संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १३५

ब्रह्मपुराणम् - अध्यायः १३५

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


वाणीसंगमतीर्थवर्णनम्
ब्रह्मोवाच
वाणीसंगममाख्यातं यत्र वागीश्वरो हरः ।
तत्तीर्थं सर्वपापानां मोचनं सर्वकामदम् ॥१॥

तत्र स्नानेन दानेन ब्रह्महत्यादिनाशनम् ।
ब्रह्मविष्ण्वोश्च संवादे महत्त्वे च परस्परम् ॥२॥

तयोर्मध्ये महादेवो ज्योतिर्मूर्तिरभूत्किल ।
तत्रैव वागुवाचेदं दैवी पुत्र तयोः शुभा ॥३॥

अहमस्मि महांस्तत्र अहमस्मीति वै मिथः ।
दैवी वाक्तावुभौ प्राह यस्त्वस्यान्तं तु पश्यति ॥४॥

स तु ज्येष्ठो भवेत्तस्मान्मा वादं कर्तुमर्हथः ।
तद्वाक्याद्विष्णुरगमदधोऽहं चोर्ध्वमेव च ॥५॥

ततो विष्णुः शीघ्रमेत्य ज्योतिःपार्श्व उपाविशत् ।
अप्राप्यान्तमहं प्रायां दूराद्‌दूरतरं मुने ॥६॥

ततः श्रान्तो निवृत्तोऽहं द्रष्टुमीशं तु तं प्रभुम् ।
तदैवं मम धीरासीद्‌दृष्टश्चान्तो मया भृशम् ॥७॥

अस्य देवस्य तद्विष्णोर्मम ज्यैष्ठ्यं स्फुटं भवेत् ।
पुनश्चापि मम त्वेवं मतिरासीन्महामते ॥८॥

सत्यैर्वक्त्रैः कथं वक्ष्ये पीडितोऽप्यनृतं वचः ।
नानाविधेषु पापेषु नानृतात्पातकं परम् ॥९॥

सत्यैर्वक्त्रैरसत्यां वा वाचं वक्ष्ये कथं त्विति ।
ततोऽहं पञ्चमं वक्त्रं गर्दभाकृतिभीषणम् ॥१०॥

कृत्वा तेनानृतं वक्ष्य इति ध्यात्वा चिरं तदा ।
अब्रवं तं हिरं तत्र आसीनं जगतां प्रभुम् ॥११॥

अस्य चान्तो मया दृष्टस्तेन ज्यैष्ठ्यं जनार्दन ।
ममेति वदतः पारश्वे उभौ तौ हरिशंकरौ ॥१२॥

एकरूपत्वमापन्नौ सूर्याचन्द्रमसाविव ।
तौ दृष्ट्वा विस्मितो भीतश्चास्तवं तावुभावपि ॥
ततः क्रुद्धौ जगन्नाथौ वाचं तामिदमूचतुः ? ॥१३॥

हरिहरावूचतुः
दुष्टे त्वं निम्नगा भूया नानृतादिस्ति पातकम् । १३५.१४॥

ब्रह्मोवाच
ततः सा विह्‌वला भूत्वा नदीभावमुपागता ।
तद्‌दृष्ट्वा विस्मितो भीतस्तामब्रवमहं तदा ॥१५॥

यस्मादसत्यमुक्ताऽसि ब्रह्मवाचि स्थिता सती ।
तस्माददृश्या त्वं भूयाः पापरूपाऽस्यसंशयम् ॥१६॥

एतच्छापं विदित्वा तु तौ देवौ प्रणता तदा ।
विशापत्वं प्रार्थयन्ती तुष्टाव च पुनः पुनः ॥१७॥

ततस्तुष्टौ देवदेवौ प्रार्थितौ त्रिदशार्चितौ ।
प्रीत्या हरिहरावेवं वाचं वाचमथोचतुः ॥१८॥

हरिहरावूचतुः
गङ्गया संगता भद्रे यदा त्वं लोकपावनी ।
तदा पुनर्वपुस्ते स्यात्पवित्रं हि सुशोभने ॥१९॥

ब्रह्मोवाच
तथेत्युक्ताव साऽपि देवी गङ्गया संगताऽभवत् ।
भागीरथी गौतमी च ततश्चापि स्वकं वपुः ॥२०॥

देवी सा व्यागमद्‌भ्रह्मन्देवानामपि दुर्लभम् ।
गौतम्यां सैव विख्याता नाम्ना वाणीति पुण्यदा ॥२१॥

भागीरथ्यां सैव देवी सरस्वत्यभिधीयते ।
उभयत्रापि विख्यातः संगमो लोकपूजितः ॥२२॥

सरस्वतीसंगमश्च वीणीसंगम एव च ।
गौतम्या संगता देवी वाणी वाचा सरस्वती ॥२३॥

सर्वत्र पूजितं तीर्थं तत्र वाचा शिवं प्रभुम् ।
देवेश्वरं पूजयित्वा विशापमगमद्यतः ॥२४॥

ब्रह्म विधूव वाग्दौष्ट्यं स्वं च धामागमत्पुनः ।
तस्मात्तत्र शुचिर्भूत्वा स्नात्वा तत्र च संगमे ॥२५॥

वागीश्वरं ततो दृष्ट्वा तावता मुक्तिमाप्नुयात् ।
दानहोमादिकं किंचितुपवासादिकां क्रियाम् ॥२६॥

यः कुर्यात्संगमे पुण्ये संसारे न भवेत्पुनः ।
एकोनविंशतिशतं तीर्थानां तीरयोर्द्वयोः ॥
नानाजन्मार्जिताशेषपापक्षयविधायिनाम् ॥२७॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये वाणीसंगमवागीश्वराद्युभयतटस्थैकोनविंशतिशततीर्थवर्णनं नाम
पञ्चत्रिंशदधिकशततमोऽध्यायः ॥१३५॥

गौतमीमाहात्म्ये षट्षष्टिमोऽध्यायः ॥६६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP