संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १५६

ब्रह्मपुराणम् - अध्यायः १५६

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


शङ्खह्रदतीर्थवर्णनम्
ब्रह्मोवाच
शङ्खहृदं नाम तीर्थं यत्र शङ्खगदाधरः ।
तत्र स्नात्वा च तं दृष्ट्वा मुच्यते भवबन्धनात् ॥१॥

तत्रेदं वृत्तमाख्यास्ये भुक्तिमुक्तिप्रदायकम् ।
पुरा कृतयुगस्याऽऽदौ ब्रह्मणः सामगायिनः ॥२॥

ब्रह्माण्डागारसंभूता राक्षसा बहुरूपिणः ।
ब्रह्माणं खादितुं प्राप्ता बलोन्मत्ता धृतायुधाः ॥३॥

तदाऽहब्रवं विष्णुं रक्षणाय जगद्‌गुरुम् ।
स विष्णुस्तानि रक्षांसि हन्तुं चक्रेण चोद्यतः ॥४॥

छित्त्वा चक्रेण रक्षांसि शङ्खमापूरयतदा ।
निष्कण्टकं तलं कृत्वा स्वर्गं निर्वैरमेव च ॥५॥

ततो हर्षप्रकर्षेण शङ्खमापूरयद्धरिः ।
ततो रक्षांसि सर्वाणि ह्यनीनशुरशेषतः ॥६॥

यत्रैतद्‌वृत्तमखिलं विष्णुशङ्खप्रभावतः ।
शङ्खतीर्थं तु तत्प्रोक्तं सर्वक्षेमकरं नृणाम् ॥७॥

सर्वाभीष्टप्रदं पुण्यं स्मरणान्मङ्गलप्रदम् ।
आयुरारोग्यजननं लक्ष्मीपुत्रप्रवर्धनम् ॥८॥

स्मरणात्पठनाद्वाऽपि सर्वकामानवाप्नुयात् ।
तीर्थानामयुतं तत्र सर्वपापनुदं मुने ॥९॥

तीर्थान्ययुतसंख्यानि सर्वपापहराणि च ।
येषां प्रभावं जानाति वक्तुं देवो महेश्वरः ॥१०॥

पापक्षयप्रतिनिधिर्नैतेभ्योऽस्त्यपरः क्वचित् ॥११॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये शङ्खतीर्थाद्ययुततीर्थवर्णनं नाम षट्पञ्चाशदधिकशततमोऽध्यायः ॥१५६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP