संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २

ब्रह्मपुराणम् - अध्यायः २

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


तत्रादौ स्वायम्भुवमनुवंशवर्णनम्
लोमहर्षम उवाच ।
स सृष्ट्वा पु प्रजास्त्वेवमापवो वै प्रजापितः ।
लेक्षे वै पुरुषः पत्नीं शतरूपमयोनिजाम् ॥१॥

आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः ।
धर्मैणैव मुनिश्रेष्ठाः शतरूपा व्यजायत  ॥२॥

सा तु वर्षायुतं तप्त्वा तपः परमदुश्चरम् ।
भर्त्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ॥३॥

स वै स्वायम्भुवो विप्राः पुरुषो मनुरुच्यते ।
तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते ॥४ ॥

वैराजात् पुरुषाद्वीरं शतरूपा व्यजायत ।
पि३यव्रतोत्तानपादौ वीरात् काम्या व्यजायत ॥५॥

काम्या नाम सूता श्रेष्ठा कर्दमस्य प्रजापतेः ।
काम्यापुत्रास्तु चत्वारः सम्राट् कुक्षिर्विराट्प्रभुः ॥६॥

उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः ।
उत्तानपाटाच्चतुरः सूनृता सुषुवे सुतान् ॥७॥

धर्म्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता ।
उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शूभा ॥८॥

ध्रुवञ्च कीर्त्तिमन्तञ्च आयुष्मन्तं वसुं तथा ।
उत्तानपादोऽजनयत् सूनृतायां प्रजापतिः ॥९॥

ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भो द्विजाः ।
तपस्तेपे महाभागः प्रार्थयन् सुमहद्यशः ॥१०॥

तस्मै ब्रह्मा ददौ प्रीतः स्थानमात्मसमं प्रभुः ।
अटलञ्चैव पुरतः सप्तर्षीणां प्रजापतिः ॥११॥

तस्याभिमानमृद्धिञ्च महिमानं निरीक्ष्य च ।
 देवासुराणामाचार्य्यः श्लोकं प्रागुशना जगौ ॥१२॥

अहोऽस्य तपसो वोर्य्यमहा श्रुतमहोऽद्भुतम् ।
यमद्य पुरतः कृत्वा ध्रुवं सप्तर्षः स्थिताः ॥१३॥

तस्माच्चछिलष्टिं च भव्यं च ध्रुवाच्छमभुर्व्यजायत ।
शिलष्टेराधत्त सुच्छाया पञ्चपुत्रानकलमषान् ॥१४॥

रिपुं रिपुञ्जयं वीरं वृकलं वृकतेजसम् ।
रिपोराधत्त बृहती चक्षुषं सर्व्वतेजसम् ॥१५॥

अजीजनत् पुष्करिण्यां वैरिण्यां चाक्षुषं मनुम् ।
प्रजापतेरात्मजाया वीरणस्य महात्मनः ॥१६॥

मनोरजायन्त दश नृड्वलायां महौजसः ।
कन्यायां मुनिसार्दूला वैराजस्य प्रजापतेः ॥१७॥

कुत्सः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कवीः ।
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव ॥१८॥

अभिमन्युश्च दशमो नड्वलायां हौजसः ।
पुरीरजनयत् पुत्रान् षडाग्नेयी महाप्रभान् ॥१९॥

अङ्गं सुमनसं स्वातिं क्रतुमड्गिरसं मयम् ।
अड्गात् सुनीथापत्यं वै वेनमेकं व्यजायत ॥२०॥

अपचारेण वेनस्य प्रकोपः सुमहानभूत् ।
प्रजार्थमृषयो यस्य ममन्थुर्दक्षिणं करम् ॥२१॥

वेनस्य मथिते पाणौ संबभूव महान्नृपः ।
त दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः ॥२२॥

करिष्यति महातेजा यशश्च प्राप्सयते महत् ।
स धन्वी कवची जातो ज्वलज्ज्वलनसन्निभः ॥२३  ।

पृथुर्वैन्यस्तथा चेमां ररक्ष क्षत्रपूर्व्वजः ।
राडजसूयाभिषिक्तानामाद्यः स वसवुधाधिपः ॥२.२४॥

तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ ।
तेनेयं गौर्म्मुनिश्रेष्ठा दुग्धा शस्यानि भूभृता  ॥२५॥

प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह ।
पितृभिर्दानवैश्चैव गन्धर्वैरपसरोगणैः ॥२६॥

सर्पैः पुण्यजनैश्चैव वीरुद्भिः पर्व्वतैस्तथा ।
तेषु तेषु च पात्रेषु हुह्यमाना वसुन्धरा ॥२७॥

प्रादाद्यथेप्सितं क्षीरं तेन प्राणानधारयन् ।
पृथोस्तु पुत्रौ धर्म्मज्ञौ जज्ञातेऽन्तर्धिपातिनौ ॥२८॥

शिखण्डिनी हविर्धानमन्तर्धानाद्व्यजायत ।
हविर्धानात् षडाग्नेयी धिषणाजनयत् सुतान् ॥२९॥

प्राचीनबर्हिषं शुक्रं गयं कृष्णं गजाजिनौ ।
प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः ॥३०॥

हिवर्धानान्मुनिश्रेष्ठा येन संवर्द्धिताः प्रजाः ।
प्राचीनबर्हिर्भगवान् पृथिवीतलचारिणी । २.३१॥

समुद्रतनयायां तु कृतदारोऽभवत् प्रभुः ।
महतस्तपसः पारे सवर्णायां प्रजापतिः ॥३२॥

सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः ।
सर्व्वान् प्राचेतसो नाम धनुर्व्वेदस्य पारगान् ॥३३॥

अपृथग्धर्म्माचरणास्तेप्यन्त महत्तपः ।
दश वर्षसहस्राणि समुद्रसलिलेशयाः ॥३४॥

तपश्चरत्सु पृथिवीं प्रचेतासु महीरुहाः ।
अरक्ष्यमाणामावब्रुर्बभूवाथ प्रजाक्षः ॥३५॥

नाशाकन्मारुतो वातुं वृतं खमभवद्द्रुमैः ।
दश वर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥३६॥

तदुपश्रुत्य तपसा युक्ता सर्व्वे प्रचेतसः ।
मुखेभ्यो वायुमग्निं च ससृजुर्जातमन्यवः ॥३७॥

उन्मुलानथ वृभांस्तु कृत्वा वायुरशोषयत् ।
तानग्निरदहद्घोर एवमासीद्द्रुमक्षयः ॥३८॥

द्रुमक्षयमथो बुद्ध्वा किञ्चिच्छिष्टेषु शाखिषु ।
उपगाम्याब्रवीदेतांस्तदा सोमः प्रजापतीन् ॥३९॥

कोपं यच्छत राजानः सर्व्वे प्राचीनबर्हिषः ।
वृक्षशून्या कृता पृथ्वी शाम्येतामग्निमारुतौ ॥४०॥

 रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी ।
भविष्यं जानता तात धृता गर्भेण वै मया ॥४१॥

मारिषा नाम नाम्नैषा वृक्षाणामिति निर्म्मिता ।
भार्य्या वोऽस्तु महाभागाः । सोमवंशविवर्द्धिनी ॥४२॥

युष्माकं तेजसोर्द्धेन मम चार्द्धन तेजसः ।
अस्यामुत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः ॥४३॥

स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै ।
अग्निनागनिसमो भूयः प्रजाः संवर्द्धयिष्यति ॥४४॥

ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ।
संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्म्मेण मारिषाम् ॥४५  ।

दशाभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ।
दक्षो जज्ञे महातेजाः सोमस्यांशेन भो द्विजाः ॥४६॥

अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः ।
स सृष्ट्वा मनसा दक्षः पश्चादसृजत स्त्रियः ॥४७॥

ददौ दश स धर्म्माय कश्यपाय त्रयोदश ।
शिष्टाः सोमाय राज्ञे च नक्षत्राख्या ददौ प्रभुः । २.४८॥

तासु देवाः खगा गावो नागा दितिजदानवाः ।
गन्धर्वाप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः ॥४९॥

ततः प्रभृति विप्रेन्द्राः प्रजा मैथुनसंभवाः ।
सङ्कल्पाद्दर्शनात्स्पर्शात्पूर्व्वेषां प्रोच्यते प्रजा ॥५०॥

देवानां दानवानाञ्च गन्धर्वोंरगरक्षसाम् ।
सम्भवस्तु श्रुताऽस्माभिर्दक्षस्य च महात्मनः ॥५१॥

अङ्गुष्ठाद्ब्रह्मणो जज्ञे दक्षः किल शुभव्रतः ।
वामाङ्गुष्ठात्तथा चैवं तस्य पत्नी व्यजायत ॥५२॥

कथं प्राचेतसत्वं स पुनर्लेभे महातपाः ।
एतन्नः संशयं सूत व्याख्यातुं त्वमिहार्हसि ॥
दौहित्रश्चैव सोमस्य कथं श्वशुरतां गतः ॥५३॥

उत्पत्तिश्च निरोधश्च नित्यं भूतेषु भो द्विजाः ।
ऋषयोऽत्र न मुह्यन्ति विद्यावन्तश्च ये जनाः ॥५५॥

युगे युगे भवन्त्येते पुनर्दक्षादयो नृपाः ।
पुनश्चैवच विरुध्यन्ते विद्वांस्तत्र न मुह्यति ॥५५॥

ज्यैष्ठ्यं कानिष्ठ्यमप्येषां पूर्वं नासीद्विजोत्तमाः ।
तप एव गरीयोऽभूत्प्रभावश्चैव कारणम् ॥५६॥

इमां विसृष्टिं दक्षस्य यो विद्यात् सचराचराम् ।
प्रजावनानायुरुत्तीर्णः स्वर्गलोके महीयते ॥५७॥

इति ब्रह्ममहापुराणे सृष्टिकथनं नाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP