संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ७१

ब्रह्मपुराणम् - अध्यायः ७१

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथैकसप्ततितमोऽध्यायः
गङ्गोत्पत्तिकथोपक्रमः
नारद उवाच
त्रिदैवत्यं तु यत्तीर्थं सर्वेभ्यो ह्यक्तमुत्तमम् ।
तस्य स्वरूपभेदं च विस्तरेण ब्रवीतु मे ॥१॥

ब्रह्मोवाच
तावदन्यानि तीर्थानि तावत्ताः पुण्यभूमयः ।
तावद्यज्ञादयो यावत्त्रिदैवत्यं न दृश्यते ॥२॥

गङ्गेयं सरितां श्रेष्ठा सर्वकामप्रदायिनी ।
त्रिदैवत्या मुनिश्रेष्ठ तदुत्पत्तिमतः श्रुणु ॥३॥

वर्षाणामयुतात्पूर्वं देवकार्य उपस्थिते ।
तारको बालवानासीन्मद्वरादतिगर्वितः ॥४॥

देवानां परमैश्वर्यं हृतं तेन बलीयसा ।
ततस्ते शरणं जग्मुर्देवाः सेन्द्रपुरोगमाः ॥५॥

क्षीरोदशायिनं देवं जगतां प्रपितामहम् ।
कृताञ्जलिपुटा देवा विष्णुमूचुरनन्यगाः ॥६॥

देवा ऊचुः
त्वं त्राता जगतां नाथ देवानां कीर्तिवर्धन ।
सर्वेश्वर जगद्योने त्रयीमूर्ते नमोऽस्तु ते ॥७॥

लोकस्रष्टाऽसुरान्हन्ता त्वमेव जगतां पतिः ।
स्थित्युत्पत्तिविनाशानां कारणं त्वं जगन्मय ॥८॥

त्राता न कोऽप्यस्ति जगत्त्रयेऽपि, शरीरिणां सर्वविपद्गतानाम् ।
त्वया विना वारिजपत्रनेत्र, तापत्रयाणां शरणं न चान्यत् ॥९॥

पिता च माता जगतोऽखिलस्य, त्वमेव सेवासुलभोऽसि विष्णो ।
प्रसीद पाहीश महाभयेभ्योऽस्मदार्तिहन्ता वद कस्त्वदन्यः ॥१०॥

आदिकर्ता वराहस्त्वं मत्स्यः कूर्मस्तथैव च ।
इत्यादिरूपभेदैर्नो रक्षसे भय आगते ॥११॥

हृतस्वाम्यान्सुरगणान्हृतदारान्गतापदः ।
कस्मान्न रक्षसे देव अनन्यशरणान्हरे ॥१२॥

ब्रह्मोवाच
ततः प्रोवाच भगवाञ्शेषशायी जगत्पतिः ।
कस्माच्च भयमापन्नं तद्ब्रुवन्तु गतज्वराः ॥
ततः श्रियःपतिं प्राहुस्तं तारकवधं प्रति ॥१३॥

देवा ऊचुः
तारकाद्भयमापन्नं भीषणं रोमहर्षणम् ।
न युद्धैस्तपसा शापैर्हन्तुं नैव क्षमा वयम् ॥१४॥

अर्वाग्दशाहाद्यो बालस्तस्मान्मृत्युमवाप्स्यति ।
तस्माद्देव न चान्येभ्यस्तत्र नीतिर्विधीयताम् ॥१५॥

ब्रह्मोवाच
पुनर्नारायणः प्राह नाहं बलोत्कटः सुराः ।
न मत्तो मदपत्याच्च न देवेभ्यो वधो भवेत् ॥१६॥

ईश्वराध्यदि जायेत अपत्यं बहुशक्तिमत् ।
तस्माद्वधमवाप्नोति तारको लोकदारुणः ॥१७॥

तद्गच्छामः सुराः सर्वे यतितुमृषिभिः सह ।
भार्यार्थं प्रथमो यत्नः कर्तव्यः प्रभविष्णुभिः ॥१८॥

तथेत्युक्त्वा सुरगणा जग्मुस्ते च नगोत्तमम् ।
हिमवन्तं रत्नमयं मेनां च हिमवत्प्रियाम् ॥१९॥

इदमूचुः सर्वं एवं सभार्यं तुहिनं गिरिम् ॥२०॥

देवा ऊचुः
दाक्षायणी लोकमाता या शक्तिः संस्थिता गिरौ ।
बुद्धिः प्रज्ञा धृतिर्मेघा लज्जा पुष्टिः सरस्वती ॥२१॥

एवं त्वनेकधा लोके या स्थिता लोकपावनी ।
देवानां कार्यसिद्धर्थं युवयोर्गर्भमाविशत् ॥२२॥

समुत्पन्ना जगन्माता शंभोः पत्नी भविष्यति  ।
अस्माकं भवतां चापि पालनी च भविष्यति ॥२३॥

ब्रह्मोवाच
हिमवानपि तद्वाक्यं सुराणामभिनंद्य च ।
मेना चापि महोत्साहा अस्त्वित्येवं वचोऽब्रवीत् ॥२४॥

तदोत्पन्ना जगद्धात्री गौरी हिमवतो गृहे ।
शिवध्यानरता नित्यं तन्निष्ठा तन्मनोगता ॥२५॥

तां वै प्रोचुः सुरगणा ईशार्थे तप आविश ।
तथा हिमवतः पृष्ठे गौरी तेपे तपो महत् ॥२६॥

पुनः समन्त्रयामासुरीशो ध्यायति तां शिवाम् ।
आत्मानं वा तथाऽन्यद्वा न जानीमः कथं भवः ॥२७॥

मेनकायाः सुतायां तु चित्तं दध्यात्सुरेश्वरः ।
तत्र नीतिर्विधातव्या ततः श्रैष्ठ्यमवाप्स्यथ ॥
ततः प्राह महाबुद्धिर्वाचस्पतिरुदारधीः ॥२८॥

बृहस्पतिरुवाच
यस्त्वयं मदनो धीमान्कन्दर्पः पुष्पचापधृक् ।
स विध्यतु शिवं शान्तं बाणैः पुष्पमयैः शुभैः ॥२९॥

तेन विद्धस्त्रिनेत्रोऽपि ईशायां बुद्धिमादधेत् ।
परिणेष्यत्यसौ नूनं तदा तां गिरिजां हरः ॥३०॥

जयिनः पञ्चबाणस्य न बाणाः क्वापि कुण्ठिताः ।
तथोढायां जगद्धात्र्यां शंभोः पुत्रो भविष्यति ॥३१॥

जातः पुत्रस्त्रिनेत्रस्य तारकं हनिष्यति ।
वसन्तं च सहायार्थं शोभिष्ठं कुसुमाकरम् ॥३२॥

आह्लादनं च मनसा कामायैनं प्रयच्छथ ॥३३॥

ब्रह्मोवाच
तथेत्युक्त्वा सुरगणा मदनं कुसुमाकरम् ।
प्रेषयामासुरव्यग्राः शिवन्तिकमरिंदमाः ॥३४॥

स जगाम त्वरा कामो धृतचापो समाधवः ।
रत्या च सहितः कामः कर्तुः कर्म सुदुष्करम् ॥३५॥

गृहीत्वा सशरं चापमिदं तस्य मनोऽभवत् ।
मया वेध्यस्त्ववेध्यो वै शंभुर्लोकगुरुः प्रभुः ॥३६॥

त्रैलोक्यजयिनो बाणाः शंभौ मे किं दृढा न वा ।
तेनासौ चाग्निनेत्रेण भस्मशेषस्तदा कृतः ॥३७॥

तदेव कर्म सुदृढमीक्षितुं सुरसत्तमाः ।
आजग्मुस्तत्र यद्वृत्तं श्रृणु विस्मयकारकम् ॥३८॥

शंभुं दृष्ट्वा सुरगणा यावत्पश्यन्ति मन्मथम् ।
तावच्च भस्मासाद्भूतं कामं दृष्ट्वा भयातुराः ॥
तुष्टुवुस्त्रिशेशानं कृताञ्जलिपुटाः सुराः ॥३९॥

देवा ऊचुः
तारकाद्भयमापन्नं कुरु पत्नीं गिरेः सुताम् ॥४०॥

ब्रह्मोवाच
विद्धचित्तो हरोऽप्याशु मेने वाक्यं सुरोदितम् ।
अरुन्धतीं वसिष्ठं च मां तु चक्रधरं तथा ॥४१॥

प्रेषयामासुरमरा विवाहाय परस्परम् ।
संबन्धोऽपि तथाऽप्यासीद्धिमवल्लोकनाथयोः ॥४२॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे गङ्गोत्पत्तौ शंभुविवाहसंभवो नामैकसप्ततितमोऽध्यायः ॥७१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP