संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २३०

ब्रह्मपुराणम् - अध्यायः २३०

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


व्यास-मुनिसंवादे महाप्रलयवर्णनम्
मुनय ऊचुः
अस्माभिस्तु श्रुतं व्यास यत्त्वया समुदाहृतम् ।
प्रादुर्भावाश्रितं पुण्यं माया विष्णोश्च दुर्विदा ॥१॥

श्रोतुमिच्छामहे त्वत्तो यथावदुपसंहृतिम् ।
महाप्रलयसंज्ञां च कल्पान्ते च महामुने ॥२॥

व्यास उवाच
श्रुयतां भो मुनिश्रेष्ठा यथावदनुसंहृतिः ।
कल्पान्ते प्राकृते चेव प्रलये जायते यथा ॥३॥

अहोरात्रं पितॄणां तु मासोऽब्दं त्रिदिवौकसाम् ।
चतुर्युगसहस्रे तु ब्रह्मणोऽहर्द्विजोत्तमाः ॥४॥

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।
देवैर्वर्षसहस्रैस्तु तद्‌द्वादशभिरुच्यते ॥५॥

चतुर्युगाण्यशेषाणि सदृशानि स्वरूपतः ।
आद्यं कृतयुगं प्रोक्तं मुनयोऽन्त्यं तथा कलिम् ॥६॥

आद्ये कृतयुगे सर्गे ब्रह्मणा क्रियते यतः ।
क्रियते चोपसंहारस्तथाऽन्तेऽपि कलौ युगे ॥७॥

मुनय ऊचुः
कलेः स्वरूपं भगवन्विस्तराद्वक्तुर्मसि ।
धर्मश्चतुष्पाद्भगवान्यस्मिन्वैकल्यमृच्छति ॥८॥

व्यास उवाच
कलिस्वरूपं भो विप्रा यत्पृच्छध्वं ममानघाः ।
निबोधध्वं समासेन वर्तते यन्महत्तरम् ॥९॥

वर्णाश्रमाचारवती प्रवृत्तिर्न कलौ नृणाम् ।
न सामऋग्यजुर्वेदविनिष्पादनहैतुकी ॥१०॥

विवाहा न कलौ धर्मा न शिष्या गुरुसंस्थिताः ।
न पुत्रा धार्मिकाश्चैव न च वह्निक्रियाक्रमः ॥११॥

यत्र तत्र कुले जातो बली सर्वेश्वरः कलौ ।
सर्वेभ्य एव वर्णेभ्यो नरः कन्योपजीविनः ॥१२॥

येन तेनैव योगेन द्विजातिर्दीक्षितः कलौ ।
यैव सैव च विप्रेन्द्राः प्रायश्चित्तक्रिया कलौ ॥१३॥

सर्वमेव कलौ शास्त्रं यस्य यद्वचनं द्विजाः ।
देवताश्च कलौ सर्वाः सर्वः सर्वस्य चाऽऽश्रमः ॥१४॥

उपवासस्तथाऽऽयासो वित्तोत्सर्गस्तथा कलौ ।
धर्मो यथाभिरुचितैरनुष्ठानैरनुष्ठितः ॥१५॥

वित्तेन भविता पुंसां स्वल्पेनैव मदः कलौ ।
स्त्रीणां रूपमदश्चैव केशैरेव भविष्यति ॥१६॥

सुवर्णमणिरत्नादौ वस्त्रे चापक्षयं गते ।
कलौ स्त्रिया भविष्यन्ति तदा केशैरलंकृताः ॥१७॥

परित्यक्ष्यन्ति भर्तारं वित्तहीनं तथा स्त्रियः ।
भर्ता भविष्यति कलौ वितवानेव योषिताम् ॥१८॥

यो यो ददाति बहुलं स स स्वामी तदा नृणाम् ।
स्वामित्वहेतुसंबन्धो भविताऽभिजनस्तदा ॥१९॥

गृहान्ता द्रव्यसंघाता द्रव्यान्ता च तथा मतिः ।
अर्थाश्चाथोपभोगान्ता भविष्यन्ति तदा कलौ ॥२०॥

स्त्रियः कलौ भविष्यन्ति स्वैरिण्यो ललितस्पृहाः ।
अन्यायावाप्तवित्तेषु पुरुषेषु स्पृहालवः ॥२१॥

अभ्यर्थितोऽपि सुहृदा स्वार्थहानिं तु मानवः ।
पणस्यार्धामात्रेऽपि करिष्यति तदा द्विजाः ॥२२॥

सदा सपौरुषं चेतो भावि विप्र तदा कलौ ॥
क्षीरप्रदानसंबन्धि भाति गोषु च गौरवम् ॥२३॥

अनावृष्टिभयात्प्रायः प्रजाः क्षुद्भयकातराः ।
भविष्यन्ति तदा सर्वा गगनसक्तदृष्टयः ॥२४॥

मूलपर्णफलाहारस्तापसा इव मानवाः ।
आत्मानं घातयिष्यन्ति तदाऽवृष्ट्याऽभिदुःखिताः ॥२५॥

दुर्भिक्षमेव सततं सदा क्लेशमनीश्वराः ।
प्राप्स्यन्ति व्याहतसुखं प्रमादान्मानवाः कलौ ॥२६॥

अस्नातभोजिनो नाग्निदेवतातिथिपूजनम् ।
करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम् ॥२७॥

लोलुपा ह्रस्वदेहाश्च बह्वन्नादनतत्पराः ।
बहुप्रजाल्पभाग्याश्च भविष्यन्ति कलौ स्त्रियः ॥२८॥

उभाभ्यामथ पाणिभ्यां शिरः कण्डूयनं स्त्रियः ।
कुर्वत्यो गुरुभर्तॄमामाज्ञां भेत्स्यन्त्यनावृताः ॥२९॥

स्वपोषणपराः क्रुद्धा देहसंस्कारवर्जिताः ।
परुषानृतभाषिण्यो भविष्यन्ति कलौ स्त्रियः ॥३०॥

दुःशीला दुष्टशीलेषु कुर्वत्यः सततं स्पृहाम् ।
असद्धृता भविष्यन्ति पुरुषेषु कुलाङ्गनाः ॥३१॥

वेदादानं करिष्यन्ति वडवाश्च तथाऽव्रताः ।
गृहस्थाश्च न होष्यन्ति न दास्यन्त्युचितान्यपि ॥३२॥

भवेयुर्वनवासा वै ग्राम्याहारपरिग्रहाः ।
भिक्षवश्चापि पुत्रा हि स्नेहसंबन्धयन्त्रकाः ॥३३॥

अरक्षितारो हर्तारः शुल्कव्याजेन पार्थिवाः ।
हारिणो जनवित्तानां संप्राप्ते च कलौ युगे ॥३४॥

यो योऽश्वरथनागाढ्यः स स राजा भविष्यति ।
यश्च यश्चाबलः सर्वः स स भृत्यः कलौ युगे ॥३५॥

वैश्याः कृषिवणिज्यादि संत्यज्य निजकर्म यत् ।
शूद्रवृत्त्या भविष्यन्ति कारुकर्मोपजीविनः ॥३६॥

भैक्ष्यव्रतास्तथा शूद्राः प्रव्रज्यालिङ्गिनोऽधमाः ।
पाखण्डसंश्रयां वृत्तिमाश्रयिष्यन्त्यसंस्कृताः ॥३७॥

दुर्भिक्षकरपीडाभिरतीवापद्रुता जनाः ।
गोधूमान्नयवान्नाद्यान्देशान्यास्यन्ति दुःखिताः ॥३८॥

?Bवेदमार्गे प्रलीने च पाखण्डाढ्ये ततो जने ।
अधर्मवृद्ध्या लोकानामल्पमायुर्भविष्यति ॥३९॥

अशास्त्रविहितं घोरं तप्यमानेषु वै तपः ।
नरेषु नृपदोषेण बालमृत्युर्भविष्यति ॥४०॥

भवित्री योषितां सूतिः पञ्चषट्सप्तवार्षिकी ।
नवाष्टदशवर्षाणां मनुष्याणां तथा कलौ ॥४१॥

पलितोद्‌गमश्च भविता तदा द्वादशवर्षिकः ।
न जीविष्यति वै कश्चित्कलौ वर्षाणि विंशतिम् ॥४२॥

अल्पप्रज्ञा वृथालिङ्गा दुष्टान्तः करणाः कलौ ।
यतस्ततो विनश्यन्ति कालेनाल्पेन मानवाः ॥४३॥

यदा यदा हि पाखण्डवृत्तिरत्रोपलक्ष्यते ।
तदा तदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥४४॥

यदा यदा सतां हानिर्वेदमार्गनुसारिणाम् ।
तदा तदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥४५॥

प्रारम्भाश्चावसीदन्ति यदा धर्मकृतां नृणाम् ।
तदाऽनुमेयं प्राधान्यं कलेर्विप्रा विचक्षणैः ॥४६॥

यदा यदा न यज्ञानामीश्वरः पुरुषोत्तमः ।
इज्यते पुरुषैर्यज्ञैस्तदा ज्ञेयं कलेर्बलम् ॥४७॥

न प्रीतिर्वेदवादेषु पाखण्डेषु यदा रतिः ।
कलेर्वृद्धिस्तदा प्राज्ञैरनुमेया द्विजोत्तमाः ॥४८॥

कलौ जगत्पतिं विष्णुं सर्वस्रष्टारमीश्वरम् ।
नार्चयिष्यन्ति भो विप्राः पाखण्डोपहता नराः ॥४९॥

किं देवैः किं द्विजैर्वेदैः किं शौचेनाम्बुजल्प(न्म)ना ।
इत्येवं प्रलपिष्यन्ति पाखण्डोपहता नराः ॥५०॥

अल्पवृष्टिश्च पर्जन्यः स्वल्पं सस्यफलं तथा ।
फलं तथाऽल्पसारं च विप्राः प्राप्ते कलौ युगे ॥५१॥

जानुप्रायाणि वस्त्राणि शमीप्राया महीरुहाः ।
शूद्रप्रायास्तथा वर्णा भविष्यन्ति कलौ युगे ॥५२॥

अणुप्रायाणि धान्यानि आजप्रायं तथा पयः ।
भविष्यति कलौ प्राप्त औशीरं चानुलेपनम् ॥५३॥

श्वश्रूश्वशुरभूयिष्ठा गुरवश्च नृणां कलौ ।
शालाद्याहारिभार्याश्च सुहृदो मुनिसत्तमाः ॥५४॥

कस्य माता पिता कस्य यदा कर्मात्मकः पुमान् ।
इति चोदाहरिष्यन्ति श्वशुरानुगता नराः ॥५५॥

वाङ्मनः कायजैर्दोषैरभिभूताः पुनः पुनः ।
नराः पापान्यनुदिनं करिष्यन्त्यल्पमेधसः ॥५६॥

निःसत्यानामशौचानां निह्रीकाणां तथा द्विजाः ।
यद्यद्‌दुःखाय तत्सर्वं कलिकाले भविष्यति ॥५७॥

निःस्वाध्यायवषट्कारे स्वधास्वाहाविवर्जिते ।
तदा प्रविरलो विप्रः कश्चिल्लोकेभविष्यति ॥५८॥

तत्राल्पेनैव कालेन पुण्यस्कन्धमनुत्तमम् ।
करोति यः कृतयुगे क्रियते तपसा हि यः ॥५९॥

मुनय ऊचुः
कस्मिन्कालेऽल्पको धर्मो ददाति सुमहाफलम् ।
वक्तुमर्हस्यशेषेण श्रोतुं वाञ्छा प्रवर्तते ॥६०॥

व्यास उवाच
धन्ये कलौ भवेद्विप्रास्त्वल्पक्लेशैर्महत्फलम् ।
तथा भवेतां स्त्रीशूद्रौ धन्यौ चान्यन्निबोधत ॥६१॥

यत्कृते दशभिर्वर्षैस्त्रेतायां हायनेन तत् ।
द्वापरे तच्च मासेन अहोरात्रेण तत्कलौ ॥६२॥

तपसो ब्रह्मचर्यस्य जपादेश्च फलं द्विजाः ।
प्राप्नोति पुरुषस्तेन कलौ साध्विति भाषितुम् ॥६३॥

ध्यायन्कृते यजन्यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ।
यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ॥६४॥

धर्मोत्कर्षमतीवात्र प्राप्नोति पुरुषः कलौ ।
स्वल्पायासेन धर्मज्ञास्तेन तुष्टोऽस्म्यहं कलौ ॥६५॥

व्रतचर्यापरैर्ग्राह्या वेदाः पूर्वं द्विजातिभिः ।
ततस्तु धर्मसंप्राप्तैर्यष्टव्यं विधिवद्धनैः ॥६६॥

वृथा कथा वृथा भोज्यं वृथा स्वं च द्विजन्मनाम् ।
पतनाय तथा भाव्यं तैस्तु संयतिभिः सह ॥६७॥

असम्यक्करणे दोषास्तेषां सर्वेषु वस्तुषु ।
भोज्यपेयादिकं चैषां नेच्छाप्राप्तिकरं द्विजाः ॥६८॥

पारतन्त्र्यात्समस्तेषु तेषां कार्येषु वै ततः ।
लोकान्क्लेशेन महता यजन्ति विनयान्विताः ॥६९॥

द्विजशुश्रूषणेनैव पाकयज्ञाधिकारवान् ।
निजं जयति वै लोकं शूद्रो धन्यतरस्ततः ॥७०॥

भक्ष्याभक्ष्येषु नाशा(त्रा)स्ति येषां पापेषु वा यतः ।
नियमो मुनिशार्दूलास्तनासौ साध्वितीरितम् ॥७१॥

स्वधर्मस्याविरोधेन नरैर्लभ्यं धनं सदा ।
प्रतिपादनीयं पात्रेषु यष्टव्यं च यथाविधि ॥७२॥

तस्यार्जने महान्क्लेशः पालनेन द्विजोत्तमाः ।
तथा सद्विनियोगाय विज्ञेयं गहनं नृणाम् ॥७३॥

एभिरन्यैस्तथा क्लेशैः पुरुषा द्विजसत्तमाः ।
निजाञ्जयन्ति वै लोकान्प्राजापत्यादिकान्क्रमात् ॥७४॥

योषिच्छुश्रूषणाद्भर्तुः कर्मणा मनसा गिरा ।
एतद्विषयमाप्नोति तत्सालोक्यं यतो द्विजाः ॥७५॥

नातिक्लेशेन महता तानेव पुरुषो यथा ।
तृतीयं व्याहृतं तेन मया साध्विति योषितः ॥७६॥

एतद्वः कथितं विप्रा यन्निमित्तमिहाऽऽगताः ।
तत्पृच्छध्वं यथाकाममहं वक्ष्यामि वः स्फुटम् ॥७७॥

अल्पेनैव प्रयत्नेन धर्मः सिध्यति वै कलौ ।
नरैरात्मगुणाम्भोभिः क्षालिताखिलकिल्बिषैः ॥७८॥

शूद्रैश्च द्विजशुश्रूषातत्परैर्मुनिसत्तमाः ।
तथा स्त्रीभिरनायासात्पतिशुश्रुषयैव हि ॥७९॥

ततस्त्रितयमप्येतन्मम धन्यतमं मतम् ।
धर्मसंराधने क्लेशो द्विजातीनां कृतादिषु ॥८०॥

तथा स्वल्पेन तपसा सिद्धिं यास्यन्ति मानवाः ।
धन्या धर्मं चरिष्यन्ति युगान्ते मुनिसत्तमाः ॥८१॥

भवद्‌भिर्यदभिप्रेतं तदेतत्कथितं मया ।
अपृष्टेनापि धर्मज्ञाः किमन्यत्क्रियतां द्विजाः ॥८२॥

इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे भविष्यकथनं नाम त्रिंशदधिकद्विशततमोऽध्यायः ॥२३०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP