संस्कृत सूची|संस्कृत साहित्य|संहिता|विष्णुसंहिता| चतुर्थः पटलः विष्णुसंहिता प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः विष्णुसंहिता - चतुर्थः पटलः विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत. Tags : samhitasanskritvishnuविष्णुसंस्कृतसंहिता चतुर्थः पटलः Translation - भाषांतर अथ वक्ष्यामि संक्षेपात् क्षेत्रक्षेत्रज्ञनिर्णयम् ।सृष्टिसंहारयोगं च भोक्तृभोज्यत्वसंयुतम् ॥१॥क्षेत्राख्या प्रकृतिर्ज्ञेया तद्वित् क्षेत्रज्ञ ईश्वरः ।उभयं चेदमत्यन्तमभिन्नमिव तिष्ठति ॥२॥अव्यक्तं बुद्ध्यहङ्कारौ तन्मात्राणीह पञ्च च ।एकादशेन्द्रियैर्भूतैः क्षेत्रमेवं प्रकीर्तितम् ॥३॥स्थूलसूक्ष्मविभागेन द्विधा क्षेत्रमवस्थितम् ।कार्यषोडशकं स्थूलं सूक्ष्मं बुद्ध्यादिमात्रजम् ॥४॥तदनित्यं च नित्यं च शरीरं सर्वदेहिनाम् ।पुर्यस्यामुषितो भोक्ता पुरुषश्चैष कथ्यते ॥५॥चिन्मात्रः पुरुषो व्यापी व्याप्या पूस्त्रिगुणा जडा ।तन्नियोगात् स्वतन्त्रेव सूते भावान् हरत्यपि ॥६॥परार्थाऽचेतनासूक्ष्मा त्रिगुणा नित्यविक्रिया ।प्रकृतिर्गुणभेदात् तु बुद्ध्यादिविकृतिस्त्रिधा ॥७॥सत्त्वं सुखं रजो दुःखं तमो मोहश्च ते गुणाः ।तेऽन्योन्याभिभवव्यक्तमिथुनाश्रयवृत्तयः ॥८॥लघुप्रकाशकं सत्त्वं क्रियानिर्बन्धकृद् रजः ।तमो गुरु निरोध्येते सितरक्तासिताः स्मृताः ॥९॥त्रिभिरेव गुणैरेतैः प्रकृतिस्थैः समन्विताः ।सर्वे भावा भवन्त्येते श्रेष्ठमध्यमकन्यसाः ॥१०॥प्रकृतेर्गुणसंयोगभेदैरेकोऽप्यनेकधा ।निर्गुणोऽपि पुमान् भाति स्फटिकोऽन्यैरिवान्वितः ॥११॥सात्त्विकैरर्चयेन्मुक्त्यै भावैर्भोगाय राजसैः ।तामसैः परपीडादौ मिश्रितैर्मिश्रसिद्धये ॥१२॥तस्मात् तं प्रत्युपासीनः सर्वान् भावानतन्द्रितः ।कुर्याच्च सात्त्विकानेव भावानन्योपमर्दनात् ॥१३॥महदाख्याऽष्टधा बुद्धिर्जाताऽव्यक्ताद् गुणैस्त्रिभिः ।चतुरेकत्रिभेदा सा बुद्धिरष्टविधा स्मृता ॥१४॥धर्मो ज्ञानं च वैराग्यमैश्वर्यं सत्त्वबुद्धयः ।अवैराग्यं रजोबुद्धिरधर्माद्यास्तमोधिकाः ॥१५॥यमश्च नियमो धर्मो मनोवाक्कायजक्रियः ।देवप्रसादनायासौ कर्तव्यो मोक्षकाङक्षिभिः ॥१६॥श्रद्धा धृतिः प्रसादाख्यो मानसो धर्म उत्तमः ।सत्यप्रियहितालापो वाग्धर्म इह कीर्तितः ॥१७॥शारीरः परिचर्याशुद्ध्यनुग्रहमयस्त्रिधा ।एते धर्मास्तु कर्तव्या वर्णाश्रमगताश्च ये ॥१८॥वैदिकास्तान्त्रिका वाऽस्य सिद्धिर्भवति नान्यथा ।ज्ञानं तु मोक्षधर्मार्थकामाङ्गत्वाच्चतुर्विधम् ॥१९॥द्विधा विवेकनिर्वेदकृतं वैराग्यमिष्यते ।आद्यमाभ्यन्तरं मुक्त्यै बाह्यमन्यत्तु बन्धनम् ॥२०॥जातो बुद्धेरहङ्कारस्त्रिविधस्त्रिगुणात्मकः ।येन जन्तुरनात्मानमात्मानमिव मन्यते ॥२१॥वैकृतः सात्त्विको गर्वो राजसस्तैजसाह्वयः ।भूतादिस्तामसो नाम्ना गर्वभेदा इमे स्मृताः ॥२२॥वैकारिकादहङ्कारात् पञ्च बुद्धीन्द्रियाणि च ।समुत्पन्नानि यैर्ज्ञानं नरस्यार्थेषु जायते ॥२३॥कर्मेन्द्रियाणि पञ्चैव कर्मार्थानि च तैजसात् ।मनो जातं द्विरूपं च ततः सङ्कल्पसाधनम् ॥२४॥मनः श्रोत्रादिषु ज्ञेयं चित्तं वागादिषु स्मृतम् ।भूतादेः पञ्च जातानि तन्मात्राणि यथाक्रमम् ॥२५॥शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।परमेष्ठ्यादयो ज्ञेया विष्णोस्ताः पञ्च शक्तयः ॥२६॥याभिरेष परो देवः परमे व्योम्नि तिष्ठति ।चिच्छक्तिः सर्वकार्यादिकूटस्था परमेष्ठ्यसौ ॥२७॥द्वितीया तस्य या शक्तिः पुरुषाक्यादिविक्रिया ।विश्वाख्या विविधाभासा तृतीया करणात्मिका ॥२८॥चतुर्थी विषयं प्राप्य निवृत्त्याख्या स्थिता पुनः ।पूर्णज्ञानक्रियाशक्तितः सर्वाख्या तस्य पञ्चमी ॥२९॥एताभिः शक्तिभिर्युक्तः परमात्मा निरञ्जनः ।उत्पत्तिस्थितिसंहारहेतुः स्यादक्रियोऽपि सन् ॥३०॥निग्रहानुग्रहौ चापि करोति जगतः प्रभुः ।एकैकोत्कर्षभेदेन पञ्चधा पञ्चशक्तिभिः ॥३१॥पञ्चात्मानः स्मृता ह्येते सूक्ष्मरूपा व्यवस्थिताः ।संसारविषयातीता योगगम्याः सनातनाः ॥३२॥एतत् सूक्ष्मशरीरं तु कथितं मूर्त्तिकारणम् ।तन्मात्रेभ्यस्तु भूतानि क्रमाज्जातानि पञ्च वै ॥३३॥व्योम वायुश्च तेजश्च जलं पृथ्वी च पञ्चमी ।एतत् स्थूलशरीरं तु सर्वाधारं प्रजायते ॥३४॥श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं बुद्धीन्द्रियाणि तु ।कर्मेन्द्रियाणि वाक्पाणिगुह्यपाय्वङ्घ्रयः स्मृताः ॥३५॥एवं सृष्टिः शरीरान्ता स्थूलसूक्ष्मविभागतः ।कीर्तिता ते मया सर्गविपरीतो लयक्रमः ॥३६॥यथैकसूक्ष्मदेहोऽपि देही जन्मनि जन्मनि ।देहैरनेकतामेति तता देवोऽपि मूर्तिभिः ॥३७॥परस्य पुरुषस्यैव शक्तयः कोटिशोऽपराः ।जातिनामस्वरूपाणां भेदाद् भिन्ना इव स्थिताः ॥३८॥शरीरं भौतिकं प्राप्य कर्मभिः स्वैरुपार्जितैः ।दीर्घं भ्रमन्ति संसारे ते वै संसारिणो जनाः ॥३९॥शुभेन कर्मणा यान्ति गतिमूर्ध्वमुखीं शुभाम् ।अशुभेनाशुभं चैव तथा गतिमधोमुखीम् ॥४०॥पुमांसो व्याकृते मग्नाश्चिद्रूपा अपि ते स्वतः ।अशक्ताः स्वं परं ज्ञातुमाश्रयध्वान्तमोहिताः ॥४१॥रागद्वेषादयस्तेषां दोषाः प्रकृतिसम्भवाः ।संसारवासनामेव कुर्वन्त्यस्य पृथग्विधाम् ॥४२॥तेषां सत्त्वगुणोद्रेके गतिर्देवत्वमिष्यते ।मानुष्यं रजसा प्रोक्तं तिर्यक्त्वं तमसा तथा ॥४३॥एवं शरीरिणः सर्वे गच्छन्ति विविधां गतिम् ।कालचक्रं समारुह्य भ्रमन्त्यज्ञानमायया ॥४४॥यत्र व्यस्ताः समस्ता वा धर्माद्याः सात्त्विका गुणाः ।स प्रियोऽस्याप्रियश्चान्यो यत्राधर्मादयः स्थिताः ॥४५॥प्रलयान्ते तु सम्प्राप्ते निर्व्यापारः परः पुमान् ।विज्ञानघनरूपोऽसौ परमे व्योम्नि तिष्ठति ॥४६॥यत एवमतो लब्ध्वा शरीरं सर्वसाधनम् ।शुभं कर्मैव कर्तव्यं तत्प्रसादाय मानवैः ॥४७॥प्रसादितेऽस्मिन् सर्वेषां स्ववर्णाश्रमकर्मभिः ।सर्वे हस्तगताः कामा मुक्तिश्चान्ते न दुर्लभा ॥४८॥कार्यार्था मूर्तयस्तस्य लोकानुग्रहहेतवः ।अतः साकारमिष्ट्वेमं भक्त्याप्याः सर्वसिद्धयः ॥४९॥भक्त्यैव परया तुष्टो देवदेवः स योगिनाम् ।पूजाद्यनुग्रहायादौ रूपं भेजे चतुर्भुजम् ॥५०॥तस्मात् तेनैव रूपेण ध्येयोऽर्च्यश्च सदा बुधैः ।आकारेऽस्मिन् कृता पूजा स्तुतिर्वा ध्यानमेव वा ॥५१॥विधिना शास्त्रदृष्टेन देव एव कृता भवेत् ।उदयायापरः पूज्यो निर्वाणाय परः पुमान् ॥५२॥पूर्वाह्णे चापराह्णे च पूजनं शस्यते तयोः ।श्याममष्टभुजं देवं कल्पयित्वा सवाहनम् ॥५३॥सायुधं सपरीवारमुदयार्थी प्रपूजयेत् ।शुद्धस्फटिकसङ्काशं शङ्खचक्रगदाधरम् ॥५४॥चतुर्भुजमनन्तस्थं यजेन्मोक्षाय भक्तितः ।सृष्टिबीजं विदुः पद्मं चक्रं स्थितिनिबन्धनम् ॥५५॥गदशङ्खौ च संहारमुक्त्यर्थौ सर्वदा स्मृतौ ।सर्वतत्त्वयुतस्यैव पूजा संहारमार्गतः ॥५६॥ध्यानं फलानपेक्षित्वमिति मोक्षार्थिनां क्रमः ।उत्तरोत्तरभूयिष्ठं कर्मवाग्बुद्ध्युपासनम् ॥५७॥तामसं राजसं चैव सात्त्विकं च तथा भवेत् ।समयोऽग्रे समाचारः स्वाध्यायो द्रव्यसङ्ग्रहः ॥५८॥बुद्धिर्यागः स्तितिर्ध्यानमित्येवं विधिरष्टधा ।द्विविधः पुरुषो भक्तो दीक्षितोऽदीक्षितस्तथा ॥५९॥दीक्षितः सर्वकर्ताऽन्यः समयार्चनमात्रभाक् ।क्रियार्चा समयो भक्तविश्वासः पूजनादरः ॥६०॥नः कथाश्रुतिः शान्तिरनाजीवो व्रताष्टकम् ।स्वारामोत्पादितैः पुष्पैर्वन्यैः क्रीतैस्तु वाऽर्चयेत् ॥६१॥प्रतिग्राह्यं न पूजार्थं दातुरेव फलं यतः ।अलाभे गन्धपुष्पाभ्याम् पुष्पैरपि समर्चयेत् ॥६२॥पुष्पालाभे तु तोयेन तोयालाभे तु चेतसा ॥६३॥॥इति विष्णुसंहितायां चतुर्थः पटलः॥ N/A References : N/A Last Updated : December 29, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP