ब्रह्मपुराणम् - अध्यायः १११

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १११
अथैकादशाधिकशततमोऽध्यायः
नागतीर्थवर्णनम्
ब्रह्मोवाच
नागतीर्थमिति ख्यातं सर्वकामप्रदं शुभम् ।
यत्र नागेश्वरो देवः श्रृणु तस्यापि विस्तरम् ॥१॥

प्रतिष्ठानुपुरे राजा शुरसेन इति श्रुतः ।
सोमवंशभवः श्रीमान्मतिमान्गुणसागरः ॥२॥

पुत्रार्थं स महायत्नमकरोत्प्रियया सह ।
तस्य पुत्रश्चिरादासीत्सर्पो वै भीषणाकृतिः ॥३॥

पुत्रं तं गोपयामास शूरसेनो महीपतिः ।
राज्ञः पुत्रः सर्प इति न कश्चिद्विन्दते जनः ॥४॥

अन्तर्वर्ती परो वापि मातरं पितरं विना ।
धात्रेय्यपि न जानाति नामात्यो न पुरोहितः ॥५॥

तं दृष्ट्वा भीषणं सर्पं सभार्यो नृपसत्तमः ।
संतापं नित्यमाप्नोति सर्पाद्वरमपुत्रता ॥६॥

एतदस्ति महासर्पो वक्ति नित्यं मनुष्यवत् ।
स सर्पः पितरं प्राह कुरु चूड़ामपि क्रियाम् ॥७॥

तथोपनयनं चापि वेदाध्यनमेव च ।
यावद्वेदं न चाधीते तावच्छूद्रसमो द्विजः ॥८॥

ब्रह्मोवाच
एतच्छ्रुत्वा पुत्रवचः शूरसेनोऽतिदुःखितः ।
ब्राह्मणं कंचनाऽऽनीय संस्कारादि तदाऽकरोत् ॥
अधीतवेदः सर्पोऽपि पितरं चाब्रवीदिदम् ॥९॥

सर्प उवाच
विवाहं कुरु मे राजन्स्त्रीकामोऽहं नृपोत्तम ।
अन्यथाऽपि च कृत्यं ते न सिध्येदिति मे मतिः ॥१०॥

जनयित्वाऽऽत्मजान्वेदविधिनाऽखिलसंस्कृतीः ।
न कुर्याद्यः पिता तस्य नरकान्नास्ति निष्कृतिः ॥११॥

ब्रह्मोवाच
विस्मितः स पिता प्राह सुतं तमुरगाकृतिम् ॥१२॥

शूरसेन उवाच
यस्य शब्दादपि त्रासं यान्ति शूराश्च पूरुषाः ।
तस्मै कन्यां तु को दद्याद्वद पुत्र करोमि किम् ॥१३॥

ब्रह्मोवाच
तत्पितुर्वचनं क्षुत्वा सर्पः प्राह विचक्षणः ॥१४॥

सर्प उवाच
विवाहा बहवो राजन्राज्ञां सन्ति जनेश्वर ।
प्रसह्याऽऽहरणं चापि शस्त्रैर्वैवाह एव च ॥१५॥

जाते विवाहे पुत्रस्य पिताऽसौ कृतकृद्भवेत् ।
नो चेदत्रैव गङ्गायां मरिष्ये नात्र संशयः ॥१६॥

ब्रह्मोवाच
तत्पुत्रनिश्चयं ज्ञात्वा अपुत्रो नृपसत्तमः ।
विवाहार्थममात्यास्तानाहूयेदं वचोऽब्रवीत् ॥१७॥

शूरसेन उवाच
नागेश्वरो मम सुतो युवराजो सुणाकरः ।
गुणवान्मतिमाञ्शूरो दुर्जयः शत्रुतापनः ॥१८॥

रथे नागे स धनुषि पृथिव्यां नोपमीयते ।
विवाहस्तस्य कर्तव्यो ह्यहं वुद्धस्तथैव च ॥१९॥

राज्यभारं सुते न्यस्य निश्चिन्तोऽहं भवाम्यतः ।
न दारसंग्रहो यावतावत्पुत्रो मम प्रियः ॥२०॥

बालभावं नो जहाति तस्मात्सर्वेऽनुमन्य च ।
विवाहायाथ कुर्वन्तु यत्नं मम हिते रताः ॥२१॥

न मे काचित्तदा चिन्ता कृतोद्वाहो यदाऽऽत्मजः ।
सुते न्यस्तभरा यान्ति कृतिनस्तपसे वनम् ॥२२॥

ब्रह्मोवाच
अमात्या राजवचनं श्रुत्वा विनितवत् ।
ऊचुः प्राञ्जलयो हर्षाद्राजानं भूरितेजसम् ॥२३॥

अमात्या ऊचुः
तद पुत्रो गुणज्येष्ठस्त्वं च सर्वत्र विश्रुतः ।
विवाहे तव पुत्रस्य किं मन्त्र्यं किंतु चिन्त्यते ॥२४॥

ब्रह्मोवाच
अमात्येषु तथोक्तेषु गम्भीरो नृपसत्तमः ।
पुत्रं सर्वं त्वमात्यानां न चाऽऽख्याति न ते विदुः ॥२५॥

राजा पुनस्तानुवाच का स्यात्कन्या गुणाधिका ।
महावंशभवः श्रीमान्को राजा स्याद्गुणाश्रयः ॥२६॥

संबन्धयोग्यः शूरश्च यत्संबन्धः प्रशस्यते ।
तद्राजवचनं श्रुत्वा अमात्यानां महामतिः ॥२७॥

कुलीनः साधुरत्यन्तं राजकार्यहिते रतः ।
राज्ञो मतिं विदित्वा तु इङ्गितज्ञोऽब्रवीदिदम् ॥२८॥

अमात्य उवाच
पूर्वदेशे महाराज विजयो नाम भूपतिः ।
वाजिवारणरत्नानां यस्य संख्या न विद्यते ॥२९॥

अष्टौ पुत्रा महेष्वासा महाराजस्य धीमतः ।
तेषां स्वसा भोगवती साक्षाल्लक्ष्मीरिवापरा ॥
तव पुत्रस्य योग्या सा भार्या राजन्मयोदिता ॥३०॥

ब्रह्मोवाच
वृद्धामात्यवचः श्रुत्वा राजा तं प्रत्यभाषत ॥३१॥

राजोवाच
सुता तस्य कथं मेऽस्य सुतस्य स्याद्वदस्व तत् ॥३२॥

वृद्धामात्य उवाच
लक्षितोऽसि महाराज यत्ते मनसि वर्तते ।
यच्छूरसेन कृत्यं स्यादनुजानीहि मां ततः ॥३३॥

ब्रह्मोवाच
वृद्धामात्यवचः श्रुत्वा भूषणाच्छादनोक्तिभिः ।
संपूज्य प्रेषयामास महत्या सेनया सह ॥३४॥

स पूर्वदेशमागत्य महाराजं समेत्य च ।
संपूज्य विविधैर्वाक्यैरुपायैर्नीतिसंभवैः ॥३५॥

महाराजसुतायाश्च भोगवत्या महामतिः ।
शुरसेनस्य नृपतेः सुनोर्नागस्य धीमतः ॥३६॥

विवाहयाकरोत्संधिं मिथ्यामिथ्यावचोक्तिभिः ।
पूजयामास नृपतिं भूषणाच्छादनादिभिः ॥३७॥

अवाप्य पूजां नृपतिर्ददामीत्यवदत्तदा ।
तत आगत्य राज्ञेऽसौ वृद्धामात्यो महामतिः ॥३८॥

शूरसेनाय तद्वृत्तं वैवाहिकमवेदयत् ।
ततो बहुतिथे काले वृद्धामात्यो महामतिः ॥३९॥

पुनर्बलेन महता वस्त्रालंकारभूषितः ।
जगाम तरसा सर्वैरन्यैश्च सचिवैर्वृतः ॥४०॥

विवाहाय महामात्यो महाराजाय बुद्धिमान् ।
सर्वं प्रोवाच वृद्धोऽसावमात्यः सचिवैवृतः ॥४१॥

वृद्धामात्य उवाच
अत्राऽऽगन्तुं न चाऽऽया(चेच्छ)ति शुरसेनस्य भूपतेः ।
पुत्रो नाग इति ख्यातो बुद्धिमान्गुणसागरः ॥४२॥

क्षत्रियाणां विवाहाश्च भवेयुर्बहुधा नृप ।
तस्माच्छस्त्रैरलंकारैर्विवाहः स्यान्महामते?१ ॥४३॥

क्षत्रिया ब्राह्मणाश्चैव सत्यां वाचं वदनिति हि ।
तस्माच्छस्त्रैरलंकारैर्विवाहस्त्वनुमन्यताम् ॥४४॥

ब्रह्मोवाच
वृद्धामात्यवचः श्रुत्वा विजयो राजसत्तमः ।
मेने वाक्यं तथा सत्यमात्यं भूपतिं तदा ॥४५॥

विवाहमरकेद्राजा भोगवत्याः सविस्तरम् ।
शस्त्रेण च यथाशास्त्रं प्रेषयामास तां पुनः ॥४६॥

स्वानमात्यांस्तथा गाश्च हिरण्यतुरगादिकम् ।
बहु दत्त्वाऽथ विजयो हर्षेण महता युतः ॥४७॥

तामादायाश्च सचिवा वृद्धामात्यपुरोगमाः ।
प्रतिष्ठानमथाभ्येत्य शुरसेनाय तां स्नुषाम् ॥४८॥

न्यवेदयंस्तथोचुस्ते विजयस्य वचो बहु ।
भूषणानि विचित्राणि दास्यो वस्त्रादिकं च यत् ॥४९॥

निवेद्य शुरसेनाय कृतकृत्या बभूविरे ।
विजयस्य तु येऽमात्या भोगवत्या सहाऽऽगताः ॥५०॥

तान्पूजयित्वा राजाऽसौ बहुमानपुरःसरम् ।
विजयाया यथा प्रीतिस्तथा कृत्वा व्यसर्जयत् ॥५१॥

विजयस्य सुता बाला रूपयौवनशालिनी ।
श्वश्रूश्वशुरयोनित्यं शुश्रूषन्ती सुमध्यमा ॥५२॥

भोगवत्याश्च यो भर्ता महासर्पोऽतिभीषणः ।
एकान्तदेशे विजने गृहे रत्नसुशोभिते ॥५३॥

सुगन्धकुसुमाकीर्णे तत्राऽऽस्ते सुखशीतले ।
स सर्पो मातरं प्राह पितरं च पुनः पुनः ॥५४॥

मम भार्या राजपुत्री किं मां नैवोपसर्पति ।
तत्पुत्रवचनं श्रुत्वा सर्पमातेदमब्रीत् ॥५५॥

राजपत्न्युवाच
धात्रिके गच्छ सुभगे शीघ्रं भोगवतीं वद ।
तव भर्ता सर्प इति ततः सा किं वदिष्यति ॥५६॥

ब्रह्मोवाच
धात्रिका च तथेत्युक्त्वा गत्वा भोगवतीं तदा ।
रहोगता उपाचेदं विनीतवदपूर्ववत् ॥५७॥

धात्रिकोवाच
जानेऽहं सुभगे भद्रे भर्तारं तव दैवतम् ।
न चाऽऽख्येयं त्वया क्वापि सर्पो न पुरुषो ध्रुवम् ॥५८॥

ब्रह्मोवाच
तस्यास्तद्वचनं श्रुत्वा भोगवत्यब्रवीदिदम् ॥५९॥

भोगवत्युवाच
मानुषीणां मनुष्यो हि भर्ता सामान्यतो भवेत् ।
किं पुनर्देवजातिस्तु भर्ता पुण्येन लभ्यते ॥६०॥

ब्रह्मोवाच
भोगवत्यास्तु तद्वाक्यं सा च सर्वं न्यवेदयत् ।
सर्पाय सर्पमात्रे च राज्ञे चैव यथाक्रमम् ॥६१॥

रुरोद राजा तद्वाक्यात्स्मृत्वा तां कर्मणो गतिम् ।
भोगवत्यपि तां प्राह उक्तपूर्वां पुनः सखीम् ॥६२॥

भोगवत्युवाच
कान्तं दर्शय भद्रं ते वृथा याति वयो मम ॥६३॥

ब्रह्मोवाच
ततः सा दर्शयामास सर्पं तमतिभीषणम् ।
सुगन्धकुसुमाकीर्णे शयने सा रहोगता ॥६४॥

तं दृष्ट्वा भीषणं सर्पं भर्तारं रत्नभूषितम् ।
कृताञ्जलिपुटा वाक्यमवदत्कान्तमञ्जसा ॥६५॥

भोगवत्युवाच
धन्याऽस्मयनुगृहीताऽस्मि यस्या मे दैवतं पतिः ॥६६॥

ब्रह्मोवाच
इत्युक्त्वा शयने स्थित्वा तं सर्पं सर्पंभावनैः ।
खेलयामास तन्वङ्गीं गीतैश्चैवाङ्गसंगमै ॥६७॥

सुगन्धकुसुमैः पानैस्तोषयामास तं पतिम् ।
तस्याश्चैव प्रसादेन सर्पस्याभूत्स्मृतिर्नुने ॥
स्मृत्वा सर्वं दैवकृतं रात्रौ सर्पोऽब्रवीत्प्रियाम् ॥६८॥

राजकन्याऽपि मां दृष्ट्वा न भीताऽसि कथं प्रिये ।
सोवाच दैवहितं कोऽतिक्रमितुमीश्वरः ॥
पतिरेव गतिः स्त्रीणां सर्वदैव विशेषतः ॥६९॥

ब्रह्मोवाच
श्रुत्वेति हृष्टस्तामाह नागः प्रहसिताननः ॥७०॥

सर्प उवाच
तुष्टोऽस्मि तव भक्त्याऽहं किं ददामि तपेप्सितम् ।
तव प्रसादाच्चार्वङगिं सर्वस्मृतिरभूदियम् ॥७१॥

शप्तोऽहं देवदेवेन कुपितेन पिनाकिना ।
महेश्वरकरे नागः शेषपुत्रो महाबलः ॥७२॥

सोऽहं पतिस्त्वं च भार्या नाम्ना भोगवती पुरा ।
उमावाक्याज्जहासोच्चैः शंभुः प्रीतो रहोगतः ॥७३॥

ममापि चाऽऽगतं भद्रे हास्यं तद्देवसंनिधौ ।
ततस्तु कुपितः शंभुः प्रादाच्छापं ममेदृशम् ॥७४॥

शिव उवाच
मनुष्ययोनौ त्वं सर्पो भविता ज्ञानवानिति ॥७५॥

सर्प उवाच
ततः प्रसादितः शंभुस्त्वया भद्रे मया सह ।
ततश्चोक्तं तेन भद्रे गौतम्यां मम पूजनम् ॥७६॥

कुर्वतो ज्ञानमाधास्ये यदा सर्पाकृतेस्तव ।
तदा विशापो भविता भोगवत्याः प्रसादतः ॥७७॥

तस्मादिदं ममाऽऽपन्नं तव चापि शुभानने ।
तस्मान्नीत्वा गौतमीं मां पूजां कुरु मया सह ॥७८॥

ततो विशापो भविता आवां यावः शिवं पुनः ।
सर्वेषां सर्वदाऽऽर्तानां शिव एव परा गतिः ॥७९॥

ब्रह्मोवाच
तच्छ्रुत्वा भर्तुवचनं सा भर्त्रा गौतमीं ययौ ।
ततः स्नात्वा तु गौतम्यां पूजां चक्रे शिवस्य तु ॥८०॥

ततः प्रसन्नो भगवान्दिव्यरूपं ददौ मुने ।
आपृच्छ्य पितरौ सर्पो भार्यया गन्तुमुद्यतः ॥
शिवलोकं ततो ज्ञात्वा पिता प्राह महामतिः ॥८१॥

पितोवाच
युवराज्यधरो ज्येष्ठः पुत्र एको भवानिति ।
तस्माद्राज्यमशेषेम कृत्वोत्पाद्य सुतान्बहून् ॥
याते मयि परं धाम ततो यादि शिवं पुरम् ॥८२॥

ब्रह्मोवाच
एतच्छ्रुत्वा पितृवचस्तथेत्याह स नागराट् ।
कामरूपमवाप्याथ भार्यया सह सुव्रतः ॥८३॥

पित्रा मात्रा तथा पुत्रै राज्यं कृत्वा सुविस्तरम् ।
याते पितरि स्वर्लोकं पुत्रान्स्थाप्य स्वके पदे ॥८४॥

भार्यामात्यादिसहितस्ततः शिवपुरं ययौ ।
ततः प्रभृति तत्तीर्थं नागतीर्थमिति श्रुतम् ॥८५॥

यत्र नागेश्वरो देवो भोगवत्या प्रतिष्ठितः ।
तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥८६॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये नागतीर्थवर्णनं नामैकादशाधिकशततमोऽध्यायः ॥१११॥

गौतमीमाहात्म्ये द्विचत्वारिंशत्तमोऽध्यायः ॥४२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:39.7400000