संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २१८

ब्रह्मपुराणम् - अध्यायः २१८

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अन्नदानप्रशंसावर्णनम्
मुनय ऊचुः
अधर्मस्य गतिर्ब्रह्मन्कथिता नस्त्वयाऽनघ ।
धर्मस्य च गतिं श्रोतुमिच्छामो वदतां वर ॥१॥

कृत्वा पापानि कर्माणि कथं यान्त्यशुभां गतिम् ।
कर्मणा च कृतेनेह केन यान्ति शुभां गतिम् ॥२॥

व्यास उवाच
कृत्वा पापानि कर्माणि त्वधर्मवशमागतः ।
मनसा विपरीतेन निरयं प्रतिपद्यते ॥३॥

मोहादधर्मं यः कृत्वा पुनः समनुतप्यते ।
मनः समाधिसंयुक्तो न स सेवेत दुष्कृतम् ॥४॥

यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हते ।
तथा तथा शरीरं तु तेनाधर्मेण मुच्यते ॥५॥

यदि विप्राः कथयते विप्राणां धर्मवादिनाम् ।
ततोऽधर्मकृतात्क्षिप्रमपराधात्प्रमुच्यते ॥६॥

यथा यथा नरः सम्यगधर्ममनुभाषते ।
समाहितेन मनसा विमुञ्चति तथा तथा ॥७॥

भुजंग इव निर्मोकान्पूर्वभुक्ताञ्जहाति तान् ।
दत्त्वा विप्रस्य दानानि विविधानि समाहितः ॥८॥

मनःसमाधिसंयुक्तः स्वर्गतिं प्रतिपद्यते ।
दानानि तु प्रवक्ष्यामि यानि दत्त्वा द्विजोत्तमाः ॥९॥

नरः कृत्वाऽप्यकार्याणि ततो धर्मेण युज्यते ।
सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम् ॥१०॥

सर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता ।
प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुः प्रजायते ॥११॥

अन्ने प्रतिष्ठिता लोकास्तस्मादन्नं प्रशस्यते ।
अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः ॥१२॥

अन्नस्य हि प्रदानेन स्वर्गमाप्नोति मानवः ।
न्यायलब्धं प्रदातव्यं द्विजातिभ्योऽन्नमुत्तमम् ॥१३॥

स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना ।
यस्य त्वन्नमुपाश्नन्ति ब्राह्मणाश्च सकृद्‌दश ॥१४॥

हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् ।
ब्राह्मणानं सहस्राणि दशाऽऽभोज्य द्विजोत्तमाः ॥१५॥

नरोऽधर्मात्प्रमुच्येत पापेष्पभिरतः सदा ।
भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः ॥१६॥

स्वाध्यायनिरते विप्रे दत्त्वेह सुखमेधते ।
अहिंसन्ब्राह्मणस्वानि न्यायेन परिपाल्य च ॥१७॥

क्षत्त्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति ।
द्विजेभ्यो वेदमुख्येभ्यः प्रयतः सुसमाहितः ॥१८॥

तेनापोहति धर्मात्मा दुष्कृतं कर्म भो द्विजाः ।
षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् ॥१९॥

वैश्यो ददद्‌द्विजातिभ्यः पापेभ्यः परिमुच्यते ।
अवाप्य प्रामसंदेहं कार्कश्येन समार्जितम् ॥२०॥

अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते ।
औरसेन बलेनान्नमर्जयित्वा विहिंसकः ॥२१॥

यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते ।
न्यायेनावाप्तमन्नं तु नरो हर्षसमन्वितः ॥२२॥

द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते ।
अन्नमूर्जस्करं लोके दत्त्वोर्दजस्वी भवेन्नरः ॥२३॥

सतां पन्थानमावृत्य सर्वपापैः प्रमुच्यते ।
दानविद्भिः कृतः पन्था येन यान्ति मनीषिणः ॥२४॥

तेष्वप्यन्नस्य दातारस्तेभ्यो धर्मः सनातनः ।
सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम् ॥२५॥

कार्यान्न्यायागतं नित्यमन्नं हि परमा गतिः ।
अन्नस्य हि प्रदानेन नरो याति परां गतिम् ॥२६॥

सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते सुखम् ।
एवं पुण्यसमायुक्तो नरः पापैः प्रमुच्यते ॥२७॥

तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम् ।
यस्तु प्राणाहुतीपूर्वमन्नं भुङ्क्ते गृही सदा ॥२८॥

अबन्ध्यं दिवसं सुर्यादन्नदानेन मानवः ।
भोजयित्वा शतं नित्यं नरो वेदविदां वरम् ॥२९॥

न्यायाविद्धर्मविदुषामितिहासविदां तथा ।
याति नरकं घोरं संसारं न च सेवते ॥३०॥

सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते सुखम् ।
एवं कर्मसमायुक्तो रमते विगतज्वरः ॥३१॥

रूपवान्कीर्तिमांश्चैव धनवांश्चोपजायते ।
एतद्वः सर्वमाख्यातमन्नदानफलं महत् ॥
मूलमेतत्तु धर्माणां प्रदानानां च भो द्विजाः ॥३२॥

इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे संसारचक्रेऽन्नदानप्रशंसावर्णनं नामाष्टादशाधिकद्विशततमोऽध्यायः ॥२१८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP