संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः १८ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः १८ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता माथुर-शूरसेनविजयम् Translation - भाषांतर श्रीनारद उवाच -अथ कार्ष्णिर्गयामेत्य फल्गुं स्नात्वा ससैनिकः ॥अन्यान्देशांस्ततो जेतुं प्रस्थानमकरोत्पुनः ॥१॥श्रुत्वा जितं जरासंधं तदातंकान्नृपाः परे ॥उपायनं ददुस्ते वै भयार्ताः शरणं गताः ॥२॥गोमतीं सरयूं पुण्यामनुस्रोतं ततोऽगमत् ॥ततो भागीरथीतीरे काशीमभिजगाम ह ॥३॥पार्ष्णिग्राहः काशिराजो गृहीतो मृगयां गतः ॥सोऽपि तस्मै बलिं प्रादाच्छ्रुत्वा तस्य बलं महत् ॥४॥प्रद्युम्नः सैनिकैः सार्द्धं कोशलान्प्रगतो बली ॥अयोध्यानिकटे राजन्नंदिग्रामे स्थितोऽभवत् ॥५॥कोशलेन्द्रो नग्नजिच्च तुरंगैश्च गजै रथैः ॥महाधनैः शंबरारिमर्हयामास तत्त्ववित् ॥६॥उत्तरेशो दीपतमो नयपालाधिपो गजः ॥विशालेशो बर्हिणश्च एते वै तं बलिं ददुः ॥७॥नैमिषेशो हरेर्भक्तः श्रीकृष्णस्य प्रभाववित् ॥कृतांजलिपुटो भूत्वा ददौ तस्मै बलिं नृपः ॥८॥प्रयागं गतवान्कार्ष्णिस्त्रिवेणीं पापनाशिनीम् ॥स्नात्वा ददौ महादानं तीर्थराजप्रभाववित् ॥९॥गजा विंशतिसाहस्रमश्वानां दशलक्षकम् ॥रथानां च चतुर्लक्षं गवां तत्र दशार्बुदम् ॥१०॥हेममालासमायुक्तं हेमांबरसमन्वितम् ॥दशभारं सुवर्णानां मुक्तानां लक्षमेव हि ॥११॥द्विलक्षं नवरत्नानां वस्त्राणां दशलक्षकम् ॥काश्मीरकंबलानां च द्विलक्षं नवकंबलम् ॥१२॥ब्राह्मणेभ्यो ददौ कार्ष्णिस्तीर्थराजे हरिप्रिये ॥कारूषाधिपतिस्तत्र पौंड्रको नाम मैथिल ॥१३॥कृष्णशत्रुः सोऽपि कार्ष्णिं पूजयामास शंकितः ॥प्रद्युम्नं चागतं वीक्ष्य पांचाले कान्यकुब्जके ॥१४॥भयं प्रापुर्नृपाः सर्वे दुर्गे दुर्गे कृतार्गलाः ॥विचेलुर्यादवात्सर्वे भयार्ता दुर्गमाश्रिताः ॥१५॥बिंदुदेशाधिपो राजा दीर्घबाहुर्महाबलः ॥शंबरारेः परं सन्धिं कर्तुं सैन्ये समाययौ ॥१६॥दीर्घबाहुरुवाच -यूयं सर्वे यादवेन्द्रा आगता जयिनो दिशाम् ॥मनोरथं मे कुरुतां भवेयं तुष्टमानसः ॥१७॥सजलस्यापि काचस्य पात्रस्य शरवेधतः ॥न क्षरेद्बिंदुरेकोऽपि बाणस्तदधितिष्ठति ॥१८॥न पात्रं शकलीभूतं तन्मध्ये हस्तलाघवम् ॥ये कुर्वंति प्रतिज्ञां मे तेभ्यो दास्यामि कन्यकाः ॥१९॥यूयं सर्वे यादवेन्द्रा धनुर्वेदविशारदाः ॥मयापि नारदमुखाच्छ्रुता पूर्वं महाबलाः ॥२०॥सर्वेषां विस्मितानां च प्रद्युम्नो धन्विनां वरः ॥तथेत्युवाच सदसि बिंदुदेशाधिपं नृप ॥२१॥दीर्घवंशौ सुविस्थाप्य गुणं बद्ध्वा तदन्तरे ॥गुणे बद्ध्वा काचकुम्भं सजलं पश्यतां सताम् ॥२२॥धनुर्गृहीत्वा तद्वीक्ष्य बाणं कार्ष्णिः समादधे ॥काचपात्रं शरो भित्वा तस्थौ मध्येऽर्द्धनिःसृतः ॥२३॥एकतो मुखपुङ्खाभ्यां रविरश्मिरिवांबुदे ॥काचपात्रे बभौ बाणस्तदद्भुतमिवाभवत् ॥२४॥न पात्रं शकलीभूतं त्रिकुशस्य फलं यथा ॥न चालनं कंपनं च बिंदुस्रावोऽपि नाभवत् ॥२५॥प्रद्युम्नो भगवान्बाणं द्वितीयं संदधे पुनः ॥सोऽपि पूर्वं समुत्सृज्य तत्र तस्थौ विदेहराट् ॥२६॥सांबोऽपि धनुरादाय बाणान्पंच समाददे ॥काचपात्रं च ते भित्वा तस्थुस्तत्रार्धनिःसृताः ॥२७॥युयुधानो धनुर्नीत्वा बाणमेकं समाक्षिपत् ॥सर्वेषां पश्यतां तेषां पात्रं चूर्णीबभूव ह ॥२८॥उच्चकैर्जहसुः सर्वे यादवाः परसैनिकाः ॥त्वं महान्बाणधारीह कार्तवीर्यार्जुनो यथा ॥२९॥अर्जुनो भरतो रामस्त्रिपुरघ्नो हि वा भवान् ॥द्रोणो भीष्मोऽथवा कर्णो जामदग्न्य इवाभवत् ॥३०॥अन्यत्पात्रं समाधायानिरुद्धो धन्विनां वरः ॥अधो गत्वाऽथ तद्दृष्ट्वा बाणं चिक्षेप लाघवात् ॥३१॥सोऽपि पात्रतलं भित्वा तस्थौ तत्रापि निःसृतः ॥तत्पात्राद्धस्तपञ्चोर्ध्वं बद्ध्वा पाषाणमंबरे ॥३२॥दीप्तिमान् धनुरादाय बाणमेकं समादधे ॥सोऽपि पात्रतलं भित्वा बाणमुत्सृज्य चाग्रतः ॥३३॥ताडयित्वा च पाषाणं पुनस्तत्र समाश्रितः ॥बाणवेगेन तदपि बिंदुस्रावोऽपि नाभवत् ॥३४॥गतागतेन यावद्वै बिंदुस्रावोऽपि नाभवत् ॥तदा वीराश्च ते सर्वे साधु साध्विति वादिनः ॥३५॥भानुर्धनुः संगृहीत्वा वीक्ष्य मीलितलोचनः ॥आराच्चिक्षेप नाराचं सर्वेषां पश्यतां सताम् ॥३६॥सोऽपि पात्रं तदा भीत्त्वा पात्रं कृत्वा ह्यधोमुखम् ॥पुनरूर्ध्वमुखं कृत्वा तस्थौ तत्रार्द्धनिःसृतः ॥३७॥बाणवेगेन तदपि बिंदुस्रावोऽपि नाभवत् ॥न पात्रं शकलीभूतं तदद्भुतमिवाभवत् ॥३८॥एवं श्रीकृष्णपुत्रा ये अष्टादश महारथाः ॥सर्वे ते बिभिदुः पात्रं जलस्रावोऽपि नाभवत् ॥३९॥बिंदुदेशाधिपो राजा दीर्घबाहुः सुविस्मितः ॥तेभ्योऽदात्कन्यकाः सृष्टा अष्टादश सुलोचनाः ॥४०॥तेषां विवाहसमये शंखभेर्यानकादयः ॥नेदुर्जगुश्च गंधर्वा ननृतुश्चाप्सरोगणाः ॥४१॥तेषामुपरि देवास्ते जयध्वनिसमाकुलाः ॥ववृषुः पुष्पवर्षाणि चक्रुः श्लाघां दिवी स्थिताः ॥४२॥गजान्षष्टिसहस्राणि हयानामर्बुदं तथा ॥दशलक्षं रथानां च दासीनां लक्षमेव च ॥४३॥शिबिकानां चतुर्लक्षं पारिबर्हे ददौ नृपः ॥ताः प्राहिणोद्द्वारावतीं बभौ कर्ष्णिर्यदूत्तमः ॥४४॥दीर्घबाहुमनुप्राप्य निषधान्प्रययौ ततः ॥निषधाधिपतिर्वीरसेनजिन्नाम मैथिल ॥४५॥उपायनं ददौ सोऽपि प्रद्युम्नाय महात्मने ॥तथाहि भद्राधिपतिः श्रीकृष्णेष्टो हरिप्रियः ॥४६॥पूजयामास सबलं बृहत्सेनो हरेः सुतम् ॥माथुरान्शूरसेनांश्च मधून्प्राप्तः ससैनिकः ॥४७॥स्वागतैः पूजितः कार्ष्णिर्मथुरायां ययौ पुनः ॥ततः प्रदक्षिणिकृत्य मथुरां सवनां किल ॥४८॥गोपान्गोपीं यशोदां च नन्दराजं व्रजेश्वरम् ॥वृषभानूपनंदांश्च नत्वा कार्ष्णिर्बभौ नृप ॥४९॥बलिं च नंदराजाय दत्वा दत्वा पुनः पुनः ॥तै पूजितः कतिदिनैः स्थितोऽभून्नंदगोकुले ॥५०॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे माथुरशूरसेनदेशविजयो नामाष्टादशोऽध्यायः ॥१८॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP