संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ४६ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ४६ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता बलरामकृतं वसन्तमालतीपुरीकर्षणम् Translation - भाषांतर अथ कृष्णे भगवति पुरीं द्वारावतीं गते ॥प्रद्युम्नः सैनिकैः सार्द्धं नदं कामदुघं ययौ ॥१॥शतयोजनविस्तीर्णा गंधर्वाणां मनोहरा ॥वसंतमालति नाम्ना हेमरत्नमयी पुरी ॥२॥लवंगलतिकाजालै-रेलाकाश्मीरदेशकैः ॥जातीफलादिजावित्री-श्रीखंडपारिजातकैः ॥३॥मत्तालिनादिता भृंगैः शब्दिता चित्रपक्षिभिः ॥गंधर्वै राजिता भव्यैर्नागैर्भोगवती यथा ॥४॥पतंगो नाम तत्रैव गंधर्वेशो महाबलः ॥करोति राज्यं सुकृती शक्रवद्बलपौरुषम् ॥५॥श्रुत्वा प्रद्युम्नमायातं दिग्जयार्थं विनिर्गतम् ॥गंधर्वैरुद्भटैर्युक्तो युद्धं कर्तुं मनो दधे ॥६॥रथाश्वगजवीरैश्च गंधर्वैर्दशकोटिभिः ॥पतंग आगतो योद्धुं प्रद्युम्नस्यापि संमुखे ॥७॥गंधर्वैर्यदुभिः सार्द्धं घोरं युद्धं बभूव ह ॥भल्लैर्गदाभिः परिघैर्मुद्गरैस्तोमरर्ष्टिभिः ॥८॥बाणांधकारे संजाते पतंगोऽतिरथो बली ॥धनुष्टंकारयन् प्राप्तो जगर्ज घनवद्बली ॥९॥गदो गदां समादाय बलदेवानुजो बली ॥तद्बलं पोथयामास वज्रेणेंद्रो यथा गिरिन् ॥१०॥गदस्य गदया केचिद्गंधर्वाः पतिता रणे ॥रथाश्चूर्णीकृताः सर्वे मातंगा भिन्नमस्तकाः ॥११॥अश्वारूढाः केऽपि वीराः पतिता रणमूर्द्धनि ॥अधोमुखा ऊर्ध्वमुखा गंधर्वाश्छिन्नबाहवः ॥१२॥क्षणमात्रेण तत्सैन्ये रुधिराणां नदी ह्यभूत् ॥प्रमथा हरमालार्थं शिरांसि जगृहुर्मृधे ॥१३॥सिंहारूढा भद्रकाली डाकिनी शतसंवृता ॥कपालेनापि रुधिरं पिबंति दृश्यते मृधे ॥१४॥एवं युद्धे गदकृते गन्धर्वाणां पलायताम् ॥गंधर्वेशस्तदा प्राप्तो हस्तिलक्षबलान्वितः ॥१५॥गदं तताड गदया पतंगो हृदि मैथिल ॥गदोऽपि तं स्वगदया पतंगं हृदि चौजसा ॥१६॥तयोश्च गदया युद्धं बभूव घटिकाद्वयम् ॥विस्फुलिंगान् क्षरंत्यौ द्वे गदे चूर्णीबभूवतुः ॥१७॥लक्षभारमयीं गुर्वीं गदामादाय सत्वरम् ॥गदं तताड शिरसि पतंगो रणदुर्मदः ॥१८॥गदाप्रहारेण गदः क्षणं मूर्छामवाप ह ॥एवं कृते घोरमृधे पतंगेन महात्मना ॥१९॥तदैव द्वारकापुर्य्यास्तेजः संघट्टमागतम् ॥ददृशुर्यादवाः सर्वे कोटिमार्तंडसन्निभम् ॥२०॥तस्मिंस्तेजसि गौरांगो बलदेवो महाबलः ॥आविर्बभूव सहसा भगवान् भक्तवत्सलः ॥२१॥गंधर्वाणां बलं सर्वं समाकृष्य हलेन वै ॥तताड मुसलं क्रुद्धो बलो नीलांबरो बली ॥२२॥रथान् गजांस्तुरंगांश्च वीराः शस्त्रभृतां वराः ॥निपेतुर्युगपत्सर्वे चूर्णिताश्चोपला इव ॥२३॥पतंगो विरथस्तस्माद्भीतभीतः पुरीं ययौ ॥पुनर्योद्धुं यादवैश्च सेनाव्यूहं चकार ह ॥२४॥शतयोजनविस्तीर्णां गंधर्वाणां महापुरीम् ॥वसंतमालतीं सर्वामुद्विदार्य हलेन वै ॥२५॥विचकर्ष बलः क्रुद्धो नदे कामदुघे नृप ॥हाहाकारस्तदैवासीन्नगर्यां पतित्तैर्गृहे ॥२६॥तिर्यक्पोतमिवाघूर्णां नगरी वीक्ष्य सत्वरम् ॥पतंगः सर्वगंधर्वैर्हषितः सन्कृतांजलिः ॥२७॥खचिद्धेमसुवर्णानां मुक्तातोरणशालिनाम् ॥दशयोजनविस्तीर्णीकृतानां विश्वकर्मणा ॥२८॥कामगानां पताकाभिर्युतानां कुंभकोटिभिः ॥सहस्रार्कप्रकाशानां विमानानां द्विलक्षकम् ॥२९॥चतुर्लक्षं गवां चैव तुरंगाणां दशार्बुदम् ॥एलालवंगकाश्मीरजातीफलफलैः सह ॥३०॥सुधाफलानां दिव्यानां कोटिशो भाजनानि च ॥नीत्वा बलिं समादाय दत्वा नत्वा प्रधर्षितः ॥३१॥कृताञ्जलिः प्राह बलं बलभद्रप्रसादवित् ॥पतंग उवाच -राम राम महावीर्य न जाने तव विक्रमम् ॥यस्यैकमूर्ध्नि तिलकं दृश्यते भूमिमंडलम् ॥३२॥देवाधिदेव भगवन् कामपाल नमोऽस्तु ते ॥नमोऽनंताय शेषाय साक्षाद्रामाय ते नमः ॥३३॥जयजयाच्युत देव परात्परस्वयमनंतदिगंतगतश्रुते ॥सुरमुनींद्रफणींद्रवराय तेमुसलिने बलिनै हलिने नमः ॥३४॥श्रीनारद उवाच -एवं स्तुतः पतंगेन बलभद्रो महाबलः ॥प्रसन्नचेता गंधर्वं मा भैष्टेत्यभयं ददौ ॥३५॥स्थापयित्वा बले कार्ष्णिं प्रणतं यादवेश्वरः ॥यादवैः प्रस्तुतः शीघ्रं पुरीं द्वारावतीं ययौ ॥३६॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे वसंतमालतीकर्षणं नाम षट्चत्वारिंशोऽध्यायः ॥४६॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP