप्य सकूर्चान् सूत्रवेष्टितान् ।गन्धपुष्पाक्षताम्भोभिः पूर्णानुपनिषत्क्रमात् ॥३६॥सपल्लवमुखान् न्यस्य चक्रिकाश्च सतण्डुलाः ।सम्पूज्य वाससाऽवेष्ट्य तैरेव त्वभिमन्त्रयेत् ॥३७॥पञ्चबिः स्नापयेदेवमभिषेकविधिः स्मृतः ।षोडश द्वादशाष्टौ वा दीक्षिता वैष्णवा द्विजाः ॥३८॥वैदेस्त्रिभिश्चतुर्भिर्वा नादयेयुर्दिवानिशम् ।नववस्त्रपरीधानाः स्वाचान्ता गुरुमूर्तिपाः ॥३९॥पुण्याहं वाचयित्वाऽत्र यथाविधि समाहिताः ।प्रोक्षयेयुश्च राक्षोघ्नैर्मन्त्रैः शान्तिकपौष्टिकैः ॥४०॥वैदिकैस्तान्त्रिकैश्चैव सर्वे दर्भाग्रपाणयः ।तच्छिष्टाद्भिर्गृहं प्रोक्ष्य बहिरन्तश्च सर्वतः ॥४१॥विकिरेत् पञ्चभिर्मन्त्रैः सगव्यैः सर्षपाक्षतैः ।मण्डपे शोधिते वह्निं संस्कृत्य विधिवत् ततः ॥४२॥जुहुयुर्मूर्तिपाः सर्वे कुण्डेष्वाचार्यसंयुताः ।कृत्वा प्रधानहोमान्तं सर्वत्राग्निमुखं क्रमात् ॥४३॥ध्यायन्तो विष्णुमव्यग्रा वह्निस्थं साङ्गमव्यम् ।पञ्चभिस्त्रिसहस्राज्यं जुहुयुः सर्ववह्निषु ॥४४॥ततः समिद्घृतव्रीहितिललाजसहस्रकम् ।क्रमादष्टाक्षरेणैव जुहुयुः सर्व एव ते ॥४५॥पालाशीनां घृताक्तानां समिधां द्वादशोत्तरम् ।शतं व्याहृतिभिः पश्चात् सर्वे ते जुहुयुस्ततः ॥४६॥क्षीरेणाष्टशतं दध्ना मधुनाऽऽज्येन च क्रमात् ।सावित्र्यैव तु ते सर्वे जुहुयुः सर्वशान्तये ॥४७॥होमावसान एतेभ्यो यजमानः स्वशक्तितः ।हिरण्यं दक्षिणां दद्यात् ततस्तैः स्वस्ति वाचयेत् ॥४८॥स्नपनं च यथोत्साहं कुर्यादधमवर्जितम् ।पादौ प्रक्षाल्य सम्पूज्य दद्यादाचार्यदक्षिणाम् ॥४९॥शक्त्या हिरण्यं क्षेत्रं च गां च विष्णुं विचिन्तयन् ।शतमष्टोत्तरं विप्रान् वैष्णवान् सम्यगर्चितान् ॥५०॥प्रणम्योनातिरिक्तादिशान्त्यर्थं वाचयेच्छिवम् ।चत्वारो मूर्तिपा हीने मध्येऽष्टौ द्वादशोत्तमे ॥५१॥सवस्त्राभरणा योज्या यथादोषबलाबलम् ।होमाध्ययनकर्त्तॄंश्च सदस्यान् वैष्णवान् द्विजान् ॥५२॥स्वशक्त्या पूजयेत् सर्वानन्नपानादिभिः शुभैः ।अद्भुतेष्वीशकोणेऽग्निं संस्कृत्य विधिवद् गुरुः ॥५३॥कृत्वा प्रधानहोमान्तं कुर्यादाज्याहुतीः पुनः ।पञ्चभिर्द्वादशाष्टार्णगायत्रीजितपौरुषैः ॥५४॥चतुर्विंशतिशो हुत्वा शतशो वा सहस्रशः ।अपामार्गसमिच्छिन्ना सहैन्द्री भद्रिकाञ्जलिः ॥५५॥दूर्वा सिद्धार्थकव्रीहियवास्तिलहविर्घृतम् ।इति हुत्वा ससम्पातं सगव्यं पञ्चमन्त्रितम् ॥५६॥तोयशेषं हृदा सिञ्चेद् यत्र मध्वादिसम्भवः ।स्नपनं च ततः कुर्यादष्टोत्तरशतादिकम् ॥५७॥स्वस्पृष्टां शोधयित्वाऽर्चां बहुशे गव्यशोधिताम् ।शुद्धाद्भिस्त्वग्रसैर्गन्धैस्तीर्थतोयैश्च शोधयेत् ॥५८॥पञ्चरात्रं त्रिरात्रं वा गवां वासं च कल्पयेत् ।ब्राह्मणान् भोजयेत् पश्चात् पुण्याहं चात्र वाचयेत् ॥५९॥वेदैश्च नादयेदिष्ट्वा निवेद्यान्नं बलिं हरेत् ।नादयेत् तूर्यघौषैश्च ततो होमादि कारयेत् ॥६०॥अश्वत्थैः खदिरैः प्लक्षैः पलाशैः पाटलैर्वटैः ।नारायणेन सूक्तेन श्रीसूक्तेन तथैव च ॥६१॥अतो देवेति सूक्तेन नासदंहोमुचा तथा ।संसमिद्भिद्रपादेन तथाऽरायीत्यनेन च ॥६२॥गायत्र्या पञ्चभिश्चात्र होतव्यं विधिनैव तु ।समाप्ते स्नपने दद्यात् पूर्ववच्चैव दक्षिणाम् ॥६३॥अनिमित्तेन निष्क्रान्तं पुनराशु प्रवेश्य तु ।शान्तिहोमं च कुर्वीत स्नपनं स्वस्तिवाचनम् ॥६४॥उत्सवं तीर्थयात्रां च ब्राह्मणानां च भोजनम् ।प्रसूते श्वसृगालाद्यैः शून्यं कृत्वा त्रिरात्रकम् ॥६५॥पूर्वोक्तं कारयेच्छान्तिं स्थानशुद्धिं च भूयसीम् ।दाहे पयस्विनीं धेनुं शान्तिनाम्ना समाह्वयेत् ॥६६॥दूर्वादिकं निवेद्यास्यै पद्मपत्रे पयो दुहेत् ।आतप्य दधि निर्मथ्य तत् संस्कृत्याज्यमाहरेत् ॥६७॥अपरेद्युस्तथा दुग्ध्वा दधि चैवं प्रकल्पयेत् ।तृतीयेऽह्नि शकृन्मूत्रं क्षीरं चैव तथाहरेत् ॥६८॥पद्मपत्रेषु सम्पूज्य क्रमान्मूत्रादिपञ्कम् ।पञ्चपत्रेषु संयोज्य मथित्वा प्रणवेन च ॥६९॥सम्पूज्याष्टसहस्रं तु पञ्चोपनिषदो जपेत् ।तेन सम्प्रोक्ष्य सर्वत्र स्नापयेत् प्रतिमां ततः ॥७०॥हृत्वा भस्मादिकं तोयैः प्लावयित्वा समन्ततः ।गोनिवासादि कर्तव्यं प्रायश्चित्तं यथाक्रमम् ॥७१॥चलं वा निश्चलं कुर्यादावाह्य कलशे बुधः ।अधिवास्य यथान्यायं कुर्याद्वाऽथ नवीक्रियाम् ॥७२॥भग्नमुद्धृत्य वा बिम्बं तथान्यत् स्थापयेद् बुधः ।सङ्क्रान्तमुद्धृते बिम्बे नवे संयोजयेत् पूनः ॥७३॥उद्वास्य सुस्थितं कुर्याद् बिम्बं पच्छिलया सह ।दुर्जनस्पर्शनादौ तु शुद्धिं कृत्वाऽस्य भूयसीम् ॥७४॥होमादि सकलं कुर्यादुत्सवान्तं विशेषतः ।चोराहृतिस्तु दोषाणामग्रणीः परिकीर्त्यते ॥७५॥तत्र यत्नेन कर्तव्यं विधानमतिविस्तरम् ।चोरैरपहृतं बिम्बं यदि यत्नेन लभ्यते ॥७६॥शोधयित्वा विधानेन स्थाप्यं तत्र तदेव तु ।अलब्धेऽपहृते भग्ने जीर्णे वाऽभिनवं पुनः ॥७७॥योनिरूपविशेषं तु न्यूनमप्यत्र नेष्यते ।प्रासादे सति तं ध्यात्वा सकलं बिम्बसंयुतम् ॥७८॥संहृत्यावाहयेद् विद्वान् कलशे मन्त्रपूर्वकम् ।गर्भगेहेऽस्य पीठे वा सत्यावाह्य तथैव तु ॥७९॥पीठं गर्भगृहं वाऽपि यदा तस्य न लभ्यते ।बिम्बस्थानात् तदावाह्य यथोक्तं विधिमाचरेत् ॥८०॥संक्रान्तस्य विनाशेऽपि कर्तव्यं मूलनाशवत् ।तदङ्गदेवतानाशे तद्वदेव प्रकीर्त्यते ॥८१॥यतस्तु देवताः सर्वा मन्त्रात्मानः प्रकीर्तिताः ।एवमेव विसर्गः स्यान्नाशे तासामिति स्थितिः ॥८२॥कर्तव्या पञ्चभिः शान्तिरपूजायां तु भूयसी ।शतहोमोऽष्टकेनाथ वैष्णवानां तु भोजनम् ॥८३॥दशानां पायसेनात्र देया शक्त्या च दक्षिणा ।द्वादशान्तमहःसंख्यागुणितः स्यादयं विधिः ॥८४॥स्नपनं चाचतुर्मासान्महास्नानमतः परम् ।वत्सरे शान्तिहोमेन युक्तं विप्रार्चनेन च ॥८५॥अभिमन्त्र्य हविः स्कन्नं दक्षिणेन तु पाणिना ।अष्टाक्षरेण होतव्यं शतमाज्येन पञ्चभिः ॥८६॥दुःशॉताद्यप्सु निक्षिप्य तथा हुत्वा परं पचेत् ।उषितेऽम्बुपयोमिश्रगव्यगन्धादिशोधनम् ॥८७॥पुण्याहं शान्तिहोमं च बलिमन्नाद्यमाचरेत् ॥८८॥॥इति विष्णुसंहितायां पञ्चविंशः पटलः॥ N/A References : N/A Last Updated : January 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP