संस्कृत सूची|संस्कृत साहित्य|संहिता|विष्णुसंहिता| अष्टादशः पटलः विष्णुसंहिता प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः विष्णुसंहिता - अष्टादशः पटलः विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत. Tags : samhitasanskritvishnuविष्णुसंस्कृतसंहिता अष्टादशः पटलः Translation - भाषांतर अथ वक्ष्यामि संक्षेपात् प्रतिष्ठाविधिमुत्तमम् ।वास्तुयागं पुरा कृत्वा मुहूर्त्ते स्थापनं भवेत् ॥१॥कृत्वा नान्दीमुखं शक्त्या षडष्टौ द्वादशाथवा ।भोजयेद् ब्राह्मणान् शान्तान् वैष्णवांस्तु विशेषतः ॥२॥दद्याद्वस्त्राङ्गुलीयादि हिरण्यं च स्वशक्तितः ।प्रासादस्य तु सर्वस्य मार्जनं कारयेत्ततः ॥३॥तताचाभ्यन्तरं दर्भैः सशलाकैः प्रयत्नतः ।पञ्चगव्येन गन्धैश्च प्रोक्ष्य मूलाभिमन्त्रितैः ॥४॥होमार्थं वालुकाभिस्तु प्रासादस्य समन्ततः ।कारयेच्चतुरश्राणि स्थण्डिलानि यथाक्रमम् ॥५॥दिक्षु चाष्टासु कृत्वैवमष्टौ च कलशान् न्यसेत् ।कुसुमोदकसम्पूर्णान् सपिधानान् सपल्लवान् ॥६॥सप्तसप्तविभागेन गर्भागारे विभाजिते ।ब्रह्मदेवमनुष्याणां पिशाचानां पदानि तु ॥७॥मध्यादारभ्य यत्नेन क्रमाद् ज्ञेयानि सर्वतः ।ब्राह्मः पञ्चदशांशः स्याद् देवभागास्त्रयोदश ॥८॥एकादश नवांशश्च शिष्टयोः पृष्ठभागतः ।गमनं त्रिविधं प्रोक्तं पृष्ठसौम्येसभेदतः ॥९॥कल्पनीयं यथान्यायं द्रव्यसंस्थानयोगतः ।स्थितासीनशयानानां स्थानानि परिकल्पयेत् ॥१०॥ब्रह्मांशे मध्यमं त्यक्त्वा द्वितीयं चापि पृष्ठतः ।स्थितैकबेरबिम्बस्य तृतीयं स्थानमिष्यते ॥११॥त्रिभक्ते द्वारविस्तारत्रिसप्तांशेषु मध्यमे ।मध्यार्धेनोत्तरे सूत्रं गमनार्थं प्रकल्पयेत् ॥१२॥पश्चिमोत्तरसंयोगे कर्णसूत्रं प्रकल्प्य तु ।बिम्बाङ्गुलियवेनैशे गमयेद् द्वियवेन वा ॥१३॥ब्रह्मभागं परित्यज्य स्थानार्चा स्थाप्यते यदि ।तन्मण्डलाधिपो राजा स्थापकश्च विनश्यति ॥१४॥क्रिया च निष्फलैव स्यात् तस्माद्यत्नेन मापयेत् ।किञ्चिन्मानुषमाश्रित्य कुर्यादासनकर्म च ॥१५॥देवमानुषभागाभ्यां कुर्याच्च शयनं बुधः ।अर्चनापीठिका ब्राह्मे स्थापना दैविके यदा ॥१६॥मानुषेऽस्य परीवाराः पैशाचे त्वायुधानि च ।कृत्वा पादशिलास्थानं वृत्तं वा चतुरश्रकम् ॥१७॥पादपीठस्य चाधस्तात् ततो ब्रह्मशीलां न्यसेत् ।त्वमेव परमा शक्तिस्त्वमेवासनधारिका ॥१८॥देवाज्ञया त्वया देवि! स्थातव्यमिह सर्वदा ।इति विज्ञाप्य तां पूर्वं गन्धपुष्पैः प्रपूजिताम् ॥१९॥ध्यात्वोर्वी स्थापयेद्गर्त्ते मन्त्रेणानेन देशिकः ।स्थितं चराचरं यस्यां रत्नानां निधिरव्ययः ॥२०॥सा त्वं ब्रह्मशिलारूपा तिष्ठात्र धरणि! स्थिरा ।एवं संस्थाप्य तां बूयो गन्धपुष्पैः प्रपूज्य च ॥२१॥रत्नन्यासं ततः कुर्याद् विधिदृष्टेन वर्त्मना ।गर्त्ताश्च निम्नावरणाश्चत्वारो विहिताः क्रमात् ॥२२॥मध्यान्तमष्टदिक्ष्वष्टौ न्यस्तव्यानि यथाक्रमम् ।तेषु बीजानि रत्नानि धातुलोहायुधानि च ॥२३॥सर्वद्रव्याणि संयोज्य ब्रह्मस्थाने तु विन्यसेत् ।ये गुणाः प्रथिता विष्णोरैश्वर्याष्टकसंज्ञया ॥२४॥तानि रत्नानि दिक्स्थानि न्यासकाले विचिन्तयेत् ।वायुव्योमान्तरस्थानि येषां बीजानि ते गुणाः ॥२५॥ईशित्वादिक्रमात् सम्यक् पूर्वाद्याशास्विह स्मृताः ।मध्ये तु प्रणवो ज्ञेयो गुणाष्टकयुतः पुमान् ॥२६॥शोधयेत् पञ्चगव्येन गर्त्तमष्टाक्षरेण तु ।प्रोक्षयेत् गन्धतोयैश्च द्वादशाक्षरविद्यया ॥२७॥होमकर्म ततः कुर्यात् प्रासादोत्तरपार्श्वतः ।लौकिकं चाग्निमानीय शरावेऽभिनेव ततः ॥२८॥वैष्णवीकरणं कुर्यात् संस्कृतं वह्निमानयेत् ।अष्टाक्षरेण जुहुयादाज्याहुतिसहस्रकम् ॥२९॥ततः समित्सस्रं च द्वादशाक्षरविद्यया ।हुत्वाऽऽज्यं चाथ गायत्र्या रत्नानि समुपस्पृशेत् ॥३०॥आज्याहुतिसंहस्रं वा गायत्त्र्यैवात्र होमयेत् ।अथवाऽष्टशतं मुख्यं मध्यमं चाधमं भवेत् ॥३१॥तया संस्पृश्य रत्नानि गर्त्तेषु विनिवेशयेत् ।न गर्त्तादधिकं द्रव्यं न हीनं च प्रकल्पयेत् ॥३२॥क्वचिद्द्रव्यसमं गर्तं कारयेत् कुशलो गुरुः ।अष्टाक्षरस्य वर्णैस्तु व्यस्तैरेव यथाक्रमम् ॥३३॥यवादीन् दिक्षु विन्यस्य मध्ये सिद्धार्थकं न्यसेत् ।ततो वज्रादिरत्नानि पद्मरागं च मध्यतः ॥३४॥मनः शिलादिधातूंश्च पारतं तं तथा न्यसेत् ।सुवर्णादीनि दिक्ष्वष्टौ मध्ये पद्मं हिरण्मयम् ॥३५॥संस्पृशेद् विष्णुगायत्रया ततो गर्त्तं सदक्षिणम् ।बीजादीनामलाभेऽपि तत्स्थानेषु यथाक्रमम् ॥३६॥शालिमुक्ताहरीतालसुवर्णानि न्यसेद् बुधः ।पुण्याहं वाचयेत् पूर्वं वैष्णवैः सह मन्त्रवित् ॥३७॥रत्नन्यासं ततः कृत्वा पिण्डिकां तत्र विन्यसेत् ।प्रणीय वैष्णवं वह्निमैशान्यां मूलविद्यया ॥३८॥जुहुयात् समिधो ब्राह्मीः सहस्रं शतमेव वा ।अष्टोत्तरमथाज्येन गायत्त्र्या विष्णुसंज्ञया ॥३९॥मूर्तिशक्तिभिरङ्गैश्च घृतमेव यताक्रमम् ।हुत्वा च शक्तितो विद्वान् शान्तितोयं समाहरेत् ॥४०॥ततश्चाग्निं समानीय वैष्णवैर्मन्त्रवित्तमैः ।होतव्यमष्टदिक्ष्वेवं समिद्भिर्मूलविद्यया ॥४१॥पलाशखदिराश्वत्थप्लक्षन्यग्रोधजास्तथा ।काश्मर्यो रोहिताश्चैव बिल्वोदुम्बरजाः क्रमात् ॥४२॥द्वादशाङ्गुलमानास्ताः समिधस्तु प्रकीर्तिताः ।कनिष्ठिकाप्रमाणाश्च पृथगष्टसहस्रिकाः ॥४३॥एवं कृत्वा दिशाहोमं शान्तिवारि समाहरेत् ।वैष्णवे ताम्रपात्रे तु सर्वकुम्भोपसंभृतम् ॥४४॥शतवारं तु मूलेन मन्त्रयित्वाऽथ देशिकः ।अष्टाक्षरस्य वर्णैस्तु पूरयित्वा प्रदक्षिणम् ॥४५॥प्रणवेन तु सम्पूज्य गन्धपुष्पैर्यथाक्रमम् ।करगुप्तं तदादाय सपिधानं सवस्त्रकम् ॥४६॥ध्यात्वाऽत्र परमं विष्णुं तेजोरूपमनामयम् ।कर्मार्चायास्ततो मूर्ध्नि सिञ्चेदोमित्युदाहरन् ॥४७॥सिक्त्वा तु प्रतिमामूर्ध्नि सर्वतीर्थमयं जलम् ।विसृज्टय वाससी पूर्वे वस्त्राभ्यां छादयेत् पुनः ॥४८॥गन्धपुष्पादिभिः सम्यग् यथाविभवमर्चयेत् ।उत्तिष्ठेति समुत्थाप्य शङ्खदुन्दुभिनिःस्वनैः ॥४९॥प्रतिमामानयेद् विद्वान् प्रासादस्य प्रदक्षिणम् ।अतो देवेति सूक्तेन मूर्तिपैः सहितो गुरुः ॥५०॥द्वारदेशें च दत्त्वाऽर्घ्यं मुहूर्ते शोभने ततः ।प्रवेशयेत् प्रयत्नेन प्रासादं देशिकोत्तमः ॥५१॥प्रवेश्यान्तर्यथा किञ्चिदधश्चोर्घ्वं न संस्पृशेत् ।पीठं प्रदक्षिणीकृत्य ततः सर्वेण विन्यसेत् ॥५२॥ध्यायेश्च परमं विष्णुं निष्कलं मन्त्रवित्तमः ।सुलग्ने स्थापयेद् ध्यात्वा सर्वतत्त्वमयं सुधीः ॥५३॥लोकानुग्रहहेत्वर्थं स्थिरीभव सुखाय नः ।सान्निध्यं हि सदा देव! प्रत्यहं परिवर्धय ॥५४॥मा भूत् प्रजाविरोधोऽस्मिन् यजमानः समृद्धयताम् ।सभूपालं तथा राष्ट्रं सर्वोपद्रववर्जितम् ॥५५॥क्षेमेण वृद्धिमतुलां सुखमक्षयमश्नुताम् ।इत्युक्त्वाऽग्रे पठेच्चास्य विश्वतश्चक्षुरित्यृचम् ॥५६॥सजीवकरणं कृत्वा पञ्चोपनिषदा क्रमात् ।शान्तिं हुत्वा यतान्यायं देवं तमभिषेचयेत् ॥५७॥ध्यात्वा तु निष्कलं विष्णुं सकलं भावयेत्ततः ।आकाशं तस्य मूर्तिः स्यात् पृथिवी तस्य पीठिका ॥५८॥विग्रहं कल्पयेत् तस्य तेजसः परमाणुभिः ।तेजोमयं ततो ध्यात्वा शङ्खचक्रगदाधरम् ॥५९॥मन्त्रन्यासं ततः कुर्यात् सर्गस्थित्यन्तभेदतः ।तेजोमयं ततो ध्यात्वा सकलं सकलेश्वरम् ॥६०॥निरुध्य प्रणवेनाथ विभक्तेन्द्रियविग्रहम् ।सर्वशक्तिसमायुक्तं सर्वावयवसुन्दरम् ॥६१॥पीताम्बरकिरीटादिप्रोज्ज्वलं प्रोज्ज्वलायुधम् ।अर्चयेत् सकलीकृत्य साङ्गं सावरणं ततः ॥६२॥दर्शयित्वाऽथ मुद्रां च प्रणमेद् दण्डवत् क्षितौ ।ब्रह्मादिपरिवारांस्तु स्वनाम्नाऽस्त्राणि विन्यसेत् ॥६३॥अर्चयित्वा स्वमुद्राश्च दर्शयेत् पार्षदान् पृथक् ।पूजयित्वा ततो देवं प्रणम्याञ्जलिमुद्रया ॥६४॥जपेदष्टशतं मूलमनुज्ञाप्य तमीश्वरम् ।निर्गम्याभिमुखो भूत्वा पुष्पतोयादिसंयुतम् ॥६५॥द्वारि चण्डं प्रचण्डं च देवदौवारिकावुभौ ।नमोन्तेन स्वनाम्ना तु स्थापयित्वा बलिं हरेत् ॥६६॥वैनतेयमनन्तं च गणेशं दक्षिणेश्वरम् ।लोकपालांश्च संस्थाप्य विष्वक्सेनं च पूजयेत् ॥६७॥लेप्येऽधिवास्य कर्मार्चां प्रवेश्य सुरमन्दिरम् ।इयं सा देव ते मूर्तिरोमित्युक्त्वाऽत्र विन्यसेत् ॥६८॥जीवन्यासादि सर्वं तु कर्तव्यमिह पूर्ववत् ।स्नानादीनि तु कर्माणि कर्मार्चायां प्रयोजयेत् ॥६९॥तत्त्वन्यासादि सर्वं तु मूलार्चायामिति स्थितिः ।विष्णुपारिषदान् सर्वान् बलिपीठे प्रकल्प्य तु ॥७०॥उपस्पृश्य कृतन्यासः प्रविस्यान्तर्गृहं सुधीः ।मूलमष्टशतं जप्त्वा देवं तमभिवादयेत् ॥७१॥स्तोत्रैर्नानाविधैः स्तुत्वा महापुरुषपूर्वंकैः ।प्रणाममुद्रया पश्चादष्टाङ्गं प्रणिपत्य च ॥७२॥नृत्तं गीतं च वाद्यं च विविधं कारयेत् ततः ।तत्रानिवारितं यत्नादन्नाद्यं चापि कारयेत् ॥७३॥आचार्यं पूजयेत् पश्चाद् दक्षिणाभिः समूर्तिपम् ।यागोपयोगि यद् द्रव्यं सर्वं चास्मै निवेदयेत् ॥७४॥वैष्णवान् पूजयेत् पश्चाद् यथाविभवविस्तरम् ।लाक्षा सर्जरसः शङ्खः सिकता कुरुविन्दकः ॥७५॥पुरं हिङ्गुलकं बोळा फलक्वाथेन बन्धनम् ।विमलाद्यष्टकं पेष्यं द्रवद्रव्यमनुग्रहाः ॥७६॥नवशक्तिमयो बन्धो लक्ष्मीमाधवयोर्भवेत् ।एवं कृत्वाऽष्टबन्धं तु घृताद्यैः पञ्चशक्तिभिः ॥७७॥कास्यहृद्गुह्यपादेषु कुर्याद् दूर्वाभिरर्पणम् ।ततः सम्पूज्य संहृत्य दर्भैर्वस्त्रैश्च वेष्टयेत् ॥७८॥तिथिहोमस्तु कर्तव्यस्तथा तिथ्यधिपस्य च ।ऋक्षहोमो वारहोमस्तद्देवत्यश्च मन्त्रिणा ॥७९॥मुहूर्तदेवताहोमो ग्रहहोमस्तथापरः ।सम्पातं योजयेत् तत्र कलशे तु पुनः पुनः ॥८०॥गुरुर्मूत्तिधरैः सार्धं सम्पूज्य कलशं ततः ।गृहीत्वा स्नापयेद् देवं कृत्वा पुण्याहमङ्गलम् ॥८१॥वादित्रशङ्खनादैश्च जयशब्दैश्च संयुतम् ।वैष्णवैश्च तदा सूक्तैर्जयशब्दैश्च नादयेत् ॥८२॥गन्धपुष्पैश्च वस्वैश्च धूपदीपैश्च पूजयेत् ।चतुर्विधं निवेद्यं च ततो देवाय कल्पयेत् ॥८३॥बलिं च विकिरेद् यत्नाद् ब्राह्मणैः स्वस्ति वाचयेत् ।एवं कृतेऽत्र तिथ्यृक्षवारराशिग्रहोद्भवाः ॥८४॥नश्यन्ति सकला दोषास्तस्मात् कार्यं तु सर्वथा ।यजमानं ततः पश्चाद् विष्णुकुम्भजलेन तु ॥८५॥स्नापयित्वाऽर्चनं कुर्यादाचार्यः स्वयमेव च ।ततः स गुरुणा सार्धं पत्न्या पुत्रैस्तथाऽनुजैः ॥८६॥सितवस्त्रधरो भक्त्या देवं तमभिवादयेत् ।त्रिधा कृत्वाऽऽत्मनो वित्तं भागं देवाय कल्पयेत् ॥८७॥भागं भार्यासुतादीनां भागमाचार्यदक्षिणाम् ।प्रीतिदानं च दातव्यं पूजोपकरणानि च ॥८८॥यो ददाति तदा किञ्चित् सर्वं बुहफलं भवेत् ।धूपदीपादि संस्थाप्य देवागारं तु घट्टयेत् ॥८९॥नोद्धाटयेत् ततः पश्चात् त्रीण्यहानि तु कश्चन ।दक्षिणान्नाद्यहोमैस्तु पूजा तत्र विधीयते ॥९०॥मन्त्रस्य प्रीणनं कुर्यात् स्थापिते पुरुषोत्तमे ।घृतेन पयसा दध्ना शुद्धतोयेन वा सकृत् ॥९१॥स्नापयित्वा तु कर्मार्चां ॥इति विष्णुसंहितायां अष्टादशः पटलः॥ N/A References : N/A Last Updated : January 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP