संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १८०

ब्रह्मपुराणम् - अध्यायः १८०

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


श्रीकृष्णचरिताराम्भः
व्यास उवाच
नमस्कृत्वा सुरेशाय विष्णवे प्रभविष्णवे ।
पूरुषाय पुराणाय शाश्वतायाव्ययाय च ॥१॥

चतुर्व्यूहात्मने तस्मै निर्गुणाय गुणाय च ।
वरिष्ठाय गरिष्ठाय वरेण्यायामिताय च ॥२॥

यज्ञाङ्गायाखिलाङ्गाय देवाद्यैरीप्सिताय च ।
यस्मादणुतरं नास्ति यस्मान्नास्ति बृहत्तरम् ॥३॥

येन विश्वमिदं व्याप्तमजेन सचराचरम् ।
आविर्भावतिरोभावदृष्टादृष्टविलक्षणम् ॥४॥

वदन्ति यत्सृष्टमिति तथैवाप्युपसंहृतम् ।
ब्रह्मणे चाऽऽदिदेवाय नमस्कृत्य समाधिना ॥५॥

आधिकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय जिष्णवे विष्णवे नमः ॥६॥

नमो हिरण्यगर्भाय हरये शंकराय च ।
वासुदेवाय ताराय सर्गस्थित्यन्तकारिणे ॥७॥

एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः ।
अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे ॥८॥

सर्गस्थितिविनाशानां जगतो यो जगन्मयः ।
मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥९॥

आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् ।
प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥१०॥

ज्ञानस्वरूपमत्यन्तं निर्मलं परमार्थतः ।
तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥११॥

विष्णुं ग्रसिष्णुं विश्वस्य स्थितिसर्गे तथा प्रभुम् ।
अनादिं जगतामीशमजमक्षयमव्ययम् ॥१२॥

कथयामि यथा पूर्वं यक्षाद्यैर्मुनिसत्तमैः ।
पृष्टः प्रोवाच भगवानब्जयोनिः पितामहः ॥१३॥

ऋक्सामान्युद्गिरन्वक्त्रैर्यः पुनाति जगत्त्रयम् ।
प्रणिपत्य तथेशानमेकार्णवविनिर्गतम् ॥१४॥

यस्यासुरगणा यज्ञान्विलुम्पन्ति न याजिनाम् ।
प्रवक्ष्यामि मतं कृत्स्नं ब्रह्मणोऽव्यक्तजन्मनः ॥१५॥

येन सृष्टिं समुद्दिश्य धर्माद्याः प्रकटीकृताः ।
आपो नारा इति प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ॥१६॥

अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ।
स देवो भगवान्सर्वं व्याप्य नारायणो विभुः ॥१७॥

चतुर्धा संस्थितो ब्रह्मा सगुणो निर्गुणस्तथा ।
एका मूर्तिरनुद्देश्या शुक्लां पश्यन्ति तां बुधाः ॥१८॥

ज्वालामालावनद्धाङ्गी निष्ठा सा योगिनां परा ।
दूरस्था चान्तिकस्था च विज्ञेया सा गुणातिगा ॥१९॥

वासुदेवाभिधानाऽसौ निर्ममत्वेन दृश्यते ।
रूपवर्णादयस्तस्या न भावाः कल्पनामयाः ॥२०॥

आस्ते च सा सदा शुद्धा सुप्रतिष्ठैकरूपिणी ।
द्वितीय पृथिवीं मूर्ध्ना शेषाख्या धारयत्यधः ॥२१॥

तामसी सा समाख्याता तिर्यक्त्वं समुपागता ।
तृतीया कर्म कुरुते प्रजापालनतत्परा ॥२२॥

सत्त्वोद्रिक्ता तु सा ज्ञेया धर्मसंस्थानकारिणी ।
चतुर्थी जलमध्यस्था शेते पन्नगतल्पगा ॥२३॥

रजस्तस्या गुणः सर्गं सा करोति सदैव हि ।
या तृतीया हरेर्मुतिः प्रजापालनतत्परा ॥२४॥

सा तु धर्मव्यवस्थानं करोति नियतं भुवि ।
प्रोद्धतानसुरान्हन्ति धर्मव्युच्छित्तिकारिणः ॥२५॥

पाति देवान्सगन्धर्वान्धर्मरक्षापरायणान् ।
यदा यदा च धर्मस्य ग्लानिः समुपजायते ॥२६॥

अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजत्यसौ ॥
भूत्वा पुरा वराहेण तुण्डेनापो निरस्य च ॥२७॥

एकया दंष्ट्रयोत्खाता नलीनीव वसुंधरा ।
कृत्वा नृसिंहरूपं च हिरण्यकशिपुर्हतः ॥२८॥

विप्रचित्तिमुखाश्चान्ये दानवा विनिपातिताः ।
वामनं रूपमास्थाय बलिं संयम्य मायया ॥२९॥

त्रैलोक्यं क्रान्तवानेव विनिर्जित्वा दितेः सुतान् ।
भृगोर्वंशे समुत्पन्नो जामदग्न्यः प्रतापवान् ॥३०॥

जघान क्षत्रियान्रामः पितुर्वधमनुस्मरन् ।
तथाऽत्रितनयो भूत्वा दत्तात्रेयः प्रतापवान् ॥३१॥

योगमष्टाङ्गमाचख्यावलर्काय महात्मने ।
रामो दाशरथिर्भूत्वा स तु देवः प्रतापवान् ॥३२॥

जघान रावणं संख्ये त्रैलोक्यस्य भयंकरम् ।
यदा चैकार्णवे सुप्तो देवदेवो जगत्पतिः ॥३३॥

सहस्रयुगपर्यनतं नागपर्यङ्कगो विभुः ।
योगनिद्रां समास्थाय स्वे महिम्नि व्यवस्थितः ॥३४॥

त्रैलोक्यमुदरे कृत्वा जगत्स्थावरजङ्मम् ।
जनलोकगतैः सिद्धैः स्तूयमानो महर्षिभिः ॥३५॥

तस्य नाभौ समुत्पन्नं पद्मं दिक्पत्रमण्डितम् ।
मरुत्किञ्ल्कसंयुक्तं गृहं पैतामहं वरम् ॥३६॥

यत्र ब्रह्मा समुत्पन्नो देवदेवश्चतुर्मुखः ।
तदा कर्णमलोद्‌भूतौ दानवौ मधुकैटभौ ॥३७॥

महाबलौ महावीर्यौ ब्रह्माणं हन्तुमुद्यतौ ।
जघान तौ हुराधर्षौ उत्थाय शयनोदधेः ॥३८॥

एवमादींस्तथैवान्यानसंख्यातुमिहोत्सहे ।
अवतारो ह्यजस्येह माथुरः सांप्रतस्त्वयम् ॥३९॥

इति सा सात्त्विकी मूर्तिरवतारं करोति च ।
प्रद्युम्नेति समाख्याता रक्षाकर्मण्यवस्थिता ॥४०॥

देवत्वेऽथ मुनिष्यत्वे तिर्यग्योनौ च संस्थिता ।
गृह्‌णाति तत्स्वभावश्च वासुदेवेच्छया सदा ॥४१॥

ददात्यभिमतान्कामान्पूजिता सा द्विजोत्तमाः  ।
एवं मया समाख्यातः कृतकृत्योऽपि यः प्रभुः ॥
मानुषत्वं गतो विष्णुः श्रृणुध्वं चोत्तरं पुनः ॥४२॥

इति श्रीमहापुराणे आदिब्राह्मे व्यासऋषिसंवादे चतुर्व्यहवर्णनं नामाशीत्यधिककशततमोऽध्यायः ॥१८०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP