विष्णुसंहिता - षड्विंशः पटलः
विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.
अथ वक्ष्यामि संक्षेपात् स्नपनस्य विधिं परम् ।
उत्तमादिविभागेन कर्तव्यं तु विचक्षणैः ॥१॥
स्थापितस्य चतुर्थेऽह्नि यात्रान्ते ग्रहणादिषु ।
उपसर्गेऽन्त्यसंसर्गे प्रधानपुरुषक्षये ॥२॥
दीक्षाभिषेकयागान्ते मङ्गल्ये मन्त्रसाधने ।
क्षुद्रान्यमन्त्रविन्यस्ते चिरलुप्ते च पूजने ॥३॥
असान्निध्येऽभिषेके च राज्ञां वृद्ध्यर्थमेव च ।
अज्ञातदोषशान्त्यर्थं प्रत्यब्दं च यथाविधि ॥४॥
कर्तव्यं स्नपनं भक्त्या निमित्तार्थानुसारतः ।
द्वादश्यां श्रवणे पुण्ये व्यतीपातेऽयनादिषु ॥५॥
जन्मर्क्षे यजमानस्य पौर्णमास्यां च कारयेत् ।
मण्डपं पूर्ववत् कृत्वा तोरणध्वजशोभितम् ॥६॥
मुक्तादामादिसङ्कीर्णं कुसुमोत्करमण्डितम् ।
कर्तव्या वेदिका मध्ये द्वात्रिंशद्यवमुच्छ्रिता ॥७॥
यावन्तः कलशा ग्राह्यास्तावान् वै वेदिविस्तरः ।
कुण्डानि कारयेद् दिक्षु मङ्गलानि च विन्यसेत् ॥८॥
ऐशान्यां स्थापिते पात्रे धान्यस्थे नववाससा ।
नदीतीर्थादिजं तोयं दीक्षितोत्पूतमाहरेत् ॥९॥
सम्पूज्य विष्णुगायत्र्या सपवित्रेण पाणिना ।
शतमष्टोत्तरं विद्वान् सकूर्चमभिमन्त्रयेत् ॥१०॥
इमा आपः शिवाः सन्तु शुभाः शुद्धाश्च निर्मलाः ।
पावनाः शीतलाश्चैव पूताः सूर्यस्य रश्मिभिः ॥११॥
इत्युक्त्वा शोधितां वेदिमापोहिष्ठादिभिस्त्रिभिः ।
प्रोक्ष्य गन्धाक्षतैर्गव्यैर्विकिरेच्च समन्ततः ॥१२॥
द्विषट्केनैन्द्रसौम्याग्राण्यथ सूत्राणि पातयेत् ।
कोष्ठानि चतुरश्राणि तालमात्राणि कल्पयेत् ॥१३॥
पूरयेदङ्गुलोत्सेधा रेखाः सर्वाः सिताः समाः ।
विकिरेन्मध्यतः किञ्चित् तेनैव रजसा समम् ॥१४॥
व्यत्ययात् पञ्चवर्णैर्वा कर्तव्यं पदपूरणम् ।
चतस्रो वीथयः कार्याः पूर्वाग्रा इतरास्तथा ॥१५॥
शुद्धोदकान्विते पक्षे द्रव्यस्नाने न वीथयः ।
मध्यमं तु पदं ब्राह्मं दैविकं तदनन्तरम् ॥१६॥
परितो मानुषं वाराः षोडशात्राष्ट दैविके ।
ब्राह्मे चाष्टदलं पद्मं कल्पयेत् कर्णिकोज्ज्वलम् ॥१७॥
सर्वत्र पीठिकाः कार्याश्चतुरङ्गुलमुच्छ्रिताः ।
शालिभिः कूर्चसंयुक्तैर्मध्ये सतिलतण्डुलैः ॥१८॥
गायत्र्याष्टशतं हुत्वा पूर्ववत् संस्कृतेऽनले ।
ततोऽधिवासयेच्छद्धान् कलशानुक्तलक्षणान् ॥१९॥
सूत्रेण विष्टितान् सर्वानङ्गुलाङ्गुलमानतः ।
तारेणाधोमुखान् न्यस्य पश्चिमे दर्भसंस्तरे ॥२०॥
अग्न्यादीशानपर्यन्तं पङ्क्तीकृत्य विचक्षणः ।
दर्भानुपरि विन्यस्य दर्भमुद्रां च दर्शयेत् ॥२१॥
प्रोक्ष्य गन्धोदकैः सर्वान् निकिरेदक्षतैः शुभैः ।
उत्तानीकृत्य चोद्धृत्य पञ्चभिः क्रमयोगतः ॥२२॥
ब्राह्ममानुषदैवेषु पदेषु विनिवेशयेत् ।
अष्टाक्षरेण कुम्भेषु ततः कूर्चानि विन्यसेत् ॥२३॥
शान्तिकेऽधोमुखान्येव पौष्टिके तून्मुखानि च ।
मूलेन तान् पुनः प्रोक्ष्य सपवित्रेण पाणिना ॥२४॥
प्रयतः प्राङ्मुखः पूर्वं ब्राह्मे स्नानोदकं न्यसेत् ।
मूलेन सर्वमूर्त्यङ्गपरिवारं हरिं स्मरन् ॥२५॥
गन्धपूष्पैस्तमाराध्य वस्त्राभ्यां वेष्टयेत् पुनः ।
पाद्यादीनि क्रमाद् द्रव्याण्यावाह्यावह्या दीक्षितैः ॥२६॥
पूरयेद् बहिरन्तश्च दिग्विदिक्षु समाहितः ।
पाद्यमैन्द्रे यमे वाऽर्ध्यमाचामं वारुणे न्यसेत् ॥२७॥
पञ्चगव्यं तथा सौम्ये घृतमाग्नेयगोचरे ।
नैर्ऋते दधि विन्यस्य वायव्ये क्षीरमेव च ॥२८॥
क्षौद्रमीशानदिग्भागे द्वादशाक्षरविद्यया ।
उष्णोदकं भृशे चाथ कषायं वितथे तथा ॥२९॥
मार्जनं भृङ्गराजे तु पुष्पदन्ते फलोदकम् ।
शोषे यवोदकं रत्नं मुख्ये लोहं तथाऽदितौ ॥३०॥
कुशोदकं तु पर्जन्ये यथावद् विनिवेशयेत् ।
गायत्र्या शेषकुम्भांस्तु पूरचेच्छुद्धवारिभिः ॥३१॥
गन्धाम्भोऽर्यमदेशेऽथ पुष्पतोयं विवस्वति ।
तथौपमानिकं मित्रे सुगन्धामलकं धरे ॥३२॥
सावित्रेऽक्षततोयं तु नालिकेरकमिन्द्रके ।
ऐक्षवं रुद्रदासे तु तथाऽऽपे तण्डुलोदकम् ॥३३॥
अष्टाक्षरेण सर्वांस्तान् दैविकान् पूरयेत् क्रमात् ।
पूरितान् पूरितान् सद्यः पल्लवैरुपशोभितान् ॥३४॥
चक्रमन्त्रेण विन्यस्य चक्रिकाश्च सतण्डुलाः ।
वासोबिर्वेष्टयेत् सर्वान् नवैः केशादिवर्जितैः ॥३५॥
दर्भान् न्यस्याक्षतांश्चैव मूलेन विकिरेत् क्रमात् ।
अष्टाक्षरेण सम्प्रोक्ष्य स्वमन्त्रैः पूजयेद् गुरुः ॥३६॥
प्रणवेन पुनः प्रोक्ष्य गन्धतोयेन चैव हि ।
दीक्षितैर्दिक्षु होमांश्च कारयित्वाऽधिवासयेत् ॥३७॥
शान्तिं च पञ्चभिर्हुत्वा कारयेत् स्वस्तिवाचनम् ।
देवसन्निधये चात्र मङ्गलायाघशान्तये ॥३८॥
आशिषो वाचयेद् विद्वान् कर्माविकलमस्त्विति ।
शान्तितोयमथानीय सम्पाताज्यसमायुतम् ॥३९॥
प्रोक्षयेत् कलशान् सर्वान् कूर्चाग्रेण पुनर्गुरुः ।
शुद्धा भवन्त्विमे कुम्भाः सकुशाः सपिधानकाः ॥४०॥
वातातपपरीताश्च शुभलक्षणसंयुताः ।
पञ्चविंशतिधा विष्णोस्तत्त्वभेदेन तिष्ठतः ॥४१॥
द्रव्येयत्ताश्रयाः सर्वाः सङ्गच्छन्तां विभूतयः ।
शास्त्रोदितमिदं चास्तु स्नपनं देवनिर्मितम् ॥४२॥
अनेन स्नपनेनास्तु प्रसन्नो भगवान् हरिः ।
इत्युक्त्वाऽन्यैः कृतानुज्ञो मूर्तिपैः सहितो गुरुः ॥४३॥
सोष्णीषः सोत्तरीयश्च कृतन्यासः स्वलङ्कृतः ।
नीराजनादिसंयुक्तो गच्छेद् गर्भगृहं ततः ॥४४॥
अष्टोत्तरशतं जप्त्वा मूलमन्त्रं पुरःस्थितः ।
द्वारं च वायुनोद्धाट्य दत्त्वाऽर्ध्यं वाग्यतः शुचिः ॥४५॥
विश्वेनाच्छादनं हृत्वा प्रक्षाल्य प्रणवेन च ।
सृष्टिक्रमेण तत्त्वैस्तु युक्तं ध्यात्वा सुरेश्वरम् ॥४६॥
सकलीकृत्य पाद्यार्ध्ये पुनर्दत्त्वा जितादिना ।
गायत्र्या कौतुकं छित्त्वा दद्यादाचमनं पुनः ॥४७॥
मर्ध्न्यक्षतान् सदूर्वाग्रान् पादयोश्चोमिति क्षिपेत् ।
नीराजयेत् त्रिरस्त्रेण मङ्गलानि हृदोद्दिशेत् ॥४८॥
शुभे तु तैजसे पात्रे शालितण्डुलपूरिते ।
अस्त्रैरश्वत्थपत्रस्थैर्नवगोमयकल्पितैः ॥४९॥
वर्णोज्ज्वलैर्यथाशोभं वर्धमानाज्यवर्तिभिः ।
उज्ज्वालाभिर्युतं मध्ये कुर्यान्नीराजनं त्विदम् ॥५०॥
पूजाद्रव्याणि कल्प्यानि शोभनान्यत्र दीक्षितैः ।
शालिष्टं निशाचूर्णं हेमरत्नाक्षतानि च ॥५१॥
स्नानोदकस्य चाङ्गानि संयोज्यानि समासतः ।
दूर्वास्यामाकपद्मानि विष्णुपर्णीति पाद्यकम् ॥५२॥
सिद्धार्थं गन्धपूष्पं च फलं यवतिलाक्षतम् ।
कुशाग्रं चार्घ्यमष्टाङ्गं कल्पयेच्च समासतः ॥५३॥
तक्कोलजातिकर्पूरलवङ्ककुसुमान्वितम् ।
चतुरङ्गं तथाचामं कल्पयेत् तत्र साधकः ॥५४॥
अश्वत्थोदुम्बरब्रह्मवटबिल्वविकङ्कतैः ।
शमीभिः खदिरैः कुर्यात् कषायं त्वग्भिरेव च ॥५५॥
सहा निशा सदाभद्रा शीरीषं सूर्यवर्तिनी ।
कुशाग्रं चषडङ्गानि मार्जने कथितानि तु ॥५६॥
कदलीनालिकेराम्रधात्रीपनसदाडिमैः ।
सभव्यबिल्वैरष्टाङ्गं फलतोयं च कल्पयेत् ॥५७॥
वज्रमौक्तिकवैडूर्यपद्मरागप्रवालकैः ।
पञ्चाङ्गं रत्नतोयं स्याल्लोहं हेमादिपञ्चकम् ॥५८॥
सेव्यार्त्यम्बुजटास्रायोमुरशीतैस्तु गन्धकम् ।
जातिस्त्रीमल्लिकाकुन्दनन्द्यावर्ताब्जचम्पकैः ॥५९॥
यूथिकाबकुलाभ्यां तु कर्तव्यं कुसुमोदकम् ।
शङ्खारितार्क्ष्यकूर्मैश्च लोहजैरौपमानिकम् ॥६०॥
आद्याङ्गमितरालाभे पाद्यादीनां प्रशस्तते ।
पितरः श्रीसरस्वत्यौ दक्षविष्णूशनेन्दवः ॥६१॥
इन्द्रार्कयमविश्वाख्याः कुबेरो वायुरप्यजः ।
वसवश्चैव सावित्री पाद्यादिद्रव्यदेवताः ॥६२॥
गन्धर्वो वरुमस्तार्क्ष्यो भूमिर्निर्ऋतिरेव च ।
श्रीधरश्च नृसिंहोऽश्वमुखो मध्ये परः पुमान् ॥६३॥
इदं विष्णुर्हिरण्यवर्णा आपोहिष्ठा प्रजापते ।
तेजोऽसि च दधिक्राव्ण आप्यायस्व तथा मधु ॥६४॥
अथाकृष्णेन चाश्वत्थे भद्रं कर्णेभिरेव च ।
गणानां वायवायाहि ब्रह्मजज्ञानमेव च ॥६५॥
उपत्वाग्ने देवस्यात्वा बहिर्मन्त्राः प्रकीर्तिताः ।
विष्णेरराटं तत्त्वा च सुवर्मं स्योनापृथिव्यपि ॥६६॥
शन्नो यादिव्या यासां च परोमात्रेति दैविके ।
मध्येऽतोदेवसूक्तं च सर्वत्रान्ते स्वपूरणम् ॥६७॥
पाद्यादिमध्यपर्यन्तं स्नानमत्र प्रकीर्तितम् ।
प्रतिद्रव्यं समभ्यर्च्य धूपयित्वा निवेदयेत् ॥६८॥
सकलीकृत्य मूलाङ्गैर्मुद्राः सम्यक् प्रदर्श्य च ।
नीराज्यार्ध्यादिभिः साङ्गं यथान्यायं प्रपूजयेत् ॥६९॥
एभिरेवाखिलद्रव्यैः स्नापयेदङ्गदेवताः ।
चतुर्विधं निवेद्यान्नं सोपदंशं घृताप्लुतम् ॥७०॥
बलिं च सर्वतो दद्याद् भूतेभ्यः सार्वकामिकम् ।
सार्ववर्णिकमन्नाद्यं कुर्याच्चैवानिवारितम् ॥७१॥
आचार्यं पूजयेत् कर्ता दक्षिणाभिः समूर्तिपम् ।
होमाध्ययनकर्तॄंश्च सदस्यान् वैष्णवांस्तथा ॥७२॥
ब्राह्मणान् वैष्णवाञ् शान्तान् सम्पूज्य द्वादशावरान् ।
शक्त्या च दक्षिणां दद्यात् कुर्यात् तैः स्वस्तिवाचनम् ॥७३॥
व्यत्यस्तोनातिरिक्तादिदोषशान्तिस्ततो भवेत् ।
द्रव्यैरूनशतार्धेन सैकाशीत्या शताष्टभिः ॥७४॥
षडध्यर्धशतैः सप्तदशाढ्यद्विशतेन च ।
सद्विपञ्चाशता तेन त्रिभिर्वा पञ्चभिः शतैः ॥७५॥
कुम्भोत्तरसहस्रान्तं स्नानमेवं प्रकल्पयेत् ।
इति सम्यक् समाख्यातं विष्णोः स्नपनमुत्तमम् ॥७६॥
ऐहिकामुत्रिकान् कामान् सग्यक्कृत्वा यदाप्नुयात् ॥७७॥
॥इति विष्णुसंहितायां षड्विंशः पटलः॥
N/A
References : N/A
Last Updated : January 01, 2021
TOP